रसार्णव - अष्टमः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


श्रीदेव्युवाच
महारसानां लोहानां रत्नानां च सुरेश्वर ।
रागसंख्यां तथा बीज साधनं च वद प्रभो ॥१॥
श्रीभैरव उवाच
महारसेषु द्विगुणस्ताम्ररागः सुरेश्वरि ।
गिरिदोषे क्षयं नीते सूतकं रञ्जयन्ति ते ॥२॥
सस्यकश्चपलश्चैव राजावर्तश्च माक्षिकः ।
विमलो गैरिकं चैषां एकैकं द्विगुणं भवेत् ॥३॥
भ्रामकादिषु कान्तेष्वप्येकद्वित्रिगुणो हि सः ।
एकैकमभ्रके चैव श्वेतपीतारुणः सिते ॥४॥
अष्टादशसहस्राणि स्थिता रागाश्च गन्धके ।
अयुतं दरदे देवि शिलायां द्विसहस्रकम् ॥५॥
रसके सप्तसाहस्रं कङ्कुष्ठे तु चतुष्टयम् ।
रसगर्भे प्रकाशन्ते जारणं तु भवेद्यदि ॥६॥
द्वादशाग्रं शतं पञ्च नागे रागा व्यवस्थिताः ।
शतहीनं सहस्रं तु वङ्गे रागा व्यवस्थिताः ॥७॥
रागाणां शतपञ्चाशत्शुल्वमध्ये व्यवस्थिताः ।
रक्तपीताश्च शुक्लाश्च हेम्नि रागाश्च षोडश ॥८॥
रागाः षष्टिसहस्राणि शक्रनीले व्यवस्थिताः ।
महानीले च देवेशि ते रागा द्विगुणाः स्थिताः ॥९॥
माणिक्ये तु सुरेशानि रागा लक्षत्रयोदश ।
गजवारिसमुत्पन्नं रत्नं मुक्ताफलं विदुः ॥१०॥
गजे त्रीणि सहस्राणि षट्सहस्राणि वारिजे ।
नवलक्षं च रागाणां पद्मरागे व्यवस्थिताः ॥११॥
भेदयेत्सर्वलोहानि यच्च केन न भिद्यते ।
तद्वज्रं तस्य देवेशि रागं लक्षद्वयं विदुः ॥१२॥
षोडशैव सहस्राणि पुष्परागे व्यवस्थिताः ।
पादोनलक्षरागास्तु प्रोक्ता मरकते प्रिये ॥१३॥
रागसंख्यां न जानाति संक्रान्तस्य रसस्य तु ।
अधिकं मारयेल्लोहं हीनं चैव प्रकाशयेत् ॥१४॥
मानवेन्द्रः प्रकुर्वीत यो हि जानाति पार्वति ।
शतकोटिप्रमाणेन रागसंख्यां प्रकल्पयेत् ।
स्पर्शनं चैवमालोक्य शतकोटिस्तु विध्यते ॥१५॥
अतः परं प्रवक्ष्यामि बीजानां साधनं प्रिये ।
हेमतारवशाद्बीजं द्विविधं तावदीश्वरि ॥१६॥
पीतारुणैर्हेमबीजं तारबीजं सितैर्भवेत् ।
कल्पितं रञ्जितं पक्वं इति भूयस्त्रिधा भवेत् ॥१७॥
कल्पितं द्विविधं तच्च शुद्धमिश्रविभेदतः ॥१८॥
रसोपरसलोहानां बीजानां कल्पनं पृथक् ।
शुद्धं मिश्रं तु संयोगात्यथालाभं सुरेश्वरि ॥१९॥
सत्त्वमावर्तितं व्योम्नि शोधितं काचटङ्कणैः ।
चिञ्चाफलाम्लनिर्गुण्डी पत्त्रकल्कनिषेचनैः ।
पक्वं निविडितं देवि रसपिष्टिक्षमं भवेत् ॥२०॥
स्नेहक्षाराम्लवर्गैश्च शिलायाश्च पुटत्रयात् ।
मृताहे धूपनायन्त्रे धूपगन्धानुलेपनात् ।
वङ्गस्यापि विधानेन तालकस्य हतस्य वा ॥२१॥
ताप्यहिङ्गुलयोर्वापि हते च रसकस्य वा ।
रसगर्भे द्रवेत्कृष्णं पत्त्रं कनकतारयोः ॥२२॥
संकराख्यं तु दुर्मेल्यं प्रिये मृदुखराह्वयम् ।
ततः संमृदितं देवि द्वंद्वमेलापनं द्रुतम् ।
भवेत्समरसं गर्भे रसराजस्य च द्रवेत् ॥२३॥
अतः परं प्रवक्ष्यामि द्वंद्वमेलापनं शृणु ॥२४॥
वर्षाभूकदलीकन्द काकमाचीपुनर्नवाः ।
चूर्णं नरकपालं च गुञ्जाटङ्कणसंयुतम् ।
क्षीरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥२५॥
अनेनैव विधानेन ताराभ्रमपि मेलयेत् ॥२६॥
वङ्गमावर्त्य देवेशि पुनः सूतकयोजितम् ।
कदलीकन्दतोयेन मर्दयेट्टङ्कणान्वितम् ।
अन्धमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥२७॥
चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम् ।
गुञ्जाटङ्कणसंयुक्तं वङ्गाभ्रं मिलति क्षणात् ॥२८॥
अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम् ।
कपित्थतोयसंस्पृष्टं रसटङ्कणसंयुतम् ।
वङ्गपत्त्रान्तरन्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ॥२९॥
आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत् ।
वङ्गाभ्रं हरितालं च नागाभ्रे तु मनःशिलाः ॥३०॥
हेमाभ्रं नागताप्येन ताराभ्रं वङ्गतालकात् ।
गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् ।
वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ॥३१॥
लाङ्गली चामरीकेशं कार्पासास्थिकुलत्थकम् ।
भूलता चाश्मदलनी स्त्रीस्तन्यं सुरगोपकः ॥३२॥
एतत्प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना ।
कान्ताभ्रशैलविमला मिलन्ति सकलान्क्षणात् ॥३३॥
लताछुछुन्दरीमांसं विषटङ्कणयोजितम् ।
मूषालेपेन कुरुते सर्वद्वंद्वेषु मेलनम् ॥३४॥
अभ्रकं सुरसा शृङ्गं मण्डूकस्य वसा विषम् ।
गुञ्जाटङ्कणयोगेन सर्वसत्त्वेषु मेलनम् ॥३५॥
टङ्कणोर्णागिरिजतु कर्णाख्यामलकर्कटैः ।
मिलन्ति सर्वद्वंद्वानि स्त्रीस्तन्यपरिपेषितैः ॥३६॥
धातकीगुग्गुलुगुड सर्जयावकटङ्कणैः ।
स्त्रीस्तन्यपेषितैः सर्वं द्वंद्वजं तु रसायने ॥३७॥
खसत्त्वं सूक्ष्मचूर्णं तु पूर्वकल्केन संयुतम् ।
अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ॥३८॥
वापितं ताप्यरसक सस्यकैर्दरदेन च ।
खसत्त्वं स्यान्निबद्धं च दृढं ध्मातं मिलेत्ततः ॥३९॥
रसोपरसलोहानि सर्वाण्येकत्र धामयेत् ।
अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ॥४०॥
बीजानि कल्पितान्येवं रञ्जितानि परं शृणु ॥४१॥
घनं माक्षिकचूर्णेन शुल्वचूर्णेन रञ्जितम् ।
द्वंद्वितं ताप्यसत्त्वेन रसराजस्य रञ्जनम् ॥४२॥
आरक्तवल्लीगोमूत्रः बहुधा परिभावितैः ।
कुनटीगन्धपाषाणैर्हेममाक्षिकहिङ्गुलैः ॥४३॥
वापितं सेवितं रक्त गणैः स्नेहैर्मृतं ततः ।
रञ्जनं रसराजस्य तीक्ष्णताम्रौ विशेषतः ॥४४॥
केवलं विमलं ताम्रं वापितं दरदेन च ।
कुरुते त्रिगुणं जीर्णं लाक्षाभं निर्मलं रसम् ॥४५॥
रसकं द्विगुणं दत्त्वा ताम्रं सुध्मातमीश्वरि ।
कृष्णाभ्रकस्य चूर्णं च रक्तवर्गैर्मुहुः पुटैः ॥४६॥
ताप्येन वा मृतं हेम त्रिगुणेन निवापितम् ।
भाण्डिकायां तु रसकं ताप्यसैन्धवसंयुतम् ॥४७॥
इन्द्रगोपनिभं यावत्सर्वं द्विगुणजारणात् ।
द्रुतं हेमनिभं सूतं कुरुते नात्र संशयः ॥४८॥
अभ्रकं हेम ताम्रं च शिलया माक्षिकेण च ।
गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥४९॥
बीजानि रञ्जितान्येवं पक्वबीजान्यतः शृणु ॥५०॥
महारसानुपरसान्तीक्ष्णलोहानि च क्षिपेत् ।
समांशं सममाक्षीकं गन्धकावापयोगतः ॥५१॥
शतशो वापयेदेततक्षीणं सावशेषितम् ।
समांशं रसराजस्य गर्भे द्रवति निश्चितम् ॥५२॥
तदेतद्विष्टिकास्तम्भे जारणायां सुरेश्वरि ।
रञ्जने रसराजस्य सारणायां च शस्यते ॥५३॥
तदेव शतशो रक्त गणैः स्नेहैर्निषेचितम् ।
अधिकं शस्यते तेषु सहस्रांशेन वेधकृत् ॥५४॥
निर्व्यूढं नागवङ्गाभ्यां क्रियायां हेमतारयोः ।
खसत्त्वं रविणा योज्यं द्वंद्वितं स्याद्रसायने ॥५५॥
सस्नेहक्षारपञ्चाम्लैः रसैस्तैस्तालकादिभिः ।
समद्वित्रिगुणान्ताम्रे वाहयेद्वङ्गपन्नगान् ॥५६॥
रक्तस्नेहनिषिक्तं तद्रसाकृष्टिरिति स्मृतम् ॥५७॥
माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् ।
वैक्रान्तकं कान्तमुख्यं सस्यकं विमलाञ्जनम् ।
रसकं वापितं शश्वच् चूर्णितं हेम्नि वाहयेत् ॥५८॥
लोहपर्पटिकाताप्य कङ्कुष्ठविमलाभ्रकैः ।
मृतशुल्वशिलासत्त्व स्नुह्यर्कक्षीरहिङ्गुलैः ।
नागो निर्जीवतां याति पुटयोगैः पुनः पुनः ॥५९॥
रसतालकशङ्खाभ्र चिञ्चाक्षारैस्तथा त्रपुः ।
मृतं नागं मृतं वङ्गं शुल्वं तीक्ष्णं च वा मृतम् ।
एकैकमुत्तमे हेम्नि वाहयेत्सुरवन्दिते ॥६०॥
निरुत्थे पन्नगे हेम्नि निर्व्यूढे शतशो गणे ।
गोरोचनानिभं धाम भास्करे तारसंनिभम् ॥६१॥
तीक्ष्णाभ्रकं रविसमं माक्षिकं द्विगुणं तथा ।
आवर्तितं चूर्णितं च मारितं सप्तभिः पुटैः ॥६२॥
व्यूढे शतगुणे हेम्नि तद्बीजं जारयेत्समम् ।
चन्द्रार्कपत्त्रलेपेन शतभागेन वेधयेत् ॥६३॥
ऊर्ध्वाधो माक्षिकं दत्त्वा शुल्वं हेमसमं भवेत् ।
एवं दशगुणं व्यूढं बीजं कारणसंनिभम् ॥६४॥
रसकाभ्रं कान्तताम्रे भागवृद्ध्या धमेत्ततः ।
माक्षिकेण हतं तच्च बीजे निर्वाहयेत्प्रिये ॥६५॥
द्वात्रिंशद्गुणितं हेम्नि नागं ताप्यं हतं वहेत् ।
त्रिंशद्गुणशिलावापं नागबीजमुदाहृतम् ॥६६॥
ताप्यतालकवापेन सत्त्वं पीताभ्रकस्य तु ।
बीजे निर्वाहयेदेतत्योषामृष्टस्य वेधकम् ॥६७॥
नागः करोति मृदुतां निर्व्यूढस्तां च रक्तताम् ।
वापितं पीततां तीक्ष्णं कान्तस्थां कालिकां विषम् ॥६८॥
हेमबीजमिति प्रोक्तं तारबीजमतः शृणु ॥६९॥
तीक्ष्णाभ्रताप्यविमल रसकं समभागिकम् ।
वङ्गभागास्तु चत्वारः सर्वं ध्मातं विचूर्णितम् ॥७०॥
पुटेन निहतं कार्यं व्यूढं तारं तु वेधयेत् ।
द्वात्रिंशत्सद्गुणं तारे वङ्गे ताप्यं हतं वहेत् ।
त्रिंशद्गुणात्तालवापात्वङ्गबीजमुदाहृतम् ॥७१॥
कुटिलं विमलं तीक्ष्णं खसत्त्वं चापि वाहयेत् ।
वङ्गाभ्रं ताप्यसत्त्वं वा तालमाक्षिकवापतः ।
शुक्लपुष्पगणैः सेकं स्नेहयुक्तैस्तु कारयेत् ॥७२॥
उक्तानि तारबीजानि बीजानां रञ्जनं शृणु ॥७३॥
तीक्ष्णमाक्षिकशुल्वं च नागं चपलमारितम् ।
सिन्दूरसंनिभं यावत्तेन बीजानि रञ्जयेत् ॥७४॥
निधाय खर्परे नागं ब्रह्मबीजदलैः सह ।
दग्धमग्निमधो दत्त्वा वह्निवर्णं यदा भवेत् ॥७५॥
वासकेन विभीतेन शाककिंशुकशिग्रुभिः ।
कोरण्डकस्य पुष्पेण बकुलस्यार्जुनस्य च ॥७६॥
अहिमारेण नागिन्या कुमार्या नागकन्यया ।
शिलया च त्रिगुणया क्वथितेनाजवारिणा ॥७७॥
भावितं खर्परस्थं च प्लावयित्वा पुनः पुनः ।
सप्तभिर्दिवसैरेव मारितं सुरवन्दिते ॥७८॥
पुटयेद्गन्धकेनादावाम्लैश्च तदनन्तरम् ।
इदं दलानां बीजानां रसराजस्य रञ्जने ।
उद्घाटे क्रामणे योज्यं पिष्टीस्तम्भे विशेषतः ॥७९॥
मञ्जिष्ठाकिंशुकरसे खदिरं रक्तचन्दनम् ।
करवीरं देवदारुं सरलं रजनीद्वयम् ॥८०॥
अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु ।
तैलं विपाचयेद्देवि तेन बीजानि रञ्जयेत् ॥८१॥
द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च ।
क्वाथे चतुर्गुणे क्षीरे तैलमेकं सुरेश्वरि ॥८२॥
ज्योतिष्मतीकरञ्जाख्य कटुतुम्बीसमुद्भवम् ।
पाटलीपिप्पलीकाम काकतुण्डीरसान्वितम् ॥८३॥
भेकशूकरमेषाहि मत्स्यकूर्मजलौकसाम् ।
वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥८४॥
भूलतामलमाक्षीक द्वंद्वमेलापनौषधैः ।
पाचितं गालितं चैतत्सारणा तैलमुच्यते ॥८५॥
रसतुल्यं यथा बीजं गतं गर्भद्रुतिं प्रिये ।
व्यापकत्वेन सर्वे च समभागास्तथेष्यते ॥८६॥
पक्वं श्रेष्ठं समं गर्भे यद्द्रवेद्रञ्जयेच्च तम् ॥८७॥
एवमुक्तानि बीजानि जारयेद्विडयोगतः ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥८८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP