रसार्णव - तृतीयः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


श्रीदेव्युवाच
भगवन्देवदेवेश लोकनाथ जगत्पते ।
मन्त्रन्यासं समाचक्ष्व रसकर्मोपकारकम् ॥१॥
श्रीभैरव उवाच
पुनरन्यं प्रवक्ष्यामि मन्त्रमूर्तिं रसाङ्कुशीम् ।
पञ्चमं तु गृहं देवि दुर्लभं देवदानवैः ॥२॥
चत्वारः प्रधानगृहाः हंसगृहं तु पञ्चमम् ।
यत्र सिद्धिर्मकारादिः तिष्ठते पञ्चमे गृहे ॥३॥
लिङ्गाश्रयं यथा रूपं लिङ्गिमाया तु लिङ्गिनी ।
गगनेन तु सा ज्ञेया भगरेखा तु पञ्चमे ॥४॥
प्रणवं पूर्वं उच्चार्य बीजं शब्दमनुत्तरम् ।
ह्रींकारं चैव क्रींकारं हंसबुद्धिमनन्तरम् ॥५॥
कालपाशं महामन्त्रं गृह्णीयात्साधकेश्वरः ।
महारम्भे तु तन्मन्त्रं प्रतीहारं रसाङ्कुशीम् ॥६॥
लक्षमेकं जपेत्तस्य महासिद्धिः प्रवर्तते ।
बालवत्सपुरीषं तु ततः केनैव ग्राहयेत् ॥७॥
चिताग्निभस्म तेनैव ग्राहयेत्परमेश्वरि ।
क्षेत्रं तदुत्तमं स्थानं रसेन्द्रस्तत्र तिष्ठति ॥८॥
मार्जन्या मार्जयेत्स्थानं कुब्जिकाख्या तु खेचरी ।
द्वात्रिंशदक्षरा देवि पञ्चनादेषु संस्थिता ॥९॥
ततः सिद्धाश्च चत्वारः पुरुषाष्टादश स्मृताः ।
अर्थपञ्चकसंयुक्ता ध्यानं स्यात्पञ्चकं पुनः ॥१०॥
योगिनीषट्कसंयुक्तं सप्तविंशत्क्रमान्वितम् ।
एकाशीतिपदैर्युक्तं पञ्चावरणसंयुतम् ॥११॥
अनेन क्रमयोगेन मार्जनीं परिपूजयेत् ।
अनेन मार्जयेत्क्षेत्रं रसेन्द्रो यत्र तिष्ठति ॥१२॥
उपलेपं तु तत्रैव चण्डघण्टां तु कारयेत् ।
पूर्वे गृहे तु सा देवी चण्डघण्टा व्यवस्थिता ॥१३॥
चण्डभैरविका देवी संस्थिता दक्षिणे गृहे ।
गोमयं तेन गृह्णीयाल्लेपनार्थं वरानने ॥१४॥
चण्डकापालिनी देवी संस्थिता चोत्तरे गृहे ।
गृहीत्वा चोदकं तेन लेपयेद्भूमिमण्डलम् ॥१५॥
सप्तदशाक्षरां कालीं खल्लपाषाणतो न्यसेत् ।
द्वात्रिंशदक्षरं घोरं मर्दके तु नियोजयेत् ॥१६॥
गृह्णीयात्काञ्जिकां देवि कालपाशेन मन्त्रितः ।
एवं सुकर्मसंयोगं कुरुते खेचरीकुलम् ॥१७॥
अष्टाशीतिसहस्राणि याः स्थिता दिव्यखेचरी ।
ताः सर्वाः किंकरास्तस्य औषधं पेषयन्ति ताः ॥१८॥
तासां सर्वं तु मन्त्रैकं चतुरक्षरसंयुतम् ।
सोऽहं हंसः ।
सा विद्या खेचरीणां तु नाम्नां तु कुलखेचरी ॥१९॥
राजिकां सैन्धवं न्यस्य सा विद्या कुलखेचरी ।
मन्त्रयेत्काञ्जिकां तत्र मन्त्रराजो रसाङ्कुशी ॥२०॥
अस्त्रविद्यां जपेत्तत्र या ज्ञाता पूर्वभार्गवे ।
गुडेष्टकां तु संमर्द्य प्रिये तन्मर्दितं रसम् ॥२१॥
का कथा मन्त्रराजस्य न वाक्यं त्रिशिरस्य च ।
षडङ्गं योजयेत्तां तु त्वरितं धारयेत्ततः ॥२२॥
डामराख्यं महामन्त्रं धमनीषु नियोजयेत् ।
चिन्तामणिमहाविद्यां कवचेषु नियोजयेत् ॥२३॥
चण्डिकाया महामन्त्रं तं तु पात्रे नियोजयेत् ।
नवविद्यां वरारोहे विन्यसेत्तुषगोमये ॥२४॥
त्रिपुराभैरवीं देवीं राजिकाकाञ्जिके न्यसेत् ।
गुडस्य कालरात्रिस्तु न्यस्तव्या वीरवन्दिते ॥२५॥
त्रिकूटाक्षं त्रिनेत्रं तु अनलस्य तु विन्यसेत् ।
उदके विन्यसेद्देवि चतुरशीतिचण्डिकाः ॥२६॥
क्षेत्रपालमघोरास्त्रं न्यस्तव्यं कोष्ठके प्रिये ।
महापाशुपतास्त्रं तु मूषायां च नियोजयेत् ॥२७॥
एतन्मन्त्रगणं देवि रसस्थाने नियोजयेत् ।
तदा तु सिध्यते तस्य साधकस्य फलं प्रिये ॥२८॥
रसाङ्कुशं महामन्त्रं जपेत्तु हृदयान्तरे ।
अन्ये ये योगिनीमन्त्राः सर्वान्नारीश्च जापयेत् ॥२९॥
अप्रकाशं तु तेनैव मन्त्रराजं रसाङ्कुशम् ।
अप्रकाशं च नारीणां रक्षयेत्प्रणवं तथा ।
महासमयविभ्रंशं नारीणां हृदयं यथा ॥३०॥
कुब्जिकाद्यास्तु ये मन्त्रा मया ते संप्रकाशिताः ।
त्रैलोक्यं क्षोभितास्ते तु न मन्यन्ते मम प्रिये ॥३१॥
रसाङ्कुशेन ज्ञानेन त्रैलोक्यं वश्यतां व्रजेत् ॥३२॥
मन्त्रन्यासमिति ज्ञात्वा यन्त्रमूषाग्निमानवित् ।
कुर्वाणो रसकर्माणि सिद्धिं प्राप्नोति साधकः ॥३३॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP