मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
मंगलाचरण

गणेश स्तोत्र - मंगलाचरण

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


सर्वमङ्गलमाङ्गल्यं सर्वकारणकारणम्‌ ।
गणेशोऽवतु सर्वात्मा सर्वसम्राट्‌ सुसिद्धिद: ॥१॥
य: सर्वादि: स्वतन्त्र: श्रुतिगदितमह: सर्वपूज्य: तथाऽऽदौ
पूज्यो नैवास्ति यस्य प्रकटितसुमहावाक्यदेह: परेश:
विश्वब्रह्मादिनाथ: शिवहरिभुवनार्काजताताधिदेव:
तं श्रीस्वानन्दनाथं मम हृदि सततं भावये श्रीमतिभ्याम्‌ ॥२॥
एको देव: इतिरित: श्रुतिपदै: य: कोटिकोटयण्डप:
स्वानन्देशसुत: गुणेश इति यं वेदा: ब्रुवन्तेऽनिशम्‌
ब्रह्माणं हरिमीश्वरं च भुवनं सूर्यं निजेच्छावशात्‌ ।
य: सृष्ट्‌वा कुरुते जगत्‌स्थितिमह: तं स्वामिनं मे भजे ॥३॥
कूटस्थं रविकेशवृन्दविनुतं गाणेशचूडामणिम्‌
हंसाख्यं गुरुनाथ नाथममलं सद्‌विग्रहं सुंदरम्‌
हस्तै: पुस्तकलेखनीसरसिजश्रीज्ञानमुद्रा: क्रमात्‌
बिभ्राणं प्रियया मुदोपनिषदाश्लिष्टं भजे मद्‌गुरुम्‌ ॥४॥
योगिनं धृतवपुं यतिवेषं । नैजदं स्वकरुणालवयोगात्‌
श्रीगणेश्वरमहं खलु नौमि । मुद्‌गलांशमथ पीठपमाद्यम्‌ ॥५॥
अस्मद्‌गुरुं सत्करुणानिधानं । योगीन्द्रापादादथ लब्धबोधम्‌
वन्दे गुरूणां गुरुराजराजम्‌ । सद्रूपमेवांकुशधारिणं तम्‌ ॥६॥
श्रीमान्‌सिद्धिमतीश्वर: शिवहरिब्रह्मैकशक्तीश्वर:
भूस्वानन्दनिवासकौतुकयुतो भक्तेष्टदानक्षम:
भक्तानां वरद: सुसिद्धिमतियुक्‌ सर्वैर्गणै: संयुत:
देवो विघ्नविनाशदक्षविभव: कुर्यात्‌ च मे मङ्गलम्‌ ॥७॥
गाणेशा भृगुमुद्‌गलादि गुरव: विष्ण्वादयश्चेश्वरा:
सिद्धा नारदगृत्समादिमुनयो बल्लाळनाथादय:
भक्ता: ज्ञानसुखादिदाननिरता: सर्वे च गाणेश्वरा:
देवा मायुरवासिश्च सततं कुर्वन्तु मे मङ्गलम्‌ ॥८॥
॥ इति श्रीमद्‌हेरंबराजयोगीन्द्रानुशासनम्‌ ॥


References : N/A
Last Updated : April 04, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP