परिणामालंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न स्वातन्त्र्येण, स परिणाम: ॥

अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपका-दस्य भेद: ।

अयमुदह्लियत्ते-

‘ अपारे संसारे विषमविषयारव्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमते: । परिश्रान्तस्यायं तरणितनयातीरनिलय: समन्तात्संतापं हरिनवतमालस्तिरयतु ॥’

अत्र भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम्‍ । मार्ग-

श्रान्तजनसंतापहारकत्वाद्रमणीयशोभाधारत्वाच्च तमालो विषयितयोपात्त: । अयं समानाधिकरणो वाक्यग: ।

समासगो यथा-

‘ महर्षेर्व्यासपुत्रस्य श्रावं श्रावं वच:सुधाम्‍ । अभिमन्युसुतो राजा परां मुदमवाप्तवान्‍ ॥’

व्यधिकरणो यथा-

‘ अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन । एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात्‍ ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP