परिणामालंकारः - लक्षण ७
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
तिलकिने-’ इति प्रागुक्ताप्पयदीक्षितदत्तोदाहरणे, ‘ वचोभिरुपायनं चकार-’ इत्यलंकारसर्वस्वोदाहरणे च बोध्या । यदि पुनरारोप्यमाणे यथा-कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोग-स्तदा ‘ प्रवृत्तोऽस्या: सेक्तुं ह्लदि मनसिज: प्रेमलतिकाम् ’ इति तदुदाह्लत-रूपकस्य परिणामतापत्ति:, प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिक् ।
अथ परिणामध्वनिर्विचार्यते-
तत्र यत्तावदप्पयदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्-
“ तथाहि-
‘ नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्तम्य यशोयस्य विजृम्भते ॥’
==
अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्तमणरूप-कार्योपयोगिन: प्रतीते: परिणामो व्यज्यते इति, तदयुक्तम् । तत्र ह्यारोप्य-माणस्य नृपस्य नृपात्मनैवाक्तमणोपयोग: , न चन्द्रात्मना ” इति ॥ तदसत् । अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेरभिप्रेतम्, येन यश: कर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोग: स्यात् । अपि तु निर-तिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्त: प्रौढिवि-शेष: । आक्रमणं तु न्यग्भाव एव । एवं चैवंविधविजृम्भणे चन्द्रकर्मकमे-वाक्तमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्यड्रयतायामुदाहरणम् । यदपि तैरेव परोक्तिं दूषयित्वा स्वयं परिणामस्य व्यड्रयतायामुक्तम्-
“-‘ चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतल: शौरे: पादाब्जनखचन्द्रमा: ॥’
N/A
References : N/A
Last Updated : January 17, 2018
TOP