परिणामालंकारः - लक्षण ८
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र चिरतापार्तं प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व तन्निषेवणादयं तव ताप: शान्तिमे ष्यतीति परिणामो व्यज्यते ”
इति, तत्तु-च्छम् । ‘ आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणाम:’ इति स्वयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम् । अपि त विषयिगताया: प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयतादूप्यम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं तव ताप: शान्तिमेष्य-
तीति प्रकृतोपयोगिताया व्यड्रयत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयतादूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्वथैव न व्यड्रयत्वं वक्तुमुचितम् ।
इदं तूदाहरणं युक्तम्-
‘ इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना । ममायं विषमस्ताप: केन वा शमयिष्यते ।’
अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेत: । तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात् । न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुम शक्या, तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्य-यात् । यथा ‘ कमलं कनकलतायाम् ’ इत्यादौ कनकलताऽभिन्नायां वनितायां कमलभिन्नं सुखमिति । इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये न पुनर्विरह-तापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषया-भिन्नत्वं मृग्यम् । तच्च व्यड्रयतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्ति: । अयं त्वर्थशक्तिमूल: ।
शब्दशक्तिमूलपरिणामध्वनिर्यथा-
‘ पान्थ मन्दमते किं वा संतापमनुविन्दसि । पयोधरं समाशास्व येन शान्तिमवाप्नुया: ॥’
अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यक-स्मरतापवत्तावैशिष्टयबुद्धौ सत्यां सह्लदयस्य तादृशतापशामकरमणीस्तन-रूपविषयतादूप्यबुद्धिर्भवति । दोषाश्चात्रापि पूर्ववदुन्नेया: ।
इति रसगड्राधरे परिणामप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP