परिणामालंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि

लभ्यते । तच्चारोप्यमाणशुक्लपक्षरजन्या: म्बात्मना बाधितम्‍, योषारूपेण तु संगच्छत इति भवति परिणाम: । स च परस्परसापेक्षबहुसंघात्म-कतया सावयव: । तत्राद्यार्धगतौ द्वाववयवौ व्यधिकरणौ द्वितीयार्ध-गतश्चैक: समानाधिकरण: ।

यच्चाप्पयदीक्षिर्तैर्वैयधिकरण्येन परिणामे उदाह्लतम्‍-तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककंधराय गिरिजासड्रैकश्रृड्रआरिणे नागै: कडकणिने नगेन गृहिणे नाथाय सेय्म नति: ॥’

यथा वा-

‘ द्विर्भाव: पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प-श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्ति: । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व-
न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्र: ॥’ इति ।

अत्र चिन्त्यते-तारानायकशेखरायेति पद्ये गिरिजासड्रैकश्रृड्रारिणि भवे कविकर्तृका नति: प्रक्तान्ता । श्रृडआरिता च शेखरादीनि भूषणान्यपेक्षत इति नद्या आरोप्यमाणशेखररूपतयैवोपयोग: न स्वरू-पेण । एवं दृशोऽपि तिलकरूपयेति रूपकमेव शुद्धं भवितुमर्हति । ननु परिणामे विषयाभिन्नत्वेन विषय्यवतिष्ठत इत्युक्तम्‍, प्रकृते च विषय-

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP