परिणामालंकारः - लक्षण ६
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ बोध:-
हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव धी: । तथा श्रावं श्रावं वच:सुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वच:सुधामिति रूपके तु वचोनिष्ठाभेदप्रतियोगिनीं सुधामिति बुद्धि: । एवं च ‘ वदनेनेन्दुना तन्वी समरतापं विलुम्पति ’ इति व्यस्तपरिणामे ‘ वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ’ इति व्यस्तरूपके च बोधवैलक्षण्यम् ।
तथा-
‘ शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु । ह्लदये धारणाद्यस्य न पुन: खेदसंभव: ॥’
इति परिणामे, श्रृण्विति विहाय पिबेति कृते तत्रैव रूपके, ‘ विद्धा मर्मणि वाग्बाणैर्घूर्णन्ते साधव: खलै: । सद्भिर्वचोमृतै: सिक्ता: पुन: स्वस्था भवन्ति ते ॥’
इति रूपके च बोधव्यवस्थिति: । तथा ‘ अहीनचद्ना लसताननेन
ज्योत्स्नावती चापि शुचिस्मितेन ’ इति व्यधिकरणपरिणामेऽभेदस्य तृती-यार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति धी: । मीनवती नयनाभ्या-मित्यत्र पु सरसीतादात्म्यारोपो बाधकाभावात्तावत्सिद्ध: । तस्य च मीनयोर्नयनाभेदारोपेणासमर्थनान्नयनयोर्मीनाभेदारोपो मृग्य: । स च तृतीयाया: प्रकृत्यर्थाभेदार्थकतायां न संभवतीति यथाकथंचित्तस्या: प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम् । तेन नयननिष्ठाभेदप्रति-योगिमीनयुक्तेति धी: । एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्याभानान्न परिणाम:, अपि तु रूपकमेव । इयमेव सरणि: ‘ नद्या शेखरिणे दृशा
N/A
References : N/A
Last Updated : January 17, 2018
TOP