परिणामालंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


वाचकेभ्यो नद्यादिशब्देभ्य: परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्च तदन्वयित्वात्कथं नात्र परिणाम इति चेत्‍, न । विषयाभिन्नत्वेन विष-यिणो भाने‍ऽपि तेन रूपेण तस्यानुपयोगात्‍ । द्विर्भाव: पुष्पकेतोरिति पद्ये‍ऽपि कोविदानन्दजनन-जगदुत्कर्षौ कथ्येते राज्ञो नृसिंहस्य । तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणद्वितीयमन्मथादितादूप्येण यथा संभवति न तथा केवलस्वरूपेण । तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा । एवमपरो‍ऽयं कल्पतरु-श्चिन्तामणिर्द्वितीय: कर्ण इन्द्रश्व भूगतोऽयमन्यो दारिद्यमस्माकं परिहरि-ष्यति । हरि: खल्वयं संसार्म हरिष्यतीत्यभिमानाज्जायमानस्तेषामानन्दो-

‌ऽप्यारोप्यमाणै: कल्पवृक्षापिभिरेवेति न विषयात्मना विषयिण उपयोग:, अपि तु स्वात्मनैवेति कुत्रास्ति परिणाम: ? ।

अलंकारसर्वस्वकारस्तु-‘ आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम:, ’ इति सूत्रयित्वा ‘ आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावाप्तकृतोपर ञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाण-स्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति’ इति व्याख्यातवान्‍ । अत्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग आहोस्वित्प्रकृतविषयात्मतया उपयोगो‍ऽर्थ: ? न तावदाद्य: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP