परिणामालंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


केचित्तु “ क्कचित्केवलो विषय: स्वात्मना न प्रकृतोपयोगीत्ययमारो-प्यमाणाभिन्नतयावतिष्ठते, तत्रारोप्यमाणपरिणाम: । यथा-‘ वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ’ । अत्र वदनमिन्द्वभिन्नतयावतिष्ठते, केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगत्‍ । क्कचिच्चारोप्यमाण: स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयावतिष्ठते, तत्र विषयपरिणाम: । यथा-‘ वदनेनेन्दुना तन्वी स्मरताप्म विलुम्पति ’ । अत्रेन्दुर्वदनाभिन्न-तयावतिष्ठते, केवलस्येन्दो: स्मरतापापनोदकत्वायोगात्‍ । एवं च परिणाणद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदक-विष-यितावच्छेदकान्यतरपुरस्कारेण निश्वीयमानविषयिविषयान्यतरत्वस्य

तल्लक्षणत्वात्‍ । अत एवोक्तम्‍-‘तदूपकमभेदो य उपमानोपमेययो:’ इति । तस्मान्न रूपकात्परिणामो‍ऽतिरिच्यते” इति वदन्ति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP