श्रीपादुकासहस्रम् - समर्पणपद्धतिः
श्रीमद्वेदान्तदेशिक विरचितम्
भजामः पादुके याभ्यां भरतस्याग्रजस्तदा ।
प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत् ॥१०१॥
राज्यं विहाय रघुवंशमहीपतीनां
पौरांश्च पादरसिकान् पृथिवीं च रक्ताम् ।
त्वामेव हन्त चरणावनि सम्प्रयास्यन्
आलम्बत प्रथममुत्तरकोसलेन्द्रः ॥१०२॥
प्राप्ते प्रयाणसमये मणिपादरक्षे
पौरानवेक्ष्य भवती करुणप्रलापान् ।
मञ्जुप्रणादमुखरा विनिवर्तनार्थं
रामं पदग्रहणपूर्वमयाचतेव ॥१०३॥
मत्वा तृणाय भरतो मणिपादरक्षे
रामेण तां विरहितां रघुराजधानीम् ।
त्वामेव सप्रणयमुज्जयिनीमवन्तीं
मेने महोदयमयीं मधुरामयोध्याम् ॥१०४॥
रामात्मनः प्रतिपदं मणिपादरक्षे
विश्वम्भरस्य वहनेन परीक्षितां त्वाम् ।
विश्वस्य देवि वहने विनिवेशयिष्यन्
विस्रब्ध एवं भरतो भवतीं ययाचे ॥१०५॥
भक्त्या परं भवतु तद्भरतस्य साधो -
स्त्वत्प्रार्थनं रघुपतौ मणिपादरक्षे ।
केनाशयेन स मुनिः परमार्थदर्शी
भद्राय देवि जगतां भवतीमवादीत् ॥१०६॥
रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते
राज्यापवादचकिते भरते तदानीम् ।
आश्वासयेत् क इव कोसलवासिनस्तान्
सीतेव चेत् त्वमपि साहसवृत्तिरासीः ॥१०७॥
पादावनि प्रभवतो जगतां त्रयाणां
रामादपि त्वमधिका नियतं प्रभावात् ।
नो चेत् कथन्नु भरतस्य तमेव लिप्सोः
प्रत्यायनं परिपणं भवती भवित्री ॥१०८॥
मन्ये नियुज्य भवतीं मणिपादरक्षे
पार्ष्णिग्रहस्य भरतस्य निवर्तनार्थम् ।
रत्नाकरं सपदि गोष्पदयन् विजिग्ये
रामः क्षणेन रजनीचरराजधानीम् ॥१०९॥
पादावनि प्रभुतरानपराधवर्गान्
सोढुं क्षमा त्वमसि मूर्तिमती क्षमैव ।
यत् त्वां विहाय निहताः परिपन्थिनस्ते
देवेन दाशरथिना दशकन्ठमुख्याः ॥११०॥
वाक्ये गरीयसि पितुर्विहितेऽप्यतृप्त्या
मातुर्मनोरथमशेषमवन्ध्ययिष्यन् ।
मन्ये तदा रघुपतिर्भरतस्य तेने
मातस्त्वयैव मणिमौलिनिवेशलक्ष्मीम् ॥१११॥
पादाम्बुजाद्विगलितां परमस्य पुंस -
स्त्वामादरेण विनिवेश्य जटाकलापे ।
अङ्गीचकार भरतो मणिपादरक्षे
गङ्गाधिरूढशिरसो गिरिशस्य कान्तिम् ॥११२॥
अविकलमधिकर्तुं रक्षणे सप्तलोक्या
रघुपतिचरणेन न्यस्तदिव्यानुभावाम् ।
अभजत भरतस्त्वामञ्जसा पादरक्षे
मणिमकुटनिवेशत्यागधन्येन मूर्ध्ना ॥११३॥
इयमविकलयोगक्षेमसिद्ध्यै प्रजाना -
मलमिति भरतेन प्रार्थितामादरेण ।
रघुपतिरधिरोहन्नभ्यशिञ्चत् स्वयं त्वां
चरणनखमणीनां चन्द्रिकानिर्झरेण ॥११४॥
प्रणयिनि पदपद्मे गाधमाश्लिष्यति त्वां
विधिसुतकथितं तद् वैभवं ते विदन्तः ।
अनुदिनमृषयस्त्वामर्चयन्त्यग्न्यगारे
रघुपतिपदरक्षे रामगिर्याश्रमस्थाः ॥११५॥
नियतमधिरुरोह त्वामनाधेयशक्तिं
निजचरणसरोजे शक्तिमाधातुकामः ।
स कथमितरथा त्वां न्यस्य रामो विजह्रे
दृषदुपचितभूमौ दण्डकारण्यभागे ॥११६॥
रघुपतिपदपद्माद्रन्तपीठे निवेष्टुं
भरतशिरसि लग्नां प्रेक्ष्य पादावनि त्वाम् ।
परिनतपुरुषार्थ पौरवर्गः स्वयं ते
विधिमभजत सर्वो वन्दिवैतालिकानाम् ॥११७॥
अनन्यराजन्यनिदेशनिष्ठां
चकार पृथ्वीं चतुरर्णवान्ताम् ।
भ्रातुर्यियासोर्भरतस्तदा त्वां
मूर्ध्ना वहन् मूर्तिमतीमिवाज्ञाम् ॥११८॥
यद्भ्रात्रे भरताय रङ्गपतिना रामत्वमातस्थुषा
नित्योपास्यनिजाङ्घ्रिनिष्क्रयतया निश्चित्य विश्राणितम् ।
योगक्षेमवहं समस्तजगतां यद्गीयते योगिभिः
पादत्राणमिदं मितम्पचकथामह्नाय मे निह्नुताम् ॥११९॥
भरतस्येव ममापि प्रशमितविश्वापवाददुर्जाता ।
शेषेव शिरसि नित्यं विहरतु रघुवीरपादुके भवती ॥१२०॥
इति कवितार्त्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ समर्पणपद्धतिश्चतुर्थी ॥
N/A
References : N/A
Last Updated : August 30, 2017
TOP