श्रीपादुकासहस्रम् - बिम्बप्रतिबिम्बपद्धतिः
श्रीमद्वेदान्तदेशिक विरचितम्
शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् ।
प्रसत्तेरिव संस्थानं पदत्रानमुपास्महे ॥७११॥
कमलापतिपादुके कदाचि -
द्विहगेन्द्रस्त्वै बिम्बितो बिभाति ।
सविलासगतेऽपि रङ्गभर्तु -
र्निजमात्मानमिवोपधातुकामः ॥७१२॥
मणिपंक्तुषु ते दिशामधीशाः
प्रतिबिम्बानि निजानि वीक्षमाणाः ।
अभियन्ति मुकुन्दपादुके त्वा -
मधिकारान्तरसृष्टिशङ्क्येव ॥७१३॥
मणिमौलिशतेन बिम्बितेन
प्रणतानां परितः सुरासुराणाम् ।
मुरभिन्मणिपादुके महिम्ना
युगपत् तेषु समर्पितेव भासि ॥७१४॥
उपनीतमुपायनं सुरेन्द्रैः
प्रतिबिम्बच्छलतस्त्वयि प्रविष्टम् ।
स्वयमेव किल प्रसादभूम्ना
प्रतिगृह्णासि मुकुन्दपादुके त्वम् ॥७१५॥
रङ्गेश्वरस्य नवपल्लवलोभनीयौ
पादौ कथन्नु कठिना स्वयमुद्वहेयम् ।
इत्याकलय्य नियतं मणिपादुके त्वं
पद्मास्तरं वहसि तत्प्रतिबिम्बलक्षात् ॥७१६॥
पादार्पणात् प्रथमतो हरिदश्मरम्ये
मध्ये तव प्रतिफलन्मणिपादरक्षे ।
मन्ये निदर्शयति रङ्गपतिर्युगान्ते
न्यग्रोधपत्रशयितं निजमेव रूपम् ॥७१७॥
यात्रावसानमधिगच्छति रङ्गनाथे
विश्राणयस्यनुपदं मणिपादुके त्वम् ।
प्रायः प्रयाणसमये प्रतिबिम्बितानां
तीर्थावगाहमपरं त्रिदशेश्वराणाम् ॥७१८॥
उच्चावचेषु तव रत्नगणेषु मात -
र्वेधाः पयाणसमये प्रतिबिम्बिताङ्गः ।
आशङ्कते मुरभिदो मणिपादुके त्वा -
मागामिकल्पकमलासनपङ्क्तिगर्भाम् ॥७१९॥
आलोकरश्मिनियतां मणिपादुके त्वा -
मारुह्य सञ्चरति रङ्गपतौ सलीलम् ।
अन्तःपुरेषु युगपत्सुदृशो भजन्ते
डोलाधिरोहणरसं त्वयि बिम्बिताङ्ग्यः ॥७२०॥
कालेषु राघवपदावनि भक्तिनम्रः
कार्याणि देवि भरतो विनिवेदयंस्ते ।
त्वद्रत्नबिम्बततयाऽपि मुहुः स्वकीयां
राजासनस्थितिमवेक्ष्य भृशं ललज्जे ॥७२१॥
प्रत्यागते निजयिनि प्रथमे रघूणां
विन्यस्यति त्वयि पदं मणिपादरक्षे ।
रत्नौघबिम्बितनिशाचरवानरां त्वां
पूर्वक्षणस्थमिव पुष्पकमन्वपश्यन् ॥७२२॥
वैयाकुलीं शमयितुं जगतो वहन्त्या
रक्षाधुरां रघुध्रुरन्धरपादरक्षे ।
प्राज्यं यशः प्रचुरचामरबिम्बलक्षात्
प्रायस्त्वया कबलितं प्रतिभूपतीनाम् ॥७२३॥
प्रतिदिशमुपयाते देवि यात्रोत्सवार्थं
त्वयि विहरणकाले बिम्बिले जीवलोके ।
वहसि मणिगणैस्त्वं पादुके रङ्गभर्तुः
कबलितसकलार्थां काञ्चिदन्यामवस्थाम् ॥७२४॥
भगवति गरुडस्थे वाहनस्थाः सुरेन्द्रा -
स्त्वयि विनिहितपादे भूमिमेवाश्रयन्ति ।
तदपि चरणरक्षे रत्नजाले त्वदीये
प्रतिफलितनिजाङ्गास्तुल्यवाहा भवन्ति ॥७२५॥
स्वच्छाकारां सुरयुवतयः स्वप्रतिच्छन्दलक्षाद्
गाहन्ते त्वां प्रणतिसमये पादुके साभिमानाः ।
स्त्रीरत्नानां परिभवविघौ सृष्टिमात्रेण दक्षां
नीचैःकर्तुं नरसखमुनेरुर्वशीमूरुजाताम् ॥७२६॥
स्वेच्छाकेलिप्रियसहचरीं स्वच्छरत्नाभिरामां
स्थाने स्थाने निहितचरणो निर्विशन् रङ्गनाथः ।
सञ्चारान्ते सह कमलया शेषशय्याधिरूढ -
स्त्यक्त्वाऽपि त्वां त्यजति न पुनः स्वप्रतिच्छन्दलक्षात् ॥७२७॥
त्वामेवैकामधिगतवतः केलिसञ्चारकाले
पार्श्वे स्थित्वा विनिहितदृशोः पादुकेऽनन्यलक्ष्यम् ।
त्वद्रत्नेषु प्रतिकलितयोर्नित्यलक्ष्यप्रसादा
पद्माभूम्योर्दिशति भवती पादसेवां मुरारेः ॥७२८॥
एकामेकः किल निरविशत्पादुके द्वारकायां
क्रीडायोगी मृतबहुतनुः षोडशस्त्रीसहस्रे ।
शुद्धे देवि त्वदुपनिहिते बिम्बितोरत्नजाले
भुङ्क्ते नित्यं स खलु भवतीं भूमिकानां सहस्रैः ॥७२९॥
हरिपदनखेषु भवती प्रतिफलति तवैतदपि रत्नेषु ।
उचिता मिथः पदावनि बिम्बप्रतिबिम्बता युवयोः ॥७३०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ बिम्बप्रतिबिम्बपद्धतिरेकविंशी ॥
N/A
References : N/A
Last Updated : September 03, 2017
TOP