श्रीपादुकासहस्रम् - मरतकपद्धतिः
श्रीमद्वेदान्तदेशिक विरचितम्
वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् ।
यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥६६१॥
सविलासगतेषु रङ्गभर्तु -
स्त्वदधीनेषु बहिष्कृतो गरुत्मान् ।
अधिगच्छति निर्वृतिं कथञ्चि -
न्निजरत्नैस्त्वयि पादुके निविष्टैः ॥६६२॥
समये मणिपादुके मुरारे -
र्मुहुरन्तःपुरमुग्धचेटिकास्ते ।
हरितान् हरिदश्मनां मयूखां -
स्तुलसीपल्लवशङ्क्या क्षिपन्ति ॥६६३॥
हरितः सहसा हरिन्मणीनां
प्रभया रङ्गनरेन्द्रपादरक्षे ।
तुलसीदलसम्पदं दधाति
त्वयि भक्तैर्निहितः प्रसूनराशिः ॥६६४॥
प्रसादयन्ती मणिपादुके त्वं
विक्शेपयोगेन विहारवेलाम् ।
हरिन्मनोज्ञा हरिकान्तिसिन्धोः
सन्दृश्यसे शैवलमञ्जरीव ॥६६५॥
बन्धासि रङ्गेश्वरपादरक्षे
हरिन्मणीनां प्रभया स्फुरन्त्या ।
चूडापदेषु श्रुतिसुन्दरीणां
मङ्गल्यदूर्वाङ्कुरमाल्यपङ्क्तिम् ॥६६६॥
अच्छेद्यरश्मिनियतैर्घटिता हरिद्भिः
सद्वर्त्मना गतिमती मणिपादरक्षे ।
सन्दृश्यसे सवितृमण्डलमध्यभाजो
रङ्गेश्वरस्य रथसम्पदिवापरा त्वम् ॥६६७॥
श्यामायमाननिगमान्तवनोपकण्ठाः
स्थाने पदावनि हरिन्मणयस्त्वदीयाः ।
पर्यन्तशाद्वलवतीं प्रथयन्ति नित्यं
नारायणस्य रुचिरां नखरश्मिगङ्गाम् ॥६६८॥
उद्दिश्य कामपि गतिं मणिपादरक्षे
रङ्गेश्वरस्य चरणे विनिवेशितात्मा ।
प्रायो हरिन्मणिरुचा दृढभक्तिबन्धा
प्रादुष्करोति भवती तुलसीवनानि ॥६६९॥
सेवार्थमागतवतां त्रिदशेश्वराणां
चोऒडामणिप्रकरशालिषु मौलिषु त्वम् ।
संवर्तयस्यसुरमर्दनपादरक्षे
स्वेनाश्मगर्भमहसा शुकपङ्क्तिशोभाम् ॥६७०॥
दरपरिणतदूर्वावल्लरीनिर्विशेषै -
र्मरकतशकलानां मांसलैरंशुजालैः ।
पशुपतिविधृता त्वं तस्य पाणौ निषण्णं
मधुरिपुपदरक्षे वञ्चयस्येणशाबम् ॥६७१॥
हरिचरणसरोजन्यासयोग्यं भवत्याः
प्रगुणमभिलषन्त्यो वर्णलाभं तुलस्यः ।
प्रतिदिनमुपहारैः पादुके तावकानां
मरतकशकलानामाश्रयन्ते मयूखान् ॥६७२॥
हरितमणिमयूखैरञ्चिताध्यात्मगन्धै -
र्दिशसि चरणरक्षे जातकौतूहला त्वम् ।
दनुजमथनलीलादारिकाणामुदारां
दमनकदलपङ्क्तिं देवि मौलौ श्रुतीनाम् ॥६७३॥
अधिगतबहुशाखैरश्मगर्भप्रसूतै -
र्मधुरिपुपदरक्षे मेचकैरंशुजालैः ।
अनितरशरणानां नूनमारण्यकानां
किमपि जनयसि त्वं कीचकारण्यदुर्गम् ॥६७४॥
प्रचुरनिगमशाखां पादुके रङ्गिणस्त्वां
चरणनखमयूखैश्चारुपुष्पानुबन्धाम् ।
मरतकदलरम्यां मन्महे सञ्जरन्तीं
कनकसरिदनूपे काञ्चिदुद्यानलक्ष्मीम् ॥६७५॥
अखकिरणनिकायैर्नित्यमाविर्मृणाले
महितरसविशेषे मेचकैरंशुभिस्ते ।
परिकलयसि रम्यां पादुके रङ्गभर्तुः
पदकमलसमीपे पद्मिनीपत्रपङ्क्तिम् ॥६७६॥
अनिमिषयुवतीनामार्तनादोपशान्त्यै
त्वय विनिहितपादे लीलया रङ्गनाथे ।
दधति चरणरक्षे दैत्यसौधानि नूनं
मस्तकरुचिभिस्ते मङ्क्षु दूर्वाङ्कुराणि ॥६७७॥
विपुलतममहोभिर्वीतदोषानुषङ्गं
विलसदुपरिनैल्यं देवि विष्णोः पदं तत् ।
पृथुमरतकदृश्यां प्राप्य पादावनि त्वां
प्रकटयति समन्तात् सम्प्रयोगं हरिद्भिः ॥६७८॥
पद्माभूम्योः प्रणयसरणिर्यत्र पर्यायहीना
यत्संसर्गदनघचरिताः पादुके कामचाराः ।
तारासङ्गं तमिह तरुणं प्रीणयन्ते जरत्यो
नित्यं श्यामास्तव मरतकैर्नूनमाम्नायवाचः ॥६७९॥
स्थलकमलीनीव काचिच्चरणावनि भासि कमलवासिन्याः ।
यन्मरतकदलमध्ये यः कश्चिदसौ समीक्ष्यते शौरिः ॥६८०॥
इति कविताकिंकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ मरतकपद्धतिरेकोनविंशी ॥
N/A
References : N/A
Last Updated : September 03, 2017
TOP