संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
फलपद्धतिः

श्रीपादुकासहस्रम् - फलपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


उपाख्यातां तथात्वेन वसिष्ठाद्यैर्महर्षिभिः ।
उपायफलयोः काष्ठामुपासे रामपादुकाम् ॥९७१॥
निविशेय निरन्तरं प्रतीतस्त्रिदशानां विभवं तृणाय मत्वा ।
सविधे तव देवि रङ्गभर्तुः पदलीलाकमलं समुद्वहन्त्याः ॥९७२॥
किमहं मणिपादुके त्वया मे सुलभे रङ्गनिधौ श्रिया सनाथे ।
करणानि पुनः कदर्थयेयं कृपणद्वारदुरासिकादिदुःखैः ॥९७३॥
सकृदप्यनुभूय रङ्गभर्तुस्त्वदुपश्लेषमनोहरं पदाब्जम् ।
अपुनर्भवकौतुकं तदैव प्रशमं गच्छति पादुके मुनीनाम् ॥९७४॥
अपरस्परपातिनाममीषा -
मनिदम्पूर्वनिरूढसन्ततीनाम् ।
भरतव्यसनादनूनसीम्नां
दुरितानां मम निष्कृतिस्त्वमासीः ॥९७५॥
त्वदुपासनसम्प्रदायविद्भिः
समये सात्त्वतसेविते नियुक्ताः ।
भरतव्रतिनो भवान्बुराशिं
कतिचित् काञ्चनपादुके तरन्ति ॥९७६॥
अलमच्युतपादुके यथावत्
भवती यच्च पदं त्वदेकधार्यम् ।
इतरेतरभूषितं तदेतत्
द्वितयं संवननाय चेतसो नः ॥९७७॥
अनन्यसामान्यतया मुरारे -
रङ्गेष्ववाप्तेषु किरीटमुख्यैः ।
पादावनि त्वं निजमेव भागं
सर्वात्मसाधारणतामनैषीः ॥९७८॥
समाश्रितानां मणिपादुके त्वां
विपश्चितां विष्णुपदेऽप्यनास्था ।
कथं पुनस्ते कृतिनो भजेरन्
वासादरं वासवराजधान्याम् ॥९७९॥
विमृश्य रङ्गेश्वरपादरक्षे
वारक्रमं नूनमवारणीयम् ।
पद्माग्रहेऽपि स्पृशती प्रतीता
स्थूलेन रूपेण वसुन्धरा त्वाम् ॥९८०॥
अभिरक्षसि त्वमनपायनिधिं
मणिपादुके मधुभिदश्चरणम् ।
अत एव देवि तदनन्यधनाः
शिरसा वहन्ति भवतीं कृतिनः ॥९८१॥
पदयुगमिव पादुके मुरारे -
र्भवति विभूतिरकण्टका त्वयैव ।
कथमिव हृदयानि भावुकानां
त्वदनुभवादुपजातकण्टकानि ॥९८२॥
ज्ञानक्रियाभजनसीमविदूरवृत्ते -
र्वैदेशिकस्य तदवाप्तिकृतां गुणानाम् ।
मौलौ ममासि मधुसूदनपादुके त्वं
गङ्गेव हन्त पतिता विधिनैव पङ्गोः ॥९८३॥
रङ्गेश्वरस्य यदियं मणिपादरक्षे
पादारविन्दयुगलं भवतीसमेतम् ।
पुंसामुपोषितविलोचनपारणार्हं
क्षीरं तदेतदिह शर्करया समेतम् ॥९८४॥
कामादिदोषरहितं त्वदनन्यकामाः
कर्म त्रयोदशविधं परिशीलयन्तः ।
पादावनि त्वदनुषङ्गविशेषदृश्यः -
मेकान्तिनः परिचरन्ति पदं मुरारेः ॥९८५॥
मौलौ स्थिता मखभुजामथवा श्रुतीनां
तद्रङ्गराजचरणावनि वैभवं ते ।
अस्मादृशामपि यदि प्रथितं ततःस्यात्
सौलभ्यमम्ब तदिदं तव सार्वभौमम् ॥९८६॥
स्वप्नेऽपि चेत् त्वमसि मूर्धनि सन्निविष्टा
नम्रस्य मे नरकमर्दनपादरक्षे ।
स्थाने तदेतदिह देवि यतः समाधौ
सन्तो विदुस्तमपि तादृशबुद्धिगम्यम् ॥९८७॥
बद्धाञ्जलिः परिचरन्नियमेव रङ्गे
विश्राणिताच्युतनिधिं मणिपादुके त्वाम् ।
कस्यापि कूणितदृशो धनिनः पुरस्ता -
दुत्तानयेय न कदाऽपि करं विकोशम् ॥९८८॥
त्वय्यर्पितेन चरणेन सदध्वभाजः
पादावनि प्रथितसात्त्विकभावदृश्याः ।
रङ्गेशवद्विदधते मुहुरङ्गहारान्
रङ्गे महीयसि नटा इव भावुकास्ते ॥९८९॥
येन स्थिता शिरसि मे विधिनाऽधुना त्वं
तेनैव देवि नियतं मम साम्पराये ।
लक्ष्यीकरिष्यसि पदावनि रङ्गनाथं
लक्ष्मीपदाम्बुरुहयावकपङ्कलक्ष्यम् ॥९९०॥
हरिचरणसरोजे भक्तिभाजां जनाना -
मनुकरणविशेषैरात्मनैवोपहास्यम् ।
परिणमय दयार्द्रा पादुके तादृशं मां
भरतपरिषदन्तर्वर्तिभिः प्रेक्षणीयम् ॥९९१॥
दुरितमपनयन्ती दूरतः पादुके त्वं
दनुजमथनलीलां देवतामानयन्ती ।
अनितरशरणानामग्रिमस्यास्य जन्तो -
रवशकरणवृत्तेरग्रतः सन्निधेयाः ॥९९२॥
चरमनिगमगीते सप्ततन्तौ समाप्ते
निजसदनसमीपे प्रापयिष्यन् विहारम् ।
ज्वलनमिव भवत्योः सम्यगारोपयेन्मां
प्रथमवरणवश्यः पादुके रङ्गनाथः ॥९९३॥
पुनरुदरनिवासच्छेदनं सह्यसिन्धोः
पुलिनमधिवसेयं पुण्यमाब्रह्मलाभात् ।
परिणमति शरीरे पादुके यत्र पुंसां
त्वमसि निगमगीता शाश्वतं मौलिरत्नम् ॥९९४॥
बहुविधपुरुषार्थग्रामसीमान्तरेखां
हरिचरणसरोजन्यासधन्यामनन्यः ।
भरतसमयसिद्धां पादुके भावयंस्त्वां
शतमिह शरदस्ते श्रावयेयं समृद्धिम् ॥९९५॥
तिलकयसि शिरो मे शौरिपादवनि त्वं
भजसि मनसि नित्यं भूमिकां भावनाख्याम् ।
वचसि च विभवैः स्वैर्व्यक्तिमित्थं प्रयाता
तदिह परिणतं मे तादृशं भागधेयम् ॥९९६॥
अजनिषि चिरमादौ हन्त देहेन्द्रियादि -
स्तदनु तदधिकः सन्नीश्वरोऽहं वभूव ।
अथ भगवत एवाभूवमर्थादिदानीं
तव पुनरहमासं पादुके धन्यजन्मा ॥९९७॥
त्वय्यायत्तौ भगवति शिलाभस्मनोः प्राणदानां -
दास्त्रीबालं प्रथितविभवौ पादपद्मौ मुरारेः ।
तामेवाहं शिरसिनि हितामद्य पश्यामिं दैवा -
दात्माधारां जननि भवतीमात्मलाभप्रसूतिम् ॥९९८॥
कथङ्कारं लक्श्मीकरकमलयोग्यं निजपदं
निदध्याद्रङ्गेशः कुलिशकठिनेऽस्मिन्मनसि नः ।
न चेदेवं मध्ये विशति दयया देवि भवती
निजाकान्तिक्षुण्णस्मरशरशिखाकण्टकततिः ॥९९९॥
क्रीडालौल्यं किमपि समये पादुके वर्जयन्ती
निर्वेशं स्वं दिशसि भवतीनाथयोः श्रीधरण्योः ।
मामप्येवं जनय मधुज्प्तादयोरन्तरङ्गं
रङ्गं याऽसौ जनयसि गुनैर्भारतीनृत्तरङ्गम् ॥१०००॥
इति रङ्गधुरीणपादुके त्वं
स्तुतिलक्षेण सहस्रशो विमृष्टा ।
सफलं मम जन्म तावदेतत्
यदिहाशास्यमतःपरं किमेतत् ॥१००१॥
मातः स्वरूपमिव रङ्गपतेर्निविष्टं
वाचामसीमनि पदावनि वैभवं ते ।
मोहादमिष्टुतवतो मम मन्दबुद्धे -
र्बालस्य साहसमिदं दयया सहेथाः ॥१००२॥
ये नाम भक्तिनियताः कवयो मदन्ये
मातः स्तुवन्ति मधुसूदनपादुके त्वाम् ।
लप्स्ये गुणांशविनिवेशितमानसानां
तेषामहं सबहुमानविलोकितानि ॥१००३॥
सङ्घर्षय(व)न्ति हृदयान्यसतां गुणांशे
सन्तस्तु सन्तमपि न प्रथयन्ति दोषम् ।
तद्रङ्गनाथचरणावनि ते स्तुतीना -
मेका परं सहसतोरिह साक्षिणी त्वम् ॥१००४॥
इत्थं त्वमेव निजकेलिवशादकोर्षी -
रिक्ष्वाकुनाथपदपङ्कजयोरनन्या ।
स्वीयं पदावनि मया सुमहच्चरित्रं
सीतेव देवि सहजेन कवीश्वरेण ॥१००५॥
पृथुकवदनशङ्खस्पर्शनीत्या कदाचि -
च्छिरसि विनिंहितायाः स्वेन भूम्ना तवैव ।
स्तुतिरियमुपज्ञाता मन्मुखेनेत्यधीयुः
परिचरणपरास्ते पादुकेऽपास्तदोषाः ॥१००६॥
यदिस्फीता भक्तिः प्रणय(व)मुखवाणीपरिपणं
पदत्राणस्तोत्रं हृदि बिभृत रङ्गक्षितिभृतः ।
निरुन्मादो यद्वा निरबधिसुधानिर्झरमुचो
वचोभङ्गीरेता न कथमनुरुन्धे सहृदयः ॥१००७॥
जयति यतिराजसूक्ति -
र्जयति मुकुन्दस्य पादुकायुगली ।
तदुभयधनास्त्रिवेदी -
मवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥१००८॥

इति श्री कवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुका सहस्रे
॥ फलपद्धतिः द्वात्रिंशी ॥

॥ श्री पादुका सहस्रं च संपूर्णम् ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP