संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
अभिषेकपद्धतिः

श्रीपादुकासहस्रम् - अभिषेकपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्

पाहि नः पादुके यस्या विधास्यन्नभिषेचनम् ।
आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥१८१॥
राघवस्य चरणौ पदावनि प्रेक्षितुं त्वदभिषेकमीषतुः ।
आभिषेचनिकभाण्डसन्निधौ यत्प्रदक्षिणगतिः शनैर्ययौ ॥१८२॥
मूर्धाभिषिक्तैर्नियमेन वाह्यौ
विचिन्त्य नूनं रघुनाथपादौ ।
रत्नासनस्थां मणिपादुके त्वां
रामानुजन्मा भरतोऽभ्यषिञ्चत् ॥१८३॥
भ्रातुर्नियोगेऽप्यनिवर्तमानं राज्याभिषेकं च परित्यजन्तम् ।
रामानुजौ तौ ननु पारतन्त्र्यादुभावुभाभ्यां भवती जिगाय ॥१८४॥
निवेश्य रङ्गेश्वरपादरक्षे भद्रासने सादरमभ्यशिञ्चत् ।
वशी वसिष्ठो मनुवंशजानां महीक्षितां वंशपुरोहितस्त्वाम् ॥१८५॥
कृताभिषेका भवती यथावत् रङ्गेशपादाअनि रत्नपीठे ।
गङ्गानिपातस्नपितां सुमेरोरधित्यकाभूमिमधश्चकार ॥१८६॥
वसिष्ठमुख्यैर्विहितभिषेकां राज्यासने रामनिवेशयोग्ये ।
तुष्टाव रङ्गेश्वरपादरक्षे प्राचेतसस्त्वां प्रथमः कवीनाम् ॥१८७॥
रक्षोवधार्थं मणिपादरक्षे रामात्मनो रङ्गपतेः प्रवासे ।
रक्षोऽपकाराद्भवती वितेने राजन्वतीं कोसलराजधानीम् ॥१८८॥
प्राप्ताभिषेका मणिपादरक्षे प्रतापमुग्रं प्रतिपद्यमाना ।
शशास पृथ्वीं भवती यथावत्साकेतसिंहासनसार्वभौमी ॥१८९॥
दशाननादीन्मणिपादरक्षे जिगीषतो दाशरथेर्वियोगात् ।
जातोपतापा त्वयि संप्रयुक्तै स्तीर्थोदकैरुच्छ्वसिता धरित्री ॥१९०॥
अध्यासितं मनुमुखैःक्रमशोनरेन्द्रै -
रारोप्य देवि भवतीं तपनीयपीठम् ।
राज्याभिषेकमनघं मणिपादरक्षे
रामोचितं तव वशं भरतो वितेने ॥१९१॥
स्नेहेन देवि भवतीं विषयेऽभिषिञ्चन्
द्विस्सप्तसंख्यभुवनोदरदीपरेखाम् ।
जातं रघूद्वहदिवाकरविप्रयोगा -
दन्धं तमिस्रमहरद्भरतः प्रजानाम् ॥१९२॥
हस्तापचेयपुरुषार्थफलप्रसूते
र्मूलं पदावनि मुकुन्दमहीरुहस्त्वम् ।
छायाविशेषमदिशद्यदसौ प्रजाना -
मावर्जितैस्त्वयि शुभैरभिषेकतोयैः ॥१९३॥
अह्नाय रामविरहात्परिखिन्नवृत्ते -
राश्वासनाय भवती मणिपादरक्षे ।
तीर्थाभिषेकमपदिश्य वसुन्धराया -
श्चक्रे तदा समुचितं शिशिरोपचारम् ॥१९४॥
मालिन्यमाश्रितवती मणिपादरक्षे
पङ्केन केकयसुताकलहोत्थितेन ।
शुद्धिं परामभिजगाम वसुन्धरेयं
त्वत्तः क्षणान्निपतितैरभिषेकतोयैः ॥१९५॥
आवर्जितं मुनिगणेन जगद्विभूत्यै
तोयं पदावनि तदा त्वयि मन्त्रपूतम् ।
मूलावसेकसलिलं निगमद्रुमाणां
शापोदकं च समभूत्क्षणदाचाराणाम् ॥१९६॥
विप्रोषिते रघुपतौ भवती यथार्हं
मान्ये पदे स्थितिमती मनुवंशजानाम् ।
आत्मन्यथर्वनिपुणैः प्रहितैः प्रजाना -
मश्रूण्यपास्यदभिषेकजलप्रवाहैः ॥१९७॥
प्रायो विशोषितरसा पतिविप्रयोगात्
पर्याकुलीकृतसमुद्रपयोधरा गौः ।
अम्ब त्वदियमभिषेकजलं पिबन्ती
धेनुर्बभूव जगतां धनधान्यदोग्ध्री ॥१९८॥
वृत्ते यथावदभिषेकविधौ बभासे
पश्चात्तवाम्ब भरतेन धृतः किरीटः ।
आकस्मिकस्वकुलविप्लवशान्तिहर्षात्
प्राप्तस्त्विषामिव पतिर्मणिपादुके त्वाम् ॥१९९॥
मनुवंशपुरोहितेन मन्त्रै -
रभिमन्त्र्य त्वयि पादुके प्रयुक्तम् ।
अभिषेकजलं क्षणेन राज्ञां
शमयामास समुत्थितान् प्रतापान् ॥२००॥
पादपादुपहृता रघूद्वहा -
दालवालमिव पीठमाश्रिता ।
अभ्यषेचि भवती तपोधनैः
पारिजातलतिकेव पादुके ॥२०१॥
अलघुभिरभिषेकव्यापृतैरम्बुभिस्ते
दिनकरकुलदैन्यं पादुके क्षालयिष्यन् ।
स खलु कमलयोनेः सूनुराधत्त मन्त्रे -
श्वधिकनियमयोगां शक्तिमाधर्वणेषु ॥२०२॥
दिनकरकुलजानां देवि पृथ्वीपतीनां
निरुपधिमधिकारं प्राप्नुवत्यां भवत्याम् ।
अजनिषत समस्ताः पादुके तावकीन -
स्नपनसलिलयोगान्निम्नगास्तुङ्गभद्राः ॥२०३॥
तव विधिवदुपात्ते सार्वभौमाभिषेके
भरतसमयविद्भिः पादुके मन्त्रिमुख्यैः ।
त्वदवधि निजकर्मस्थायिनीनां प्रजानां
प्रथमयुगविशेषाः प्रादुरासन् विचित्राः ॥२०४॥
अवसितरिपुशब्दा नन्वभूस्त्वं तदावीं
रघुपतिपदरक्षे लब्धराज्याभिषेका ।
चलितभुजलतानां चामरग्राहिणीनां
मणिवलयनिनादैर्मेदुरान् मन्त्रघोषान् ॥२०५॥
समुचितमभिषेकं पादुके प्रप्नुवत्यां
त्वयि विनिपतितानां देवि तीर्थोदकानाम् ।
ध्वनिरनुगतमन्त्रः सीदतां कोसलानां
शमयितुमलमासीत् सङ्कुलानार्तनादान् ॥२०६॥
दिविशदनुविधेयं देवि राज्याभिषेकं
भरत इव यदि त्व पादुके नान्वमंथाः ।
कथमिव रघुवीरः कल्पयेदल्पयत्न -
स्त्रिचतुरशरपातैस्तादृशं देवकार्यम् ॥२०७॥
कतिचन पदपद्मस्पर्शसौख्य त्यजन्ती
व्रतमतुलमधास्त्वं वत्सरान् सावधाना ।
रघुपतिपदरक्षे राक्षसैस्त्रासितानां
रणरणकविमुक्तं येन राज्यं सुराणाम् ॥२०८॥
अथर्वोपज्ञं ते विधिवदभिषेकं विदधतां
वसिष्ठादीनामप्युपचितचमत्कारभरया ।
त्वदास्थान्या रङ्गक्षितिरमनपादावनि तदा
लघीयस्यो जाता रघुपरिषदाहोपुरुषिकाः ॥२०९॥
अभिशेचयतु स रामः
पदेन वा स्पृशतु पादुके भवतीम् ।
अविशेषितमहिमा त्वं
क्क वा विशेषः क्षमासमेतानाम् ॥२१०॥

इति कवितार्त्किकसिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कुतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ अभिषेकपद्धतिः सप्तमी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP