संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
मुक्तापद्धतिः

श्रीपादुकासहस्रम् - मुक्तापद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका ॥६११॥
तव रङ्गधुरीनपादरक्षे
विमला मौक्तिकपद्धतिर्विभाति ।
सुहृदि त्वयि साधितापवर्गैः
समये सङ्क्रमितेव साधुकृत्या ॥६१२॥
शरणागतसस्यमालिनीयं तव मुक्तामणिरश्मिनिर्झरौघैः ।
ननु रङ्गधुरीणपादरक्षे जगती नित्यमदेवमातृकाऽभूत् ॥६१३॥
अधिविष्णुपदं परिस्फुरन्ती
नवमुक्तामणिनिर्मलप्रकाशा ।
परिपुष्यसि मङ्गलानि पुंसां
प्रतिपच्चन्द्रकलेव पादुके त्वम् ॥६१४॥
निहिता नवमौक्तिकावलिस्त्वा -
मभितः काञ्चनपादुके मुरारेः ।
नखचन्द्रमसां पदाश्रितानां
प्रतिमाचन्द्रपरम्परेव भाति ॥६१५॥
समतामुपैति वपुषाऽपि सदा
भवदीयमौक्तिकमहश्छुरिता ।
हरिपादुके हरिपदोद्भवया
कनकापगा सुरपुरापगया ॥६१६॥
तव रङ्गचन्द्रतपनीयपादुके
विमला समुद्वहति मौक्तिकावलिः ।
चरणारविन्दनखचन्द्रमण्डल -
प्रणयोपयातनवतारकारुचिम् ॥६१७॥
चन्द्रचूडमकुटेन लालिता चारुमौक्तिकमयूखपाण्डरा ।
रङ्गनाथपदपद्मसङ्गिनी लक्ष्यसे सुरधुनीव पादुके ॥६१८॥
ये भजन्ति भवतीं तवैव ते
मौक्तिकद्युतिविकल्पगङ्गया ।
वर्धयन्ति मधुवैरिपादुके
मौलिचन्द्रशकलस्य चन्द्रिकाम् ॥६१९॥
मुक्तामयूखैर्नियतं त्वदीयै -
रापूरयिष्यन्नवतंसचन्द्रम् ।
बिभर्ति रङ्गेश्वरपादरक्षे
देवो महान् दर्शितसन्नतिस्त्वाम् ॥६२०॥
परिष्कृता मौक्तिकरश्मिजालैः
पदस्य गोप्त्री भवती मुरारेः ।
भवत्यनेकोर्मिसमाकुलानां
पुंसां तमस्सागरपोतपात्री ॥६२१॥
रङ्गेशपादप्रतिपन्नभोगां
रत्नानुविद्धैर्महितां शिरोभिः ।
मुक्तावदातां मणिपादुके त्वां
मूर्तिं भुजङ्गाधिपतेः प्रतीमः ॥६२२॥
मुकुन्दपादावनि मौक्तिकैस्ते
ज्योत्स्नामयं विश्वमिदं दिवाऽपि ।
वैमानिकानां न भजन्ति येन
व्याकोचतामञ्जलिपद्मकोशाः ॥६२३॥
समाश्रितानामनघां विशुद्धिं
त्रासव्यपायं च वितन्वती त्वम् ।
सायुज्यमापादयसि स्वकीयै -
र्मुक्ताफलैर्माधवपादुके नः ॥६२४॥
अवैमि पादावनि मौक्तिकानां
कीर्णामुदग्रैः किरणप्ररोहैः ।
यात्रोत्सवार्थं विहितां मुरारे -
रभङ्गुरामङ्क्रुरपालिकां त्वाम् ॥६२५॥
शिवत्वहेतुं सकलस्य जन्तोः
स्रोतोविशेषैः सुभगामसङ्ख्यैः ।
मुक्तामयूखैः सुरसिन्धुमन्यां
पुष्णासि रङ्गेश्वरपादुके त्वम् ॥६२६॥
रङ्गेशयानस्य पदावनि त्वां
लावण्यसिन्धोः सविधे निषण्णाम् ।
परिस्फुरन्मौक्तिकजालदृश्यां
प्रसूतिभिन्नां प्रतियन्ति शुक्तिम् ॥६२७॥
अवैमि रङ्गेश्वरपादरक्षे
मुक्ताफलानि त्वयि निस्तलानि ।
तेनैव कल्पान्तरतारकाणा -
मुप्तानि बीजानि जगद्विधात्रा ॥६२८॥
विक्रम्यमाणमभवत् क्शणमन्तरिक्षं
मायाविना भगवता मणिपादरक्षे ।
व्योमापगाविपुलबुद्बुददर्शनीयै -
र्मुक्ताफलैस्तव शुभैः पुनरुक्ततारम् ॥६२९॥
लक्ष्मीविहाररसिकेन पदावनि त्वं
रक्षाविधौ भगवता जगतो नियुक्ता ।
यत्त्वं तदर्हमिव दर्शयसि प्रभूतं
मुक्तामयूखनिकरेण विसृत्वरेण ॥६३०॥
पादार्पणेन भवतीं प्रतिपद्यमाने
श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः ।
अङ्गीकरोषि चरणावनि कान्तिमग्र्या -
मुद्भिद्यमानकुमुदेव कुमुद्वती त्वम् ॥६३१॥
त्रय्यन्तहर्म्यतलवर्णसुधायितेन
ज्योत्स्नाइकल्पितरुचा मणिपादुके त्वम् ।
मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां
वर्णेन ते शमयसीव सतामवर्णम् ॥६३२॥
वैकुण्ठपादनखवासनयेव नित्यं
पादावनि प्रसुवते तव मौक्तिकानि ।
अच्छिन्नतापशमनाय समाश्रिताना -
मालोकमण्डलमिषादमृतप्रवाहम् ॥६३३॥
रामानुवृत्तिजटिले भरतस्य मौलौ
रङ्गाधिराजपदपङ्कजरक्षिणि त्वम् ।
एकातपत्रितजगत्रितया द्वितीयं
मुक्तांशुभिः कृतवती नवमातपत्रम् ॥६३४॥
पादावनि स्फुटमयूखमधुप्रवाहा
मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते ।
रूढस्य रङ्गपतिपादसरोजमध्ये
रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः ॥६३५॥
आम्रेडितैः पदनखेन्दुरुचा मनोज्ञै -
र्मुक्तांशुभिर्मुरभिदो मणिपादुके त्वम् ।
स्वाभाबिकीं सकलजन्तुषु सार्वभौमीं
प्रायः प्रसत्तिममलां प्रकटिकरोषि ॥६३६॥
निस्सीमपङ्कमलिनं हृदयं मदीयं
नाथस्य रङ्गवसतेरधिरोढुमिच्छोः ।
मातस्तवैव सहसा मणिपादरक्षे
मुक्तांशवः स्फटिकसौधतुलां नयन्ति ॥६३७॥
श्यामा तनुर्भगवतः प्रतिपन्नतारा
त्वं चन्द्रिका विमलमौक्तिकदर्शनीया ।
स्थाने तदेतदुभयं मणिपादरक्षे
बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः ॥६३८॥
उद्गाढपङ्कशमनैर्मणिपादरक्षे
मुक्तांशुभिर्मुरभिदो नखरश्मिभिन्नैः ।
चूडापदेषु निहिता त्रिदशेश्वराणां
तार्थोदकैः स्नपयसीव पदार्थिनस्तान् ॥६३९॥
रङ्गेशपादनखचन्द्रसुधानुलेपं
सम्प्राप्य सिद्धगुलिका इव तावकीनाः ।
संसारसञ्वरजुषां मणिपादरक्षे
सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः ॥६४०॥
भावोत्तरैरधिगता भरतप्रधानैः
प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा ।
रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो
रङ्गस्थलीव ललिता मणिपादुके त्वम् ॥६४१॥
मन्ये मुकुन्दचरणावनि मौलिदेशे
विन्यस्य देवि भवतीं विनतस्य शम्भोः ।
आपादयन्त्यधिकृताः प्रतिपन्नतारं
चूडातुषारकिरणं तव मौक्तिकौघैः ॥६४२॥
पद्मापतेर्विहरतः प्रियमाचरन्ती
मुक्तामयूखनिवहैः पुरतो विकीर्णैः ।
कन्दानि काञनपदावनि पद्मिनीनां
मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु ॥६४३॥
आशास्य नूनमनघां मणिपादरक्षे
चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् ।
धात्रीं मुकुन्दपदयोरनपायिनीं त्वां
ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात् ॥६४४॥
ये नाम केऽपि भवतीं विनयावनम्रै -
रुत्तंसयन्ति कृतिनः क्शणमुत्तमाङ्गैः ।
इ(ऋ)च्छन्ति रङ्गनृपतेर्मणिपादरक्षे
त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम् ॥६४५॥
अनुदिनललितानामङ्गुलीपल्लवानां
जनितमुकुलशोभैर्देवि मुक्ताफलैस्त्वम् ।
प्रकटयसि जनानां पादुके रङ्गभर्तुः
पदसरसिजरेखापाञ्चजन्यप्रसूतिम् ॥६४६॥
बलिविमथनवेलाव्यापिनस्तस्य विष्णोः
पदसरसिजमाध्वी पावनी देवि नूनम् ।
जननसमयलग्नां जाह्ववी तावकानां
वहति चरणरक्षे वासनां मौक्तिकानाम् ॥६४७॥
मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः
शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् ।
प्रचुरकिरणपूराः पादुके संश्रितानां
कलिकलुषमशेषं क्षालयन्तीव मुक्ताः ॥६४८॥
मुकुलितपरितापां प्राणिनां मौक्तिकैः स्वै -
रमृतमिव दुहानामाद्रिये पादुके त्वाम् ॥६४९॥
सकृदपि विनतानां त्रासमुन्मूलयन्तीं
त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् ।
न जहति निजकान्तिं पादुके रङ्गभर्तु -
श्चरणनखमणीनां सन्निधौ मौक्तिकानि ॥६५०॥
भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः
पदकमलमिदं ते पादुके धारयन्त्याः ।
चिरविहरणखेदात् सम्भृतानां भजन्ति
श्रमजलकणिकानां सम्पदं मौक्तिकानि ॥६५१॥
प्रकटितयशसां ते पादुके रङ्गभर्तु -
र्द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् ।
करणविलयवेलाकातरस्यास्य जन्तोः
शमयति परितापं शाश्वती चन्द्रिकेयम् ॥६५२॥
दिव्यं धाम स्थिरमभियतां देवि मुक्तामणीनां
मध्ये कश्चिद्भवति मधुजित्पादुके तावकानाम् ।
न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्या -
मात्मज्योतिश्शमिततमसां योगिनामन्तरात्मा ॥६५३॥
शुद्धे नित्यं स्थिरपरिणतां देवि विष्णोः पदे त्वा -
मास्थानीं ताममितविभवां पादुके तर्कयामि ।
आलोकैः स्वैर्भुवनमखिलं दीपवद्व्याप्य कामं
मुक्ताः शुद्धिं यदुपसदनाद् बिभ्रति त्रासहीनाः ॥६५४॥
प्राप्ता शौरेश्चरणकमलं पादुके भक्तिभाजां
प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौलिभागम् ।
देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से
मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानांप्रभाभिः ॥६५५॥
तव हरिपादुके पृथुलमौक्तिकरत्नभुवः
प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः ।
पदमजरामरं विदधते कथमम्ब सतां
प्रणतसुरेन्द्रमौलिपलितङ्करणाः किरणाः ॥६५६॥
कपर्दे कस्यापि क्षितिधरपदत्रायिणि तथा
मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः ।
मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा
निरालम्बो लम्बोदरकलभशुण्डारचुलकः ॥६५७॥
मुकुन्दपदरक्षिणि प्रगुणदीप्तयस्तावकाः
क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः ।
मनागपि मनीषिणो यदनुषङ्गिनस्तत्क्षणा -
ज्जरामरणदन्तुरं जहति हन्त तापत्रयम् ॥६५८॥
देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते
गौरीपादसरोजयावकधनी मूले समालक्ष्यते ।
इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने
प्रायस्त्वं मणिपादुके प्रहसिता मुक्तामयूखच्छलात् ॥६५९॥
रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् ।
यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम् ॥६६०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ मुक्तापद्धतिरष्टादशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP