श्रीपादुकासहस्रम् - काञ्चनपद्धतिः
श्रीमद्वेदान्तदेशिक विरचितम्
कल्याणप्रकृतिं वन्दे
भजन्तीं काञ्चनश्रियम् ।
पदार्हां पादुकां शौरेः
पद एव निवेशिताम् ॥७३१॥
मधुजित्तनुकान्तितस्कराणां जलदानामभयंविधातुकामा ।
चपलेव तदङ्घ्रिमाश्रयन्ती भवती काञ्चनपादुके विभाति ॥७३२॥
निकषीकृतरम्यकृष्णरत्ना भवती काञ्चनसम्पदं व्यनक्ति ।
परिपुष्यति पादुके यदीक्षा सहसा नः समलोष्टकाञ्चनत्वम् ॥७३३॥
सुरभिर्निगमैः समग्रकामा कनकोत्कर्षवती पदावनि त्वम् ।
दिशसि प्रतिपन्नमाधवश्रीरनिशोन्निद्रमशोकवैभवं नः ॥७३४॥
सति वर्णगुणे सुवर्णजाते
र्जगति रव्यातमसौरभादवर्णम् ।
श्रुतिसौरभशालिना स्वहेम्ना
भवती शौरिपदावनि व्युदास्थत् ॥७३५॥
प्रतिपन्नमयूरकण्ठधाम्ना परिशुद्धेन पदावनि स्वकेन ।
कमलास्तनभूषणोचितं तद्भवती रत्नमलङ्करोति हेम्ना ॥७३६॥
कान्त्या परं पुरुषमाप्रणखात् सुवर्णं
कर्तुं क्षमा त्वमसि काञ्चनपादरक्षे ।
अन्यादृशीं दिशसि या विनतस्य दूरा -
दारग्वधस्तबकसम्पदमिन्दुमौलेः ॥७३७॥
चन्द्राकृतिः कथमकल्पयथास्तदानीं
वैमानिकप्रणयिनीवदनाम्बुजानाम् ।
विक्रान्तिकालविततेन निजेन धाम्ना
बालातपं बलिविमर्दनपादुके त्वम् ॥७३८॥
लेभे तदाप्रभृति नूनमियं भवत्याः
कान्त्या कवेरतनया कनकापगात्वम् ।
यावन्मुकुन्दपदहेमपदावनित्वं
पुण्यं विभूषितवती पुलिनं तदीयम् ॥७३९॥
चित्रं सरोजनिलयासहितस्य शौरे -
र्वासोचितानि चरणावनि संविधित्सोः ।
सद्यो विकासमुपयान्ति समाधिभाजां
चन्द्रातपेन तव मानसपङ्कजानि ॥७४०॥
त्वय्येव पादमधिरोप्य नवं प्रवाहं
नाथे पदावनि निशामयितुं प्रवृत्ते ।
आत्मीयकाञ्चनरुचा भवती विधत्ते
हेमारविन्दभरितामिव हेमसिन्धुम् ॥७४१॥
विहरति पुलिनेषु त्वत्सखे रङ्गनाथे
कनकसरिदियं ते पादुके हेमधाम्ना ।
वहति सलिलकेलीस्रस्तचोलावरोध -
स्तनकलशहरिद्रापङ्कपिङ्गामवस्थाम् ॥७४२॥
सुरभिनिगमगन्धा सौम्यपद्माकरस्था
कनककमलिनीव प्रेक्ष्यसे पादुके त्वम् ।
भ्रमर इव सदा त्वां प्राप्तनानाविहारः
शतमखमणिनीलः सेवते शार्ङ्गधन्वा ॥७४३॥
कनकरुचिरवर्णां पादुके सह्यसिन्धुः
श्रियमिव महनीयां सिन्धुराजस्य पत्नी ।
स्वयमिह सविधस्था सौम्यजामातृयुक्ता -
मुपचरति रसेन त्वामपत्याभिमानात् ॥७४४॥
अनुकलमुपजीव्या दृश्यसे निर्जराणां
त्रिपुरमथनमौलौ शेखरत्वं दधासि ।
प्रतिपदमधिगम्य प्राप्तश्रृङ्गाऽसि शौरे -
स्तदपि चरणरक्षे पूर्णचन्द्राकृतिस्त्वम् ॥७४५॥
कनकमपि तृणं ये मन्वते वीतरागा -
स्तृणपि कनकं ते जानते त्वत्प्रकाशैः ।
मधुरिपुपदरक्षे यत् त्वदर्थोपनीतान्
परिणमयसि हैमान् देवि दूर्वाङ्कुरादीन् ॥७४६॥
विशुद्धिमधिगच्छति ज्वलनसङ्गमात् काञ्चनं
विदन्ति च जगन्ति तन्न खलु तद्विपर्यस्यति ।
कथं कनकपादुके कमललोचने साक्षिणि
त्वयैव परिशुद्धता हुतभुजोऽपि जाघट्यते ॥७४७॥
तारासङ्गप्रथितविभवां चारुजाम्बूनदाभां
त्वामारूधस्त्रिदशमहितां पादुके रङ्गनाथः ।
सञ्चारिण्यां सुरशिखरिणस्तस्थुषा मेखलायां
धत्ते मत्तद्विरदपतिना साम्यकक्ष्यां समीक्ष्याम् ॥७४८॥
कनकरुचिरा काव्याख्याता शनैश्चरणोचिता
श्रितगुरुबुधा भास्वद्रूपा द्विजाधिपसेविता ।
विहितविभवा नित्यं विष्णोः पदे मणिपादुके
त्वमसि महति विश्वेषां नः शुभा ग्रहमण्डली ॥७४९॥
प्रज्वलितपञ्चहेतिर्हिरण्मयीं त्वां हिरण्यविलयार्हः ।
आवहतु जातवेदाः श्रियमिव नः पादुके नित्यम् ॥७५०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ काञ्चनपद्धतिर्द्वाविंशी ॥
N/A
References : N/A
Last Updated : September 03, 2017
TOP