॥ श्रीदेव्युवाच ॥
महादेव, जगद् - वन्द्य ! करुणा - सागर, प्रभो !
पूर्णाभिषेकं कौलानां, वद मे सुख - मोक्षदम् ॥१॥
॥ श्रीशिव उवाच ॥
श्रृणु देवी ! मम प्राण - वल्लभे ! परमादभुतम् ।
पूर्णाभिषेकं सर्वाशा - पूरकं शिवता - प्रदम् ॥२॥
आगत्य सदगुरुं सिद्धं, मन्त्र - तन्त्र - विशारदम् ।
कौलं सर्व - जन - श्रेष्ठमभिषेक - विधिं चरेत् ॥३॥
अति - गुप्तालये शुद्धे, रम्ये कौलिक - सम्मते ।
वेश्याङ्गनाः समानीय, तत्त्वानि च सु - यत्नतः ॥४॥
विशिष्टान् कौलिकान् भक्तया, तत्रैव सन्निवेशयेत ।
अर्चयेदभिषेकार्थं, गुरुं वस्त्रादि - भूषणैः ॥५॥
प्रणमेद् विधिवद् भक्तया, तोषयेत् स्तुति - वाक्यतः ।
प्रार्थयेच्छुद्ध - भावेन, कुल - धर्मं वदेति च ॥६॥
कृतार्थ कुरु मे नाथ ! श्रीगुरो, करुणा - निधे !
अभिषिक्तैः साधकैश्च, सेवार्थं शरणागतः ॥७॥
ततोऽभिषिक्त्वा तत्त्वानि, शोधयेच्छक्तिमान् मुदा ।
स्थापयित्वा पुरः कुम्भं, मन्त्रैर्मुद्राभिः प्रिये ! ॥८॥
वितानैर्धूप - दीपैश्च, कृत्वा चामोदितं स्थलम् ।
नाना - पुष्पैस्तथा गन्धैः, सर्वोपकरणैर्यजेत् ॥९॥
समाप्य महतीं पूजां, तत्त्वानि सन्निवेद्य च ।
आदौ स्त्रीभ्यः समर्प्यैव, प्रसादाल्पं भजेत् ततः ॥१०॥
शुभ - चक्रं विनिमयि, आगमोक्त - विधानतः ।
अभिषिक्त्वा साधकांश्च, पायेत् तु स्वयं पिबेत् ॥११॥
भुंजीरन् मत्स्य - मांसाद्यैश्चर्व्य - चोष्यादिभिश्च ।
तैः रमेरन् परमानन्दैर्वेश्यायां च यथासुखम् ॥१२॥
वदेयुः कर्म - कर्तुश्च, सिद्धिर्भवतु निश्चला ।
अभिषेचन - कर्माशु, निर्विघ्नं चेति निश्चितम् ॥१३॥
चक्रालयान्निः सरेन्न जन एकोऽपि शङ्करि ! ।
प्रातः कृत्यादि - कर्माणि, कुर्यात् तत्रैव साधकः ॥१४॥
दिनानि त्रीणि संव्याप्य, भक्तया तांस्तु समर्चयेत् ।
शिष्यश्चादौ दिवा - रात्रभिषिक्तो भवेत् ततः ॥१५॥
अनुष्ठान - विधिं वक्ष्ये, सादरं श्रृणु पार्वति ! ।
न प्रकाण्डं नहि क्षुद्रं, प्रमाणं घटमाहरेत् ॥१६॥
ताम्रेण निर्मितं वापि, स्वर्णेन निर्मितं च वा ।
प्रवालं हीरकं मुक्तां, स्वर्ण - रुप्ये तथैव च ॥१७॥
नानालङ्कार - वस्त्राणि, नाना - द्रव्याणि भूरिशः ।
कस्तूरी - कुंकुमादीनि, नाना - गन्धानि चाहरेत् ॥१८॥
नाना - पुष्पाणि माल्यानि, पञ्चतत्त्वानि यत्नतः ।
विहितान् धूप - दीपांश्च, घृतेन यत्नतः ॥१९॥
ततः शिष्यं समानीय, गुरुः शुद्धालये प्रिये ! ।
वेश्याभिः साधकैः सार्द्ध, पूजनं न समाचरेत् ॥२०॥
पटलोक्त - विधानेन, भक्तितः परिपूजयेत् ।
पूजां समाप्य देव्यास्तु, स्तवैस्तु प्रणमेन् मुदा ॥२१॥
ततो हि शिव - शक्तिभ्यो, गन्ध - माल्यानि दापयेत् ।
आसनं वस्त्र - भूषाश्च, प्रत्येकेन कुलेश्वरी ! ॥२२॥
ततः शङ्खादि - वाद्यैश्च, मङ्गलाचरणैः परैः ।
घट - स्थापनकं कुर्यात् , क्रमं तत्र श्रृणु प्रिये ! ॥२३॥
काम - बीजेन सम्प्रोक्ष्य, वाग्भवेनैव शोधयेत् ।
शक्तया कलशमारोप्य, मायया पूरयेज्जलैः ॥२४॥
प्रवालादीन् पञ्चरत्नान्, विन्यसेत् तत्र यत्नतः ।
आवाहयेच्च तीर्थानि, मन्त्रेणानेन देशिकः ॥२५॥
ॐ गङ्गाद्याः सरितः सर्वाः, समुद्राश्च सरांसि च ।
सर्वे समुद्राः सरितः, सरांसि जलदा नदाः ॥२६॥
ह्रदाः प्रस्रवणाः पुण्याः, स्वर्ग - पाताल - भू - गताः ।
सर्व - तीर्थानि पुण्यानि, घटे कुर्वन्तु सन्निधिम् ॥२७॥
रमा - बीजेन जप्तेन, पल्लवं प्रतिपादयेत् ।
कूर्चेन फल - दानं स्याद्, गन्ध - वस्त्रे हदात्मना ॥२८॥
ललनयैव सिन्दूरं, पुष्पं वद्यात् तु कामतः ।
मूलेन दूर्वां प्रणवैः, कुर्यादभ्युक्षणं ततः ॥२९॥
हूं फट् स्वाहेति मन्त्रेण, कुर्याद् दर्भैश्च ताड़नम् ।
विचिन्त्य मूलपीठं तु, संयोज्य पूजयेत् ॥३०॥
स्वतन्त्रोक्त - विधानेन, प्रार्थयेदमुना बुधः ।
तद् - घटे हस्तमारोप्य, शिष्यं पश्यन् गुरश्च सः ॥३१॥
उत्तिष्ठ ब्रह्मकलश ! देवताऽभीष्टदायक ! ।
सर्व - तीर्थाम्बु - सम्पूर्ण ! पूरयास्मन्मनोरथम् ॥३२॥
अभिषिञ्चेत् गुरुः शिष्यं, ततो मन्त्रैश्च पार्वति ! ।
मङ्गलैर्निखिलैर्द्रव्यैः, साधकैः शक्तिभिः सह ॥३३॥
पल्लवैराम्रकाद्यैश्च, नति - मत् शिष्यमेव च ।
आनन्दैः परमेशानि ! भक्तानां हित - कारिणी ॥३४॥