॥ श्रीदेव्युवाच ॥
मुक्ति - तत्त्वं महादेव, वद में करुणानिधे ! ।
यस्मिन् षड् - दर्शनानीह, चोपहास्य - गतानि च ॥१॥
॥ श्रीशिव उवाच ॥
श्रृणु देवि ! शुभे विज्ञे, यत्पृष्टं तत्त्वमुत्तमं ।
एतन्मर्म च त्वं वेत्ति ! अहं वेद्मि तथा हरिः ॥२॥
मोदकेन यथा लोकः, प्रतारयति बालकान् ।
लगुड़ेन यथा देवी ! बध्नाति दुर्जनं हि च ॥३॥
तथानङ्गकृतो लोके, दर्शनैर्बर्बरो मया ।
दुर्जने यदि मुक्तिः स्याच्छङ्कयेति शुभानने ! ॥४॥
षडदर्शन - महाकूपे, पतिताः पशवः प्रिये ! ।
परमार्थं न जानन्ति, दर्वी ! पाक - रसं यथा ॥५॥
न सारः कदली - वृक्षे, नैरण्डे तु शुभानने ! ।
दर्शनेषु तथा मुक्तिर्नास्ति देवि ! मयोदितम् ॥६॥
यथा मरीचिकायास्तु, निवर्तनते पुनर्मृगाः ।
दर्शनेभ्यो निवर्तन्ते, तथा मुमुक्षवः पुनः ॥७॥
श्रीगुरोश्च प्रसादेन, मुक्तिमादौ सदा लभेत् ।
विचरेत् सर्व - शास्त्रेषु, कौतुकाय ततः सुधीः ॥८॥
मुक्तितत्त्व प्रवक्ष्यामि, सादरं श्रृणु पार्वति ! ।
शरीर - धारणं यस्य, कुर्वन्तीह पुनः पुनः ॥९॥
आदावनुग्रहो देव्याः, श्रीगुरोस्तदनन्तरं ।
तदाननात्ततो दीक्षा, भक्तिस्तस्याः प्रजायते ॥१०॥
ततो हि साधनं शुद्धं, तस्माज् ज्ञानं सुनिर्मलं ।
ज्ञानान्मोक्षो भवेत् सत्यं, इति शास्त्रस्य निर्णयः ॥११॥
मुक्तिश्चतुर्विधा प्रोक्ता, सालोक्यं तु शुभानने ! ।
सारोप्यं सह - योज्यं च, निर्वाणं हि परात्परम् ॥१२॥
सालोक्यं वसतिर्लोके, सारोप्यं तु स्वरुपतः ।
सायोज्यं कलया युक्तं, निर्वाणं तु मनोलयम् ॥१३॥
॥ श्रीदेव्युवाच ॥
सम्यक् लयो जनस्यैव, निर्वाणं यत्तु कथ्यते ।
तत् किं वद महादेव, संशयं लयसात् कुरु ॥१४॥
॥ श्रीशिव उवाच ॥
व्यक्तिर्लयात्मिका मुक्तिरसुराणां दयानिधे ! ।
दुर्जुनत्वाल्लोपयित्वा, क्रीडयामि सुरानहम् ॥१५॥
मनोलयात्मिका मुक्तिरिति जानीहि शंकरि ! ।
प्राप्तं मया विष्णुना च ब्रह्मणा नारदादिभिः ॥१६॥
सालोक्यं केवलं यत्तु, याति सारोप्य - युक् द्वयं ।
त्रिधा सायोज्यवानेति, निर्वाणी सर्वमेव हि ॥१७॥
नीलोत्पल - दल - श्यामा, मुक्तिर्द्विदल - वर्तिनी ।
मुक्तस्यैव सदा स्फीता, स्फुरत्यविरतं प्रिये ! ॥१८॥
सनातनी जगद् - वन्द्या, सच्चिदानन्द - रुपिणी ।
परा च जननी, चैव, सर्वाभीष्ट - प्रदायिनी ॥१९॥
इष्टे निश्चल - सम्बन्धं, निर्वाण - मुक्तिरीदृशी ।
साधूनां देव - देवेशि ! सर्वेषां विद्धि निश्चितम् ॥२०॥
मुक्तिज्ञानं कुलज्ञनां, नान्य - ज्ञानं कुलेश्वरि !
तथा च साधनं ज्ञेयं, पञ्चतत्त्वैश्च मुक्तिदम् ॥२१॥
अनुग्रहं तु देव्याश्च, कुल - मार्ग - प्रदर्शकः ।
दीक्षा कुलात्मिका देवी ! श्रीगुरोर्मुख - पंकजात् ॥२२॥
कुल - द्रव्येषु या भक्तिः, सा मोक्ष - दायिनी मता ।
ज्ञात्वा चैवं प्रयत्नेन, कुल - ज्ञानं भजेद् बुधः ॥२३॥
यदि भाग्य - वशद् देवी ! मन्त्रमेतत्तु लभ्यते ।
मुक्तेश्च कारणं तस्याः, स्वयं जातं न चान्यथा ॥२४॥
अश्रुतं मुक्ति - तत्त्वं हि, कथितं ते महेश्वरी ! ।
आत्म - योनिर्यथा देवि ! तथा गोप्यं ममाज्ञया ॥२५॥
॥ श्रीकामाख्या - तन्त्रे पार्वतीश्वर - संवादे नवमः पटलः ॥