॥ श्रीदेव्युवाच ॥
कामाख्या या महादेवी, कथिता सर्वरुपिणी ।
सा का वद जगन्नाथ ! कपटं मा कुरु प्रभो ! ॥१॥
कुर्यास्तु कपटं नाथ ! यदि में शपथस्त्वयि ।
रतौ का कामिनी योनि, सम्यक् न दर्शयेत् पतिम् ॥२॥
श्रुत्वैतत् गिरिजा - वाक्यं, प्रहस्योवाच शङ्करः ।
॥ श्रीशिव उवाच ॥
श्रृणु देवि ! मम प्राण - वल्लभेक ! कथयामि ते ॥३॥
यो देवी कालिका माता, सर्व - विद्या - स्वरुपिणी ।
कामाख्या सैव विख्याता, सत्यं देवि ! न चान्यथा ॥४॥
कामाख्या सैव विख्याता, सत्यं सत्यं न संशयः ।
सैव ब्रह्मेति जानहि, यज्ञार्थ दर्शनानि च ॥५॥
विचरन्ति चोत्सुकानि, यथा चन्द्रे हि वामनः ।
तस्यां हि जायते सर्व, जगदेतच्चराचरम् ॥६॥
लीयते पुनरस्यां च, सन्देहं मा कुरु प्रिये ! ।
स्थूला सूक्ष्मा परा देवी, सच्चिदानन्द - रुपिणी ॥७॥
अमेया विक्रमाख्या सा, करुणा - सागरा माता ।
मुक्तिमयी जगद्धात्री, सदाऽऽनन्दमयी तथा ॥८॥
विश्वम्भरी क्रिया - शक्तिस्तथा चैव सनातनी ।
यथा कर्म - समाप्तौ च, दक्षिणा फल - सिद्धिदा ॥९॥
तथा मुक्तिरसौ देवी ! सर्वेषां फल - दायिनी ।
अहो हि दक्षिणा काली, कथ्यते वर - वर्णिनी ॥१०॥
वे ही विश्व का पालन करनेवाली क्रियाशक्ति और
सनातनी महादेवी हैं । जिस प्रकार यज्ञादि कर्मों की समाप्ति
पर ' दक्षिणा ' ही अभीष्ट फल देती है, उसी प्रकार हे
देवी ! वे ही मुक्ति और सबके अभीष्ट फल को देनेवाली
हैं । इसी से हे सुन्दरी ! वे ' दक्षिणा काली ' कही जाती हैं ।
कृष्ण - वर्णा सदा काली, आगमस्येति निर्णय ।
उक्तानि सर्वतन्त्राणि, तथा नान्येति निर्णयः ॥११॥
कृत्वा सङ्कल्पमित्यस्य, काम्येषु पाठयेद् बुधः ।
पठेत् वा पाठयेद् वापि, श्रृणोति श्रावयेदपि ॥१२॥
तं तं काममवाप्नोति, श्रीमत् - काली - प्रसादतः ।
यथा स्पर्श - मणिर्देवि ! तथैतत् तन्त्रमुत्तमम् ॥१३॥
यथा कल्पतरुर्दाता, तथा ज्ञेयं मनीषिभिः ।
यथा सर्वाणि रत्नानि, सागरे सन्ति निश्चितम् ॥१४॥
तथाऽत्र सिद्धयः सर्वाः, भुक्ति - मुक्तिर्वरानने ! ।
सर्व - देवाश्रयो मेरुर्यथा सिद्धिस्तथा पुनः ॥१५॥
सर्व - विद्या - युतं मन्त्रं, शपथेन वदाम्यहम् ।
यस्य गेहे स्थितं देवि ! तन्त्रमेतद् भयापहम् ॥१६॥
रोग - शोक - पातकानां, लेशो नास्ति कदाचन ।
तत्र दस्यु - भयं नास्ति, ग्रह - राज - भयं न च ॥१७॥
न चोत्पात - भयं तस्य, न च मारी - भयं तथा ।
न पराजस्तेषां हि, भयं नैव मयोदितम् ॥१८॥
भूत - प्रेत - पिशाचानां, दानवानां च राक्षसाम् ।
न भयं क्वापि सर्वेषां, व्याघ्रादीनां तथैव च ॥१९॥
कूष्माण्डानां भयं नैव, यक्षादीनां भयं न च ।
विनायकानां सर्वेषां, गन्धर्वाणां तथा न च ॥२०॥
स्वर्गे मर्त्ये च पाताले, ये ये सन्ति भयानकाः ।
ये विघ्न - कराश्चैव, न तेषां भयमीश्वरि ! ॥२१॥
यम - दूताः पलायन्ते, विमुखा भय - विह्वलः ।
सत्यं सत्यं महादेवि ! शपथेन वदाम्यहम् ॥२२॥
सम्पत्तिरतुला तत्र, तिष्ठति सप्त - पौरुषम् ।
वाणी तथैव देव्यास्तु, प्रस्तादेन तु ईरिता ॥२३॥
एतत् ते कथितं स्नेहात् , न प्रकाश्यं कदाचन ।
गोपनीयं गोपनीयं, गोपनीयं सदा प्रिये ! ॥२४॥
पशोरग्रे विशेषण, गोपयेत् तु प्रयत्नतः ।
भ्रष्टानां साधकानां च, सान्निध्यं न वदेदपि ॥२५॥
न दद्यात् काण - खञ्जेभ्यो, विगतेभ्यस्तथैव च ।
उदासीन - जनस्यैव, सान्निध्ये न वदेदपि ॥२६॥
दाम्भिकाय न दातत्यं, नाभक्ताय विशेषतः ।
मूर्खाय भाव - हीनाय, दरिद्राय ममाज्ञया ॥२७॥
दद्यात् शान्ताय शुद्धाय, कौलिकाय महेश्वरी ! ।
काली - भक्ताय शैवाय, वैष्णवाय शिवाज्ञया ॥२८॥
अद्वैत - भाव - युक्ताय, महाकाल प्रजापिने ।
कुल - स्त्री - वन्द्य - कायाऽपि, शिवाय विनीताय च ॥२९॥
॥ श्री कामाख्या - तन्त्रे पार्वतीश्वर - सम्वादे दशमः पटलः ॥