रघुवंश - सप्तम: सर्ग:


महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


अथोपयन्त्रा सदृशेण युक्तां स्कन्देन साक्षादिव देवसेनाम् । स्वसारमादाय विदर्भनाथ: पुरप्रवेशाभिमुखो बभूव ॥१॥
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभास: । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ॥२॥
सांनिध्ययोगात्किल तत्र शच्या: स्वयंवरक्षोभकृतामभाव: । काकुत्स्थमुविश्य समत्सरोऽपि शशाम तेन क्षितिपाललोक: ॥३॥
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वर: सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥४॥
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥५॥
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्य: । बद्धुं न संभावित एव तावत्करेण रूद्धोऽपि च केशपाश: ॥६॥
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥७॥
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा। तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥८॥
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेन हस्तेन तस्थाववलम्ब्य वास: ॥९॥
अर्धाञ्चिता सत्वरमुत्थिताया: पदे पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥१०॥
तासां मुखैरासवगन्धगर्भैव्र्याप्तान्तरा: सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षा: सहस्रपत्राभरणा इवासन् ॥११॥
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥१२॥
स्थाने वृता भूपतिभि: परोक्षै: स्वयंवरं साधुममंस्त भोज्या ।
पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम् ॥१३॥
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्न: पत्यु: प्रजानां वितथोऽभविष्यत् ॥१४॥
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला ।
गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥१५॥
इत्युद्गता: पौरवधूमुखेभ्य: शृण्वन्कथा: श्रोत्रसुखा: कुमार: ।
उद्भासितं मङ्गलसंविधाभि: संबन्धिन: सद्म समाससाद ॥१६॥
ततोऽवतीर्याशु करेणुकाया: स कामरूपेश्वरदत्तहस्त: ।
वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्त: ॥१७॥
महार्हसिंहासनसंस्थितोऽसौ सरत्नमघ्र्यं मधुपर्कमिश्रम् ।
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षै: ॥१८॥
दुकूलवासा: स वधूसमीपं निन्ये विनीतैरवरोधरक्षै: ।
वेलासकाशं स्फुटफेनराशिर्नवैरूदन्वानिव चन्द्रपादै: ॥१९॥
तत्रार्चितो भोजपते: पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्प: ।
तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार ॥२०॥
हस्तेन हस्तं परिगृत्द्य वध्वा: स राजसूनु: सुतरां चकासे ।
अनन्तराशोकलताप्रवालं प्राप्येव चूत: प्रतिपल्लवेन ॥२१॥
आसीद्वर: कण्टकितप्रकोष्ठः स्विन्नाङ्गुलि: संववृते कुमारी ।
तस्मिन्द्वये तत्क्षणमात्मवृत्ति: समं विभक्तेव मनोभवेन ॥२२॥
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि ।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥२३॥
प्रदक्षिणप्रक्रमणात्कृशानोरूदर्चिषस्तन्मिथुनं चकासे ।
मेरोरूपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥२४॥
नितम्बगुर्वी गुरूणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥२५॥
हवि:शमीपल्लवलाजगन्धी पुण्य: कृशानोरूदियाय धूम: ।
कपोलसंसर्पिशिख: स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥२६॥
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगन्धलेखमाचारधूमग्रहणाद्बभूव ॥२७॥
तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमश: प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थावाद्र्राक्षतारोपणमन्वभूताम् ॥२८॥
इति स्वसुर्भोजकुलप्रदीप: संपाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्री: ॥२९॥
लिङ्गैर्मुद: संवृतविक्रियास्ते ह्रदा: प्रसन्ना इव गूढनक्रा: ।
वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यप्र्य पूजामुपदाछलेन ॥३०॥
स राजलोक: कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् ।
आदास्यमान: प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥३१॥
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाह: ।
सत्वानुरूपाहरणीकृतश्री: प्रास्थापयद्राघवमन्वगाच्च ॥३२॥
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरूषित्वा ।
तस्मादपावर्तत कुण्डिनेश: पर्वात्यये सोम इवोष्णरश्मे: ॥३३॥
प्रमन्यव: प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवु: ।
अतो नृपश्चक्षमिरे समेता: स्त्रीरत्नलाभं न तदाजत्मस्य ॥३४॥
तमुद्वहन्तं पथि भोजकन्यां रूरोध राजन्यगण स दृप्त: ।
बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रु: ॥३५॥
तस्या: स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमार: ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्ग: ॥३६॥
पत्ति: पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् ।
यन्ता गजस्याभ्यपत·जस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥३७॥
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृत: शशंसु: ॥३८॥
उत्थापित: संयति रेणुरश्वै: सान्द्रीकृत: स्यन्दनवंशचक्रै: ।
विस्तारित: कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरूरोध सूर्यम् ॥३९॥
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखै: प्रवृद्धध्वजिनीरजांसि ।
बभु: पिबन्त: परमार्थमत्स्या: पर्याविलानीव नवोदकानि ॥४०॥
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नाग: ।
स्वभर्तुनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोध: ॥४१॥
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्वीपवीरजन्मा बालारूणोऽभूद्रुधिरप्रवाह: ॥४२॥
स च्छिन्नमूल: क्षतजेन रेणुस्तस्योपरिष्टात्पवनापधूत: ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥४३॥
प्रहारमूच्र्छापगमे रथस्था यन्तäनुपालभ्य निवर्तिताश्वान् ।
यै: सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नु: ॥४४॥
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्का: ।
संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागै: फलिभि: शरव्यम् ॥४५॥
आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितै: क्षुराग्रै: ।
हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतु: ॥४६॥
पूर्वं प्रहर्ता न जघान भूय: प्रतिप्रहाराक्षममश्वसादी ।
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥४७॥
तनुत्यजां वर्मभृतां विकोशैबृहत्सु दन्तेष्वसिभि: पतद्भिः ।
उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्ना: करशीकरेण ॥४८॥
शिलीमुखोत्कृत्तशिर:फलाढ्या च्युतै: शिरस्त्रैश्चषकोत्तरेव ।
रणक्षिति: शोणितमद्यकुल्या रराज मृत्योरिव पानभूमि: ॥४९॥
उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्य: पिशितप्रियापि ।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥५०॥
कश्चिद्विषत्ख°हृतोत्तमाङ्ग: सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गन: स्वं नृत्यत्कबन्धं समरे ददर्श ॥५१॥
अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥५२॥
परस्परेण क्षतयो: प्रहत्र्रोरूत्क्रान्तवाय्वो: समकालमेव ।
अमत्र्यभावेऽपि कयोश्चिदासीदेकाप्सर:प्रार्थितयोर्विवाद: ॥५३॥
व्यूहावुभौ तावितरेतरस्माङ्गं जयं चापतुरव्यवस्थम् ।
पश्चात्पुरोमारूतयो: प्रवृद्धौ पर्यायवृत्येव महार्णवोर्मी ॥५४॥
परेण भग्नेऽपि बले महौजा ययावज: प्रत्यरिसैन्यमेव ।
धूमो निवत्र्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः ॥५५॥
रथी निषङ्गी कवची धनुष्मान्दृप्त: स राजन्यकमेकवीर: ।
निवारयामास महावराह: कल्पक्षयोद्वâत्तमिवार्णवाम्भ: ॥५६॥
स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ॥५७॥
स रोषदष्टाधिकलोहितोष्ठैर्क्तोर्ध्वरेखा भृकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हूंकारगर्भैद्र्विषतां शिरोभि: ॥५८॥
सर्वैर्बलाङ्गैद्र्विरदप्रधानै: सर्वायुधै: कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥५९॥
सोऽस्त्रव्रजैश्छन्नरथ: परेषां ध्वजाग्रमात्रेण बभूव लक्ष्य: ।
नीहारमग्नो दिनपूर्वभाग: किंचित्प्रकाशेन विवस्वतेव ॥६०॥
प्रियंवदात्प्राप्तमसौ कुमार: प्रायुङ्कÑत राजस्वधिराजसूनु: ।
गान्धर्वमस्त्रं कुसुमास्त्रकान्त: प्रस्वापनं स्वप्ननिवृत्तलौल्य: ॥६१॥
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥६२॥
तत: प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमार: ।
तेन स्वहस्तार्जितमेकवीर: पिबन्यशो मूर्तमिवाबभासे ॥६३॥
श£स्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशु: स्वयोधा: ।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्त।म् प्रतिमाशशाङ्कम् ॥६४॥
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिता: केतुषु पार्थिवानाम् ।
यशो हृतं संप्रति राघवेण न जीवितं व: कृपयेति वर्णा: ॥६५॥
स चापकोटीनिहितैकबाहु: शिरस्त्रनिष्कर्षणभिन्नमौलि: ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥६६॥
इत: परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्राथ्र्यसे हस्तगता ममैभि: ॥६७॥
तस्या: प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबभासे ।
नि:श्वासबाष्पापगमात्प्रपन्न: प्रसादमात्मीयमिवात्मदर्श: ॥६८॥
हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भि: सखीनां प्रियमभ्यनन्दत् ।
स्थली नवाम्भ:पृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥६९॥
इति शिरसि स वामं पादमाधाय राज्ञारू
मुदवहदनवद्यां तामवद्यादपेत: ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा
समरविजयलक्ष्मी: सैव मूर्ता बभूव ॥७०॥
प्रथमपरिगतार्थस्तं रघु: संनिवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्ब: शान्तिमार्गोत्सुकोऽभूरू
न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥७१॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासरू
कृतावजस्वयंवराभिगमनो नाम सप्तम: सर्ग: ॥

N/A

References : N/A
Last Updated : May 09, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP