पृथिवीं शासतस्तस्य पाकशासनतेजस: ।
किंचिदूनमनूनद्र्धे: शरदामयुतं ययौ ॥१॥
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योति: सद्य: शोकतमोपहम्॥२॥
अतिष्ठत्प्रत्ययापेक्षसंतति: स चिरं नृप: ।
प्रा¨न्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णव:॥३॥
ऋष्यशृङ्गादयस्तस्य सन्त: सन्तानकादक्षिण: ।
आरेभिरे जितात्मान: पुत्रीयामिष्टिमृत्विज:॥४॥
तस्मिन्नवसरे देवा: पौलस्त्योपप्लुता हरिम् ।
अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगा:॥५॥
ते च प्रापुरूदन्वन्तं बुबुधे चादिपूरूष: ।
अव्याक्षेपो भविष्यन्त्या: कार्यसिद्धेर्हि लक्षणम्॥६॥
भोगिभोगासनासीनं ददृशुस्तं दिवौकस: ।
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम्॥७॥
श्रिय: पद्मनिषण्णाया: क्षौमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे॥८॥
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम्॥९॥
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा॥१०॥
बहुभिर्विटपाकारैर्दिव्याभरणभूषितै: ।
आविर्भूतमपां मध्ये पारिजातमिवापरम्॥११॥
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभि: ।
हेतिभिश्चेतनावद्भिरूदीरितजयस्वनम्॥१२॥
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरूत्मता ॥१३॥
योगनिद्रान्तविशदै: पावनैरवलोकनै: ।
भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन् ॥१४॥
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां ।
अथैनं तुष्टुवु: स्तुत्यमवा¨नसगोचरम् ॥१५॥
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥१६॥
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
देशे देशे गुणेष्वेवमवस्थास्तवमविक्रिय: ॥१७॥
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावह: ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥१८॥
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुमनघस्पृष्टं पुराणमजरं विदु: ॥१९॥
सर्वज्ञस्त्वमविज्ञात: सर्वयोनिस्त्वमात्मभू: ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥२०॥
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
सप्तार्चिमुखमाचख्यु: सप्तलोकैकसंश्रयम् ॥२१॥
चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगा: ।
चतुर्वर्णमयो लोकस्त्वत्त: सर्वं चतुर्मुखात् ॥२२॥
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥२३॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विष: ।
स्वपतो जागरूकस्य याथाथ्र्यं वेद कस्तव ॥२४॥
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तप: ।
पर्याप्तोऽसि प्रजा: पातुमौदासीन्येन वर्तितुम् ॥२५॥
बहुधाप्यागमैर्भिन्ना: पन्थान: सिद्धिहेतव: ।
त्वय्येव निपतन्त्योघा जान्हवीया इवार्णवे ॥२६॥
त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
गतिस्त्वं वीतरागाणामभूय:संनिवृत्तये ॥२७॥
प्रत्यक्षोऽप्यपरिच्छेद्यो मत्द्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥२८॥
केवलं स्मरणेनैव पुनांसि पुरूषं यत: ।
अनेन वृत्तय: शेषा निवेदितफलास्त्वयि ॥२९॥
उदधेरिव रत्नानि तेजांसीव विवस्वत: ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥३०॥
अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणो:॥३१॥
महिमानं यदुत्कीत्र्य तव संह्रियते वच: ।
श्रमेण तदशक्त्या वा न गुणानामियत्तया॥३२॥
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृति: सा हि न स्तुति: परमेष्ठिन: ॥३३॥
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुरा: ।
भयमप्रलयोद्वेलादाचख्युर्नैर्ऋतोदधे:॥३४॥
अथ वेलासमासन्नशैलरन्ध्रानुवादिना ।
स्वरेणोवाच भगवान् परिभूतार्णवध्वनि:॥३५॥
पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता ।
बभूव कृतसंस्कारा चरितार्थैव भारती॥३६॥
बभौ सदशनज्योत्स्ना सा विभोर्वदनो·ता ।
निर्यातशेषा चरणा·ङ्गेवोध्र्वप्रवर्तिनी॥३७॥
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ॥३८॥
विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
अकामोपनतेनेव साधोर्हृदयमेनसा॥३९॥
कार्येषु चैककार्यत्वादभ्यथ्र्योऽस्मि न वज्रिणा ।
स्वयमेव हि वातोऽग्ने: सारथ्यं प्रतिपद्यते॥४०॥
स्वासिधारापरिहृत: कामं चक्रस्य तेन मे ।
स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा॥४१॥
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मन: ।
अत्यारूढं रिपो: सोढं चन्दनेनेव भोगिन:॥४२॥
धातारं तपसा प्रीतं ययाचे स हि राक्षस: ।
दैवात्सर्गादवध्यत्वं मत्र्येष्वास्थापराङ्मुख:॥४३॥
सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिर:कमलोच्चयम्॥४४॥
अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुन: ।
मायाविभिरनालीढमादास्यध्वे निशाचरै:॥४५॥
वैमानिका: पुण्यकृतस्त्यजन्तु मरूतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्परा:॥४६॥
मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धनदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहै:॥४७॥
रावणावग्रहक्लान्तमिति वागमृतेन स: ।
अभिवृष्य मरूत्सस्यं कृष्णमेघस्तिरोदधे॥४८॥
पुरहूतप्रभृतय: सुरकार्योद्यतं सुरा: ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमा:॥४९॥
अथ तस्य विशांपत्युरन्ते कामस्य कर्मण: ।
पुरूष: प्रबभूवाग्नेर्विस्मयेन सहत्र्विजाम्॥५०॥
हेमपात्रगतं दोभ्र्यामादधान: पयश्चरूम् ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्॥५१॥
प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृप: ।
वृषेव पयसां सारमाविष्कृतमुदन्वता॥५२॥
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभा: ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत्॥५३॥
स तेजो वैष्णवं पत्न्योर्विभेजे चरूसंज्ञितम् ।
द्यावापृथिव्यो: प्रत्यग्रमहर्पतिरिवातपम्॥५४॥
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अत: संभावितां ताभ्यां सुमित्रामैच्छदीश्वर:॥५५॥
ते बहुज्ञस्य चित्तज्ञे पत्नौ पत्युर्महीक्षित: ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे॥५६॥
सा हि प्रणयवत्यासीत्सपत्न्योरूभयोरपि ।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयो:॥५७॥
ताभिर्गर्भ: प्रजाभूत्यै दध्रे देवांशसंभव: ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मय:॥५८॥
सममापन्नसच्वास्ता रेजुरापाण्डुरत्विष: ।
अन्तर्गतफलारम्भा: सस्यानामिव संपद:॥५९॥
गुप्तं ददृशुरात्मानं सर्वा: स्वप्नेषु वामनै: ।
जलजासिकदाशार्ङ्गचक्रलाञ्छितमूर्तिभि:॥६०॥
हेमपक्षप्रभाजालं गगने च वितन्वता ।
उत्द्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा॥६१॥
बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बितम् ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया॥६२॥
कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभि: ।
ब्रह्मर्षिभि: परं ब्रह्म गृणद्भिरूपतस्थिरे॥६३॥
ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिव: ।
मेने पराध्र्यमात्मानं गुरूत्वेन जगद्गुरो:॥६४॥
विभक्तात्मा विभुस्तासामेक: कुक्षिष्वनेकधा ।
उवास प्रतिमाचन्द्र: प्रसन्नानामपामिव॥६५॥
अथाग्यमहिषी राज्ञ: प्रसूतिसमये सती ।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधि:॥६६॥
राम इत्यभिरामेण वपुषा तस्य चोदित: ।
नामधेयं गुरूश्चक्रे जगत्प्रथममङ्गलम्॥६७॥
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपा: प्रत्यादिष्टा इवाभवन्॥६८॥
शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा॥६९॥
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे य: प्रश्रय इव श्रियम्॥७०॥
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव॥७१॥
निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरूषोत्तमम्॥७२॥
तस्योदये चतुर्मूर्ते: पौलस्त्यचकितेश्वरा: ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव॥७३॥
कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकर: ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव॥७४॥
दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रिय: ।
मणिव्याजेन पर्यस्ता: पृथिव्यामश्रुबिन्दव:॥७५॥
पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिण: ।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि॥७६॥
संतानकमयी वृष्टिर्भवने चास्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्॥७७॥
कुमारा: कृतसंस्कारास्ते धात्रीस्तन्यपायिन: ।
आनन्देनाग्रजेनेव समं ववृधिरे पितु:॥७८॥
स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा ।
मुमूच्र्छ सहजं तेजो हविषेव हविर्भुजाम्॥७९॥
परस्परविरूद्धास्ते तद्रगोरनघं कुलम् ।
अलमुद्योतयामासुर्देवारण्यमिवर्तव:
समानेऽपि हि सौभ्रात्रे यथेभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतु:॥८१॥
तेषां द्वयोद्र्वयोरैक्यं बिभिदे न कदाचन ।
यथा वायुर्विभावस्वोर्यथा चन्द्रसमुद्रयो:॥८२॥
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव॥८३॥
स चतुर्धा बभौ व्यस्त: प्रसव: पृथिवीपते: ।
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्॥८४॥
गुणैराराधयामासुस्ते गुरूं गुरूवत्सला: ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवा:॥८५॥
सुरगज इव दन्तैर्भग्नदैत्यासिधारैरू
र्नय इव पणबन्धव्यक्तयोगैरूपायै: ।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयै:
पतिरवनिपतीनां तैश्चकाशे चतुर्भि:॥८६॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ
रामावतारो नाम दशम: सर्ग: ॥