रघुवंश - अष्टम: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिव: ।

वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥१॥

दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।

तदुपस्थितमग्रहीदज: पितुराज्ञेति न भोगतृष्णया ॥२॥

अनुभूय वसिष्ठसंभृतै: सलिलैस्तेन सहाभिषेचनम् ।

विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥३॥

स बभूव दुरासद: परैर्गुरूणाऽथर्वविदा कृतक्रिय: ।

पवनाग्निसमागमो त्द्ययं सहितं ब्रह्म यदस्त्रतेजसा ॥४॥

रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजा: ।

स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥५॥

अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।

पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥६॥

सदयं बुभुजे महाभुज: सहसोद्वेगमियं व्रजेदिति ।

अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥७॥

अहमेव मतो महीपतेरिति सर्व: प्रकृतिष्वचिन्तयत् ।

उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥८॥

न खरो न च भूयसा मृदु: पवमान: पृथिवीरूहानिव ।

स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥९॥

अथ वीक्ष्य रघु: प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ।

विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि नि:स्पृहोऽभवत् ॥१०॥

गुणवत्सुतरोपितश्रिय: परिणामे हि दिलीपवंशजा: ।

पदवीं तरूवल्कवाससां प्रयता: संयमिनां प्रपेदिरे ॥११॥

तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुत: ।

पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मन: ॥१२॥

रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रिय: ।

न तु सर्प इव त्वचं पुन: प्रतिपेदे व्यपवर्जितां श्रियम् ॥१३॥

स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहि: ।

समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रिय: श्रिया ॥१४॥

प्रशमस्थितपूर्वपार्थिवं कुलमभ्यद्यतनूतनेश्वरम् ।

नभसा निभृतेन्दुना तुलामुदिताकेýण समारूरोह तत् ॥१५॥

यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनै: ।

अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥१६॥

अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरज: ।

अनुपायिपदोपप्राप्तये रघुराप्तै: समियाय योगिभि: ॥१७॥

नृपति: प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा ।

परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥१८॥

अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।

अपर: प्रणिधानयोग्यया मरूत: पञ्च शरीरगोचरान् ॥१९॥

अकरोदचिरेश्वर: क्षितौ द्विषदारम्भफलानि भस्मसात् ।

इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥२०॥

पणबन्धमुखान्गुणानज: षडुपायुङ्कÑत समीक्ष्य तत्फलम् ।

रघुरप्यजयत्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चन: ॥२१॥

न नव: प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मण: ।

न च योगविधेर्नवेतर: स्थिरधीरा परमात्मदर्शनात् ॥२२॥

इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।

प्रसितावुदयापवर्गयोरूभयीं सिद्धिमुभाववापतु: ॥२३॥

अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शन: समा: ।

तमस: परमापदव्ययं पुरूषं योगसमाधिना रघु: ॥२४॥

श्रुतदेहविसर्जन: पितुश्चिरमश्रूणि विमुच्य राघव: ।

विदधे विधिमस्य नैष्ठिकं यतिभि: सार्धमनग्निरग्निचित् ॥२५॥

अकरोत्स तदौध्र्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।

न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिण: ॥२६॥

स पराध्र्यगतेरशोच्यतां पितुरूद्दिश्य सदर्थवेदिभि: ।

शमिताधिरधिज्यकार्मुक: कृतवानप्रतिशासनं जगत् ॥२७॥

क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्यपौरूषम् ।

प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥२८॥

दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।

दशपूर्वरथं यमाख्यया दशकण्ठारिगुरूं विदुर्बुधा: ॥२९॥

ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवै: स पार्थिव: ।

अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधिति: ॥३०॥

बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् ।

वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥३१॥

स कदाचिदवेक्षितप्रज: सह देव्या विजहार सुप्रजा: ।

नगरोपवने शचीसखो मरूतां पालयितेव नन्दने ॥३२॥

अथ रोधसि दक्षिणादधे: श्रितगोकर्णनिकेतमीश्वरम् ।

उपवीणयितुं ययौ रवेरूदयावृत्तिपथेन नारद: ॥३३॥

कुसुमैग्र्रथितामपार्थिवै: स्रजमातोद्यशिरोनिवेशिताम् ।

अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारूत: ॥३४॥

भ्रमरै: कुसुमानुसारिभि: परिकीर्णा परिवादिनी मुने: ।

ददृशे पवनापलेपजं सृजती बाष्पमिवाञ्जनाविलम् ॥३५॥

अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरूधाम् ।

नृपतेरमरस्रगाप सा दयितोरूस्तनकोटिसुस्थितीम् ॥३६॥

क्षणमात्रसखीं सुजातयो: स्तनयोस्तामवलोक्य विÍला ।

निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥३७॥

वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।

ननु तैलनिषेकबिन्दुना सह दीपार्चिरूपैति मेदिनीम् ॥३८॥

उभयोरपि पाश्र्ववर्तिनां तुमुलेनार्तरवेण वेजिता: ।

विहगा: कमलाकरालया: समदु:खा इव तत्र चुक्रुशु: ॥३९॥

नृपतेव्र्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।

प्रतिकारविधानमायुष: सति शेषे हि फलाय कल्पते ॥४०॥

प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्वविप्लवात् ।

स निनाय नितान्तवत्सल: परिगृत्द्योचितमङ्कमङ्गनाम् ॥४१॥

पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।

समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमा: ॥४२॥

विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।

अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥४३॥

कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।

न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधे: ॥४४॥

अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तक: ।

हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥४५॥

स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।

विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥४६॥

अथवा मम भाग्यविप्लवादशनि: कल्पित एव वेधसा ।

यदनेन तरूर्न पातित: क्षपिता तद्विटपाश्रिता लता ॥४७॥

कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।

कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥४८॥

ध्रुवमस्मि शठ: शुचिस्मिते विदित: कैतववत्सलस्तव ।

परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामित: ॥४९॥

दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।

सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥५०॥

सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवो·मोऽपि ते ।

अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥५१॥

मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।

ननु शब्दपति: क्षितेरहं त्वयि मे भावनिबन्धना रति: ॥५२॥

कुसुमोत्खचितान्वलीभृतश्चलयन्भृङ्गरूचस्तवालकान् ।

करभोरू करोति मारूतस्त्वदुपावर्तनशङ्कि मे मन: ॥५३॥

तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।

ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधि: ॥५४॥

इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।

निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥५५॥

शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।

इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहे: ॥५६॥

नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।

तदिदं विषहिष्यते कथं वद वामोरू चिताधिरोहणम् ॥५७॥

इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रह:सखी ।

गतिविभ्रमसादनीरवा न शुचा नानु मृतेव लक्ष्यते ॥५८॥

कलमन्यभृतासु भासितं कलहंसीषु मदालसं गतम् ।

पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमा: ॥५९॥

त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिता: सत्यममी गुणास्त्वया ।

विरहे तव मे गुरूव्यथं हृदयं न त्ववलम्बितुं क्षमा: ॥६०॥

मिथुनं परिकल्पितं त्वया सहकार: फलिनी च नन्विमौ ।

अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥६१॥

कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति ।

अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥६२॥

स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।

अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥६३॥

तव नि:श्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।

असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ॥६४॥

समदु:खसुख: सखीजन: प्रतिपच्चन्द्रनिभोऽयमात्मज: ।

अहमेकरसस्तथापि ते व्यवसाय: प्रतिपत्तिनिष्ठुर: ॥६५॥

धृतिरस्तमिता रतिश्र्युता विरतं गेयमृतुर्निरूत्सव: ।

गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥६६॥

गृहिणी सचिव: सखी मिथ: प्रियशिष्या ललिते कलाविधौ ।

करूणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥६७॥

मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।

अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥६८॥

विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।

अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रया: ॥६९॥

विलपन्निति कोसलाधिप: करूणार्थग्रथितं प्रियां प्रति ।

अकरोत्पृथिवीरूहानपि स्रुतशाखारसबाष्पदूषितान् ॥७०॥

अथ तस्य कथंचिदङ्कत: स्वजनस्तामपनीय सुन्दरीम् ।

विससर्ज तदन्त्यमण्डनामनलायागुरूचन्दनैधसे ॥७१॥

प्रमदामनु संस्थित: शुचा नृपति: सन्निति वाच्यदर्शनात् ।

न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥७२॥

अथ तेन दशाहत: परे गुणशेषामपदिश्य भामिनीम् ।

विदुषा विधयो महद्र्धय: पुर एवोपवने समापिता: ॥७३॥

स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शन: ।

परिवाहमिवावलोकयन्स्वशुच: पौरवधूमुखाश्रुषु ॥७४॥

अथ तं सवनाय दीक्षित: प्रणिधानाद्गुरूराश्रमस्थित: ।

अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥७५॥

असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।

न भवन्तमुपस्थित: स्वयं प्रकृतौ स्थापयितुं पथश्वयुतम् ॥७६॥

मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती ।

श्रुणु विश्रुतसत्त्वसार तां हृदि चैनामपधातुमर्हसि ॥७७॥

पुरूषस्य पदेष्वजन्मन: समतीतं च भवच्च भावि च ।

स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥७८॥

चरत: किल दुश्चरं तपस्तृणबिन्दो: परिशङ्कित: पुरा ।

प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥७९॥

स तप:प्रतिबन्धमन्युना प्रमुखाविष्कृतचारूविभ्रमम् ।

अशप»व मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ॥८०॥

भगवन्परवानयं जन: प्रतिकूलाचरितं क्षमस्व मे ।

इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥८१॥

क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।

उपलब्धवती दिवश्वयुतं विवशा शापनिवृत्तिकारणम् ॥८२॥

तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।

वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपा: कलत्रिण: ॥८३॥

उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मव¶वया ।

मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥८४॥

रूदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।

परलोकजुषाअं स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥८५॥

अपशोकमना: कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभि: ।

स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥८६॥

मरणं प्रकृति: शरीरिणां विकृतिर्जीवितमुच्यते बुधै: ।

क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥८७॥

अवगच्छति मूढचेतन: प्रियनाशं हृदि शल्यमर्पितम् ।

स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥८८॥

स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।

विरह: किमिवानुतापयेद्वद बत्द्यैर्विषयैर्विपश्चितम् ॥८९॥

न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि ।

द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चला: ॥९०॥

स तथेति विनेतुरूदारमते: प्रतिगृत्द्य वचो विससर्ज मुनिम् ।

तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरो: ॥९१॥

तेनाष्टौ परिगमिता: समा: कथंचिद्बालत्वादवितथसूनृतेन सूनो: ।

सादृश्यप्रतिकृतिदर्शनै: प्रियाया: स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥९२॥

तस्य प्रसÊ हृदयं किल शोकशङ्कु:

प्लक्षप्ररोह इव सौधतलं बिभेद ।

प्राणान्तहेतुमपि तं भिषजामसाध्यं

लाभं प्रियानुगमने त्वरया स मेने ॥९३॥

सम्यग्विनीतमथ वर्महरं कुमार-

मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।

रोगोपसृष्टतनुदुर्वसतिं मुमुक्षु:

प्रायोपवेशनमतिर्नृपतिर्बभूव ॥९४॥

तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोरू

र्देहत्यागादमरगणनालेख्यमासाद्य सद्य: ।

पूर्वाकाराधिकतररूचा संगत: कान्तयासौ

लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥९५॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासरू

कृतावजविलापो नाम अष्टम: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP