अथात्मन : शब्दगुणं गुणज्ञ : पदं विमानेन विगाहमान : ।
रत्नाकरं वीक्ष्य मिथ : स जायां रामाभिधानो हरिरित्युवाच ॥१॥
वैदेहि पश्यऽऽमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम्
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारूतारम् ॥२॥
गुरोर्यियक्षो : कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे ।
तदर्थमुर्वीमवधारयद्भिः पूर्वै : किलायं परिवर्धितो न : ॥३॥
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।
अबिन्धनं वह्निमसौ बिभर्ति प्रल्हादनं ज्योतिरजन्यनेन ॥४॥
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्ताया वा ॥५॥
नाभिप्ररूढाम्बुरूहासनेन संस्तूयमान : प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्र : संहृत्य लोकान्पुरूषोऽधिशेते ॥६॥
पक्षच्छिदा गोत्रभिदात्तगन्धा : शरण्यमेनं शतशो महीध्रा : ।
नृपा इवोपप्लविन : परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥७॥
रसातलादादिभवेन पुंसा भुव : प्रयुक्तोद्वहनक्रियाया : ।
अस्याच्छमम्भ : प्रलयप्रवृद्धं मुहूर्तवक्त्राभरणं बभूव ॥८॥
मुखार्पणेषु प्रकृतिप्रगल्भा : स्वयं तरंगाधरदानदक्ष : ।
अनन्यसामान्यकलत्रवृत्ति : पिबत्यसौ पाययते च सिन्धु : ॥९॥
ससत्वमादाय नदीमुखाम्भ : संमीलयन्तो विवृताननत्वात् ।
अमी तिरोभिस्तिमय : सरन्ध्रैरूध्वं वितन्वन्ति जलप्रवाहान् ॥१०॥
मातंगनक्रै : सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥११॥
वेलानिलाय प्रसृता भुजंगा वहोर्मिविस्फूर्जथुनिर्विशेषा : ।
सूर्यांशुसंपर्कविवृद्धरागैव्र्यज्यन्त एते मणिभि : फणस्थै : ॥१२॥
तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
ऊध्र्वाङ्कुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥१३॥
प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन ।
आभाति भूयिष्ठमयं समुद्र : प्रमथ्यमानो गिरिणेव भूय : ॥१४॥
दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥१५॥
वेलानिल : केतकरेणुभिस्ते संभावयत्याननमायताक्षि ।
मामक्षमं मण्डलकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥१६॥
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधे : ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥१७॥
कुरूष्व तावत्करभोरू पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् ।
एषा विदूरीभवत : समुद्रात्सकानना निष्पततीव भूमि : ॥१८॥
क्वचित्पथा संचरते सुराणां क्वचिद्घनानां पततां क्वचिच्च ।
यथाविधो मे मनसोऽभिलाष : प्रवर्तते पश्य तथा विमानम् ॥१९॥
असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीत : ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥२०॥
करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥२१॥
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥२२॥
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुव्र्याम् ।
अदृष्यत त्वच्चरणारविन्दविश्लेषदु :खादिव बद्धमौनम् ॥२३॥
त्वं रक्षसा भीरू यतोऽपनीता तं मार्गमेता : कृपया लता मे ।
अदर्शयन्वक्तुमशक्नुवत्य : शाखाभिरावर्जितपल्लवाभि : ॥२४॥
मृग्यश्च दर्भाङ्कुरनिव्र्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्षराजीनि विलोचनानि ॥२५॥
एतद्गिरेर्माल्यवत : पुरस्तादाविर्भत्यम्बरलेखि शृङ्गम् ।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥२६॥
गन्धश्च धाराहतपल्वलानां कादम्बमर्धो ·तकेसरं च ।
स्निग्धाश्च केका : शिखिनां बभूवुर्यस्मिन्नसत्द्यानि विना त्वया मे ॥२७॥
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरू तवोपगूढम् ।
गुहाविसारीण्यतिवाहितानि मया कथंचिद्घनगर्जितानि ॥२८॥
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशै : ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारूणलोचनश्री : ॥२९॥
उपान्तवानीरवनोपगूढान्यालक्षपारिप्लवसारसानि ।
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टि : ॥३०॥
अत्रावियुक्तानि रथङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्मितमीक्षितानि ॥३१॥
इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् ।
त्वत्प्राप्तिबुद्ध्या परिरब्धुकाम : सौमित्रिणा साश्रुरहं निषिद्ध : ॥३२॥
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क Ñतयस्त्वाम् ॥३३॥
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।
आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥३४॥
अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेद : ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्त : ॥३५॥
भ्रूभेदमात्रेण पदान्मघोन : प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भ :परिशुद्धिहेतोर्भौमो मुने : स्थानपरिग्रहोऽयम् ॥३६॥
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
घ्रात्वा हविर्गन्धि रजोविमुक्त : समश्नुते मे लघिमानमात्मा ॥३७॥
एतन्मुमुनेर्मानिनि शातकर्णे : पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥३८॥
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगै : सार्धमृषिर्मघोना ।
समाधिभीतेन किलोपनीत : पञ्चाप्सरोयौवनकूटबन्धम् ॥३९॥
तस्यायमन्तर्हितसौधभाज : प्रसक्तसंगीतमृदङ्गघोष : ।
वियद्गत : पुष्पकचन्द्रशाला : क्षणं प्रतिश्रुन्मुखरा : करोति ॥४०॥
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्ति : ।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्त : ॥४१॥
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥४२॥
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।
सभाजने मे भुजमूध्र्वबाहु : सव्येतरं प्राध्वमित : प्रयुङ्क्ते ॥४३॥
वाचंयमत्वात्प्रणतिं ममैष कम्पेन किञ्चित्प्रतिगृत्द्य मूर्घ्नः ।
दृष्टिं विमानव्यवधानमुक्तां पुन : सह्स्रार्चिषि संनिधत्ते ॥४४॥
अद : शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्ने : ।
चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥४५॥
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनामधुनासपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥४६॥
धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाङ्गलग्नाम्बुजवप्रपङ्क : ।
बघ्नाति मे बन्धुरगात्रि चक्षुर्दृप्त : ककुद्द्मानिव चित्रकूट : ॥४७॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमे : ॥४८॥
अयं सुजातोऽनुगिरं तमाल : प्रवालमादाय सुगन्धि यस्य ।
यवाङ्कुरापाण्डुकपोलशोभी मयावतंस : परिकल्पितस्ते ॥४९॥
अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् ।
वनं तप :साधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥५०॥
अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥५१॥
वीरासनैध्र्यानजुषामृषीणाममी समध्यासितवेदिमध्या : ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥५२॥
त्वया पुरस्तादुपयाचितो य : सोऽयं वट : श्याम इति प्रतीत : ।
राशिर्मणीनामिव गारूडानां सपद्मराग : फलितो विभाति ॥५३॥
क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानामिन्दीवरैरूत्खचितान्तरेव ॥५४॥
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्ति : ।
अन्यत्र कालागुरूदतापत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥५५॥
क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनै : शबलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभ :प्रदेशा ॥५६॥
क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गै : ॥५७॥
समुद्रपत्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् ।
तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्ध : ॥५८॥
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धास्वरूदत्सुमन्त्र : कैकेयि कामा : फलितास्तवेति ॥५९॥
पयोधरै : पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्या : ।
ब्राह्मं सर : कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥६०॥
जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् ।
तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभि : पुण्यतरीकृतानि ॥६१॥
यां सैकतोत्सङ्गसुखोचितानां प्राज्यै : पयोभि : परिवर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥६२॥
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता ।
दूरे वसन्तं शिशिरानिलैर्मां तरंगहस्तैरूपगूहतीव ॥६३॥
विरक्तसंध्याकपिशं परस्ताद्यतो रज : पार्थिवमुज्जिहीते ।
शङ्के हनूमत्कथितप्रवृत्ति : प्रत्यु ·तो मां भरत : ससैन्य : ॥६४॥
अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधु : ।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥६५॥
असौ पुरस्कृत्य गुरूं पदाति : पश्चादवस्थापितवाहिनीक : ।
वृद्धैरमात्यै : सह चीरवासा मामघ्र्यपाणिर्भरतोऽप्युपैति ॥६६॥
पित्रा विसृष्टां मदपेक्षया य : श्रियं युवाप्यङ्कगतामभोक्ता ।
इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥६७॥
एतावदुक्तवति दाशरथौ तदीयारू
मिच्छां विमानमधिदेवतया विदित्वा ।
ज्योतिष्पथादवतार सविस्मयाभिरू
रूद्वीक्षितं प्रकृतिभिर्भरतानुगाभि : ॥६८॥
तस्मात्पुर :सरबिभीषणदर्शनेन
सेवाविचक्षणहरीश्वरदत्तहस्त : ।
यानादवातरददूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन राम : ॥६९॥
इक्ष्वाकुवंशगुरवे प्रयत : प्रणम्य
स भ्रातरं भरतमघ्र्यपरिग्रहान्ते ।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ
तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥७०॥
श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च
प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत्प्रणवत : शुभदृष्टिपातैरू
र्वातानुयोगमधुराक्षरया च वाचा ॥७१॥
दुर्जातबन्धुरयमृक्षहरीश्वरो मे
पौलस्त्य एष समरेषु पुर :प्रहर्ता ।
इत्यादृतेन कथितौ रघुनन्दनेन
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥७२॥
सौमित्रिणा तदनु संससृजे स चैनरू
मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्यन्निवास्य भुजमध्यमुरस्थलेन ॥७३॥
रामाज्ञया हरिचमूपतयस्तदानीं
कृत्वा मनुष्यवपुरारूरूहुर्गजेन्द्रान् ।
तेषु क्षरत्सु बहुधा मदवारिधारा :
शैलाधिरोहणसुखान्युपलेभिरेमे ॥७४॥
सानुप्लव : प्रभुरपि क्षणदाचराणां
भेजे रथान्दशरथप्रभवानुशिष्ट : ।
मायाविकल्परचितैरपि ये तदीयैरू
र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभा : ॥७५॥
भूयस्ततो रघुपतिर्विलसत्पताकरू
मध्यास्त कामगति सावरजो विमानम् ।
दोषातनं बुधबृहस्पतियोगदृश्यरू
स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ॥७६॥
तत्रेश्वरेण जगतां प्रलयादिवोर्वीं
वर्षात्ययेन रूचमभ्रघनादिवेन्दो :।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रा -
त्प्रत्युद्ध âतां धृतिमतीं भरतो ववन्दे ॥७७॥
लङ्केश्वरप्रणतिभङ्गदृढव्रतं तरू
द्वन्द्यं युगं चरणयोर्जनकात्मजाया : ।
जेष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरू
रन्योन्यपावनमभूदुभयं समेत्य ॥७८॥
क्रोशार्धं प्रकृतिपुर :सरेण गत्वा
काकुत्स्थ : स्तिमितजवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यमार्य :
साकेतोपवनमुदारमध्युवास ॥७९॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ
दण्डकाप्रत्यागमनो नाम त्रयोदश : सर्ग : ॥