निर्दिष्टविषयस्नेह: स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाण: प्रदीपार्चिरिवोषसि ॥१॥
तं कर्णमूलमागत्य रामे श्रीन्र्यस्यतामिति c
कैकेयीशङ्कयेएवाह पलितच्छद्मना जरा ॥२॥
सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुति: ।
प्रत्येकंह्लादयांचक्रे कुल्येनोद्यानपादपान् ॥३॥
तस्याभिषेकसंभारे कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णै: पार्थिवाश्रुभि: ॥४॥
सा किलाश्वासिता चण्डी भत्र्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ ॥५॥
तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समा: ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥६॥
पित्रा दत्तं रूदन्राम: प्रा¨हीं प्रत्यपद्यत ।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥७॥
दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जना: ॥८॥
स सीतालक्ष्मणसख: सत्याद्गुरूमलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मन: ॥९॥
राजापि तद्वियोगार्त: स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभमन्यत ॥१०॥
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥११॥
अथानाथा: प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभि: ॥१२॥
श्रुत्वा तथाविधं मृत्युं कैकेयीतनय: पितु: ।
मातुर्न केवलं स्वस्या: श्रियोऽप्यासीत्परा¨ङ्मुख: ॥१३॥
ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयै: ।
तस्य पश्यन्ससौमित्रेरूदश्रुर्वसतिद्रुमान् ॥१४॥
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरो: ।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥१५॥
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
परिवेत्तारमात्मानं मेने स्वीकरणाद्भुव: ॥१६॥
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिण: पितु: ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥१७॥
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥१८॥
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुख: ।
मातु: पापस्य भरत: प्रायश्चित्तमिवाकरोत् ॥१९॥
रामोऽपि सह वैदेत्द्या वने वन्येन वर्तयन् ।
चचार सानुज: शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥२०॥
प्रभावस्तम्भितच्छायमाश्रित: स वनस्पतिम् ।
कदाचिदङ्के सीताया: शिश्ये किंचिदिव श्रमात् ॥२१॥
ऐन्द्र: किल नखैस्तस्या विददार स्तनौ द्विज: ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥२२॥
तस्मिन्नस्थदिषीकास्त्रं रामो रामावबोधित: ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन स: ॥२३॥
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुन: ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥२४॥
प्रययावातिथेयेषु वसन्नृषिकुलेषु स: ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्कर: ॥२५॥
बभौ तमनुगच्छन्ती विदेहाधिपते: सुता ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥२६॥
अनसूयातिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥२७॥
संध्याभ्रकपिशस्तस्य विराधो नाम राक्षस: ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रह: ॥२८॥
स जहार तयोर्मध्ये मैथिलीं लोकशोषण: ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥२९॥
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतु: ॥३०॥
पञ्चवट्यां ततो राम: शासनात्कुम्भजन्मन: ।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रि: प्रकृताविव ॥३१॥
रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥३२॥
सा सीतासंनिधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभव: ॥३३॥
कलत्रवानहं बाले कनीयांसं भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्ध: शशास ताम् ॥३४॥
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् ।
साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥३५॥
संरम्भं मैथिलीहास: क्षणसौम्यां निनाय ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधे: ॥३६॥
फलमस्योपहासस्य सद्य: प्राप्स्यसि पश्य माम् ।
मृग्या: परिभवो व्याघ्यामित्यवेहि त्वया कृतम् ॥३७॥
इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
रूपं शूर्पणखा नाम्न: सदृशं प्रत्यपद्यत ॥३८॥
लक्ष्मण: प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम् ॥३९॥
पर्णशालामथ क्षिप्रं विकृष्टासि: प्रविश्य स: ।
वैरूप्यपौनरूक्त्येन भीषणां तामयोजयत् ॥४०॥
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥४१॥
प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् ।
रामोपक्रममाचख्यौ रक्ष:परिभवं नवम् ॥४२॥
मुखावयवलूनां तां नैर्ऋता यत्पुरो दधु: ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥४३॥
उदायुधानात्पततस्तान्दृप्तान्प्रेक्ष्य राघव: ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥४४॥
एको दाशरथि: कामं यातुधाना: सहस्रश: ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तै: ॥४५॥
असज्जनेन काकुत्स्थ: प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचार: स दूषणमिवात्मन: ॥४६॥
तं शरै: प्रतिजग्राह खरत्रिशिरसौ च स: ।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययु: ॥४७॥
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभि: ।
आयुर्देहातिगै: पीतं रूधिरं तु पतत्रिभि: ॥४८॥
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददृशेऽन्न्यच्च कबन्धेभ्यो न किंचन ॥४९॥
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥५०॥
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥५१॥
निग्रहात्स्वसुराप्तानां वधाच्च धनदानुज: ।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥५२॥
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नित: ॥५३॥
तौ सीतावेषिणौ गृध्रं लूनपक्षमपश्यताम् ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभि: ॥५४॥
स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।
आत्मन: सुमहत्कर्म व्रणैरावेद्य संस्थित: ॥५५॥
तयोस्तस्मिन्नवीभूतपितृव्यापतिशोकयो: ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रिया: ॥५६॥
वधनिर्धूतशापस्य कबन्धस्योपदेशत: ।
मुमूच्र्छ सख्यं रामस्य समानव्यसने हरौ ॥५७॥
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्क्षिते ।
धातो: स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥५८॥
इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिता: ।
कपयश्चेरूरार्तस्य रामस्येव मनोरथा: ॥५९॥
प्रवृत्तावुपलब्धायां तस्या: संपातिदर्शनात् ।
मारूति: सागरं तीर्ण: संसारमिव निर्मम: ॥६०॥
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभि: परितेव महौषधि: ॥६१॥
तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपि: ।
प्रत्यु·तमिवानुष्णैस्तदानन्दाश्रुबिन्दुभि: ॥६२॥
निर्वाप्य प्रियसंदेशै: सीतामक्षवधोद्धत: ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रह: ॥६३॥
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।
हृदयं स्वयमायातं वैदेत्द्या इव मूर्तिमत् ॥६४॥
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलित: ।
अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम् ॥६५॥
श्रुत्वा राम: प्रियोदन्तं मेने तत्सङ्गमोत्सुक: ।
महार्णवपरिक्षेपं लङ्काया: परिखालघुम् ॥६६॥
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुत: ।
न केवलं भुव: पृष्ठे व्योम्नि संबाधवर्तिभि: ॥६७॥
निविष्टमुदधे: कूले तं प्रपाद बिभीषण: ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदित: ॥६८॥
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघव: ।
काले खलु समालब्धा: फलं बघ्नन्ति नीतय: ॥६९॥
स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शाङ्गिýण: ॥७०॥
तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलै: ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरै: ॥७१॥
रण: प्रववृते तत्र भीम: प्लवगरक्षसाम् ।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषण: ॥७२॥
पादपाविद्धपरिघ: शिलानिष्पिष्टमुद्गर: ।
अतिशस्त्रनखन्यास: शैलरूग्णमतंगज: ॥७३॥
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥७४॥
कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्रा¨त्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥७५॥
गरूडापातविश्लिष्टमेघनादास्त्रबन्धन: ।
दाशरथ्यो: क्षणक्लेश: स्वप्नवृत्त इवाभवत् ॥७६॥
ततो बिभेद पौलस्त्य: शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णत्द्ददय: शुचा ॥७७॥
स मारूतिसमानीतमहौषधिहतव्यथ: ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरै: ॥७८॥
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत् ॥७९॥
कुम्भकर्ण: कपीन्द्रेण तुल्यावस्थ: स्वसु: कृत: ।
रूरोध रामं शृङ्गीव टङ्कच्छिन्नमन:शिल: ॥८०॥
अकाले बोधितो भ्राता प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशित: ॥८१॥
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥८२॥
निर्ययावथ पौलस्त्य: पुनर्युद्धाय मन्दिरात् ।
अरावणमरामं वा जगदद्येति निश्चित: ॥८३॥
रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरंदर: ॥८४॥
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभि: ।
देवसूतभुजालम्बी जैत्रमध्यास्त राघव: ॥८५॥
मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैब्यमस्त्राण्यापु: सुरद्विषाम् ॥८६॥
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥८७॥
भुजमूर्धोरूबाहुल्यादेकोऽपि धनदानुज: ।
ददृशे स यथापूर्वो मातृवंश इव स्थित: ॥८८॥
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमारातिं बÍमन्यत ॥८९॥
तस्य स्फुरति पौलस्त्य: सीतासंगमशंसिनि ।
निचखानाधिकक्रोध: शरं सव्येतरे भुजे ॥९०॥
रावणस्यापि रामास्तो भित्वा हृदयमाशुग: ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥९१॥
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतो: ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥९२॥
विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥९३॥
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरै: ।
परस्परशरव्राता: पुष्पवृष्टिं न सेहिरे ॥९४॥
अय:शङ्कुचितां रक्ष: शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥९५॥
राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम् ॥९६॥
अमोघं संदधे चास्मै धनुष्येकधनुर्धर: ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥९७॥
तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
वपुर्महोरगस्येव करालफलमण्डलम् ॥९८॥
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् ।
स रावणशिर:पक्तिमज्ञातव्रणवेदनाम् ॥९९॥
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यत: ।
रराज रक्ष:कायस्य कण्ठच्छेदपरम्परा ॥१००॥
मरूतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो नातिविशस्वास पुन:संधानशङ्किनाम् ॥१०१॥
अथ मदगुरूपक्षैलोकपालद्विपानारू
मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय ।
उपनतमणिबन्धे मूर्घ्नि पौलस्त्यशत्रो:
सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥१०२॥
यन्ता हरे: सपदि संहृतकार्मुकज्यरू
मापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।
नामाङ्करावणशराङ्कितकेतुयष्टिरू
मूध्र्वं रथं हरिसहस्रयुजं निनाय ॥१०३॥
रघुपतिरपि जातवेदोविशुद्धां प्रगृत्द्य प्रियां
प्रियसुहृदि बिभीषणे संगमय्य श्रियं वैरिण: ।
रविसुतसहितेन तेनानुयात: ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढ: प्रतस्थे पुरीम् ॥१०४॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ
रावणवधो नाम द्वादश: सर्ग: ॥