संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|चतुर्थः स्कन्धः|
अथ षष्ठोऽध्यायः

चतुर्थः स्कन्धः - अथ षष्ठोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः ।

शुलपट्टिशनिस्त्रिंशगदापरिघमुद्गरैः ॥१॥

संछिन्नभिन्नसर्वांगाः सर्विक्सभ्या भयाकुलाः ।

स्वयम्भुवे नमस्कृत्य कात्सन्यैनैतन्नयवेदयन ॥२॥

उपलभ्य पुरैवैतद्भगवानब्जसम्भवः ।

नानायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥३॥

तदाकर्ण्य विभुः प्राह तेजोयसि कृतागसि ।

क्षेमाय तत्र सा भुयान्न प्रायेण बुभुषताम ॥४॥

अथापि युयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादुः ।

प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताडघ्रिपदमम ॥५॥

आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन ।

तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥६॥

नाहं न यज्ञो न च युयमन्ये ये देहभाजो मुनयश्च तत्त्वम ।

विदुः प्रमाणं बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत ॥७॥

स इत्थमदिश्य सुरानजस्तैः समन्वितः पितृभिः सप्रजेशैः ।

ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः ॥८॥

जन्मौषधितपोमन्त्रयोगसिद्धेर्नरेतरैः ।

जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥९॥

नानामणिमयैः श्रृगंर्नानाधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैर्नानामृगगणावृतैः ॥१०॥

नानामलप्रस्रवणैर्नानाकन्दरसानुभिः ।

रमणं विहरन्तीनां रमणैः सिद्धयोषिताम ॥११॥

मयुरकेकाभिरुतं मदान्धालिविभुर्च्छितम ।

प्लावितै रक्तकण्ठानां कुजितैश्च पतत्त्रिणाम ॥१२॥

आह्वयन्तमिवोद्धस्तैर्द्विजान कामदुर्घैर्द्रुमैः ।

व्रजन्तमिव मातंगैःर्गृजन्तमिव निर्झरैः ॥१३॥

मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम ।

तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥१४॥

चूतैः कदम्बैनीर्पैश्च नागपुन्नागचम्पकैः ।

पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥१५॥

स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः ।

कुब्जकैर्मलिकाभिश्च माधवीभिश्चमण्डितम ॥१६॥

पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिंगुभिः ।

भुर्जैरोषधिभिः पुगै राजपूगैश्च जम्बुभिः ॥१७॥

खर्जुराम्रातकाम्राद्यैः प्रियालमधुकेगुंदैः ।

द्रुमजातिभिन्यैश्च राजितं वेणुकीचकैः ॥१८॥

कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः ।

नलिनीषु कलं कुजत्खगवृन्दोपशोभितम ॥१९॥

मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैऋक्षशल्यकैः ।

गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥२०॥

कर्णान्त्रैकपदाश्चार्निर्जुष्ट वृकनाभिभिः ।

कदलीषण्डसंरुद्धनलिनीपुलिनाश्रियम ॥२१॥

पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया ।

विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥२२॥

ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम ।

वनं सौगन्धिकं चापि यत्र तन्नाम पंकजम ॥२३॥

नन्दा चालकनन्दा च सरितौ बाह्मतः पुरः ।

तीर्थपादपदाम्भो जरजसातीव पावने ॥२४॥

ययोः सुरस्त्रिय क्षत्तरवरुह्या स्वधिष्ण्यतः ।

क्रीडन्ति पुंसः सिंचन्त्यो विगाह्य रतिकर्शिताः ॥२५॥

ययोस्तत्स्नानविभ्रष्टनवकुडकुक्मपित्र्जरम ।

वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥२६॥

तारहेममहारत्‍नविमानशतसंकुलाम ।

जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिदघनम ॥२७॥

हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत ।

द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥२८॥

रक्तकण्ठखगानीकस्वरमण्डितषटपदम ।

कलहंसकुलप्रेष्ठं खरदण्डजलाशयम ॥२८॥

रक्तकण्ठखगानीकस्वरमण्डितषटपदम ।

कलहंसकुलप्रेष्ठं खरदण्डजलाशयम ॥२९॥

वनकुत्र्जरसंघृष्टहरिचन्द्रनवायुना ।

आधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥३०॥

वैदुर्यकृतसोपाना वाप्य उप्तलमालिनीः ।

प्राप्तः किम्पुरुषैर्दृष्ट्वा त आराद्ददृशुर्वटम ॥३१॥

स योजनशतोत्सेधः पादोनविटपायतः ।

पर्यकृताचलच्छायो निर्वीडस्तापवर्जितः ॥३२॥

तस्मिन्महायोगमये मुमुक्षुशरणे सुराः ।

ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम ॥३३॥

सनन्दनाद्यैर्महासिद्धैः शान्तै संशान्तविग्रहम ।

उपास्यमानं सख्या च भर्त्रा गुह्नाकरक्षसाम ॥३४॥

विद्यातपोयोगपथमास्थितं तमधीश्वरम ।

चरन्तं विश्वसुहृदं वात्सल्याल्लोकमंगलम ॥३५॥

लिंग च तापसाभीष्टं भस्मदण्डजटाजिनम ।

अंगेन संध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम ॥३६॥

उपविष्टं दर्भमय्यां बृस्स्यां ब्रह्मा सनातनम ।

नारदाय प्रवोचन्तं पृच्छते श्रृण्वतां सताम ॥३७॥

कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।

बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया ॥३८॥

तं ब्रह्मानिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम ।

सलोकपाला मुनयो मनुना माद्यं मनुं प्रात्र्जलयः प्रणेमुः ॥३९॥

स तुपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दितांगघ्रिः ।

उत्थाय चक्रे शिरसभिवन्दन मर्हत्तमः कस्य यथैव विष्णुः ॥४०॥

तथापरे सिद्धगणा महर्षिभि र्ये वै समन्तादनु नीललोहितम ।

नमस्कृतः प्राह शशाकंशेखरं कृतप्रणाम प्रहसन्निवात्मभुः ॥४१॥

ब्रह्मोवाच

जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः ।

शक्तेः शिवस्य च परं यत्तद्‌ब्रह्म निरन्तरम ॥४२॥

त्वमेव भगवन्नेतच्छिवशक्त्योः सरुपयोः ।

विशअं सृजासि पास्यत्सि क्रीडान्नुर्णपटोयथा ॥४३॥

त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सुत्रेण ससर्जिथाध्वरम ।

त्वयैव लोकेऽवसिताश्च सेतवो यान्ब्राह्मणाः श्रद्धधते धृतव्रताः ॥४४॥

त्वं कर्मणां मंगलं मंगलानां कर्तुःस्म लोकं तनुषे स्वः परंवा ।

अमंगलानां च तमिस्रमुल्बणं विपर्ययः केन तदेव कस्याचित ॥४५॥

न वै सतां त्वच्चरणार्पितात्मनां भूतेषू सर्वेष्वभिपश्यतां तव ।

भुतानि चात्मन्यपृथग्दिदृक्षतां प्रायेण रोषोऽभिभवेद्यथा पशुम ॥४६॥

पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्र्जोऽनिशम ।

परान दुरुक्तैर्वितुदन्त्यरुन्तुदास्तान्मा वधीद्दैववधान भवद्विधः ॥४७॥

यस्मिन यदा पुष्करनाभमायया दुरन्तयास्पृष्टधियः पृथग्दृशः ।

कुर्वन्ति तत्र ह्यानुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम ॥४८॥

भवांस्तु पुंसः परमस्य मायया दुरन्तयास्पृष्टमतिः समस्तदृक ।

तया हतात्मस्वनुकर्मचेत स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥४९॥

कुर्वध्वरस्योद्धरणं हतस्य भो स्त्वयासमात्पस्य मनो प्रजापतेः ।

न यत्र भागं तव भागिनो ददुः कुयाज्विनो येन मखो निनीयते ॥५०॥

जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः ।

भृगोः श्मश्रुणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत ॥५१॥

देवांना भग्नगात्राणामृत्विजां चाजुधाश्मभिः ।

भवतानुगृहीतानामाशु मन्योऽध्वरस्य वै ॥५२॥

एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।

यज्ञस्ते रुद्र भागेन कल्पतामद्य यज्ञहन ॥५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहिंतायां चतुर्थस्कन्धे रुद्रसात्वनं नामं षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP