मैत्रेय उवाच
अथादीक्षत राजा तु हयमेधशतेन सः ।
ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥१॥
तदभिप्रेत्य भगवान कर्मातिशयमात्मनः ।
शतक्रतुर्न ममृषे पृथोर्यज्ञमोहत्सवम ॥२॥
यत्र यज्ञपतिः साक्षाद्धगवान हरिरीश्वरः ।
अन्वभुअयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥३॥
अन्वितो ब्रह्माशर्वाभ्यां लोकपालैः सहानुगैः ।
उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः ॥४॥
सिद्धा विद्याधरा दैत्या दानवा गृह्याकादयः ।
सुनन्दनन्दप्रमुखाः पार्षद्रप्रवरा हरेः ॥५॥
कपिलो नारदो दत्तो योगेशाः सनकादयः ।
तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥६॥
यत्र धर्मदुघा भुमिः सर्वकामदुघा सती ।
दोग्धि स्माभीप्सितानर्थान यजमानस्य भारत ॥७॥
ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान ।
तरवो भुरिवर्ष्माणः प्रासुयन्त मधुच्युतः ॥८॥
सिन्धवो रत्ननिकारान गिरयोऽन्नं चतुर्विधम ।
उपायनमुपाजह्नूः सर्वे लोकाः सपालकाः ॥९॥
इतिक चाधोक्षजेशस्य पृथोस्तु परमोदयम ।
असुयन भगवानिद्र प्रतिघातमचीकरात ॥१०॥
चरमेणाश्वमेधेन यजमाने यजुष्पतिम ।
वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः ॥११॥
तमत्रिर्भगवनैक्षत्त्वरमाणं विहायसा ।
आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥१२॥
अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।
अन्वधावत संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत ॥१३॥
तं तादृशाकृतिं वीक्ष्य मेने धर्म शरीरिणम ।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुत्र्चति ॥१४॥
वधान्निवृत्तं तं भुयो हन्तवेऽत्रिरचोदयत ।
जहि यज्ञहनं तात महेन्द्रं विबुधाधमम ॥१५॥
एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा ।
अन्वद्रवदभिक्रुद्धो रावणं गृधराडिव ॥१६॥
सोऽश्वं रुपं च तद्धित्व तस्मा अन्तार्हितः स्वराट ।
वीरः स्वपशुमादाय पितृर्यज्ञमुपेयिवान ॥१७॥
तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः ।
नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥१८॥
उपसृज्य तमस्तीव्रं ; जहाराश्वं पुनर्हरिः ।
चषालयुपतश्छन्नो हिरण्यरशनं विभुः ॥१९॥
अत्रिः संदर्शयामास त्वरमाणं विहायसा ।
कपालखटवांडधरं वीरो नैनमबाधत ॥२०॥
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।
सोऽश्वं रुपं च तद्धित्वा तस्थावन्तर्हितः स्वराट ॥२१॥
वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत ।
तदवद्यं हरे रुपं जगृहृर्ज्ञानदुर्बलाः ॥२२॥
यानि रुपाणि जगृहे इन्द्रो हयजिहीर्षया ।
तानि पापस्य खण्डानि लिंग खण्डमिहोच्यते ॥२३॥
एवमिन्द्रे हरत्यश्चं वैन्ययज्ञजिघांसया ।
तदगृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम ॥२४॥
धर्म इत्युपधर्मेषु नग्नरक्तपतादिषु ।
प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्निषु ॥२५॥
तदभिज्ञाय भगवान पृथुः पृथुपराक्रमः ।
इन्द्राय कृपितो बाणमादत्तोद्यतकार्मुकः ॥२६॥
तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यांरंहसम ।
निवारयामासुरहो महामते न युज्यतेऽत्रान्ववधः प्रचोदितात ॥२७॥
वयं मरुत्वन्तमिहार्थनशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम ।
अयातयामोपहवैरनन्तरं प्रसह्या राजनं जुगवाम तेऽहितम ॥२८॥
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।
स्रुग्धास्तात्र्जुह्वतोऽभ्येत्य स्वयम्भुः प्रत्यषेधत ॥२९॥
न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः ।
यं जिघांसथक यज्ञेन यस्येष्टास्तनवः सुराः ॥३०॥
तदिदं पश्यत महद्धर्मव्यतिकरं द्विजाः ।
इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥३१॥
पृथुकीर्तेः पृथोर्भुयात्तर्ह्योकोअनशक्रतुः ।
अलं ते क्रतुभिः स्विष्टैर्यद्भवान्मोक्ज्षधर्मवित ॥३२॥
नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।
उभावपि ही भद्रं ते उत्तमश्लोकविग्रहौ ॥३३॥
मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा ।
यद्धयायतो दैवहत नु कर्तृ मनोऽतिरुष्ट विशते तमोऽन्धम ॥३४॥
क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।
धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः ॥३५॥
एभिरिन्द्रोपसंसृष्टेः पाखण्डैर्हारिभिर्जनम ।
ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगशुमुट ॥३६॥
भवान परित्रातुमिहावतीर्णो धर्म जनानां समयानुरुपम ।
वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य ॥३७॥
स त्वं विमृश्यास्य भवं प्रजापते संकल्पनं विश्वसृजां पिपीपृहि ।
ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्दपाखण्डपथं प्रभो जहि ॥३८॥
मैत्रेय उवाच
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः ।
तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥३९॥
कृतावभृथस्नानाय पृथवे भुरिकर्मणे ।
वरान्ददुस्ते वरदा ये तद्वर्हिषि तर्पिताः ॥४०॥
विप्राः सत्याशिषस्तृष्टाः श्रद्धया लब्धदक्षिणाः ।
आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ॥४१॥
त्वयाऽहुता महाबाहो सर्व एव समागताः ।
पुजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥४२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥१९॥