मैत्रेय उवाच
इत्थं पृथुमभिष्टुय रुषा प्रस्फुरिताधरम ।
पुनराहवनिर्भीता संस्तभ्यात्मानमात्मना ॥१॥
संनियच्छाभिभो मन्युं निबोध श्रावितं च मे ।
सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥२॥
अस्मिँल्लोकेऽथवामुष्मिनुभिस्तत्त्वदर्शिभिः ।
दृष्टा योगाः प्रयुत्काश्च पुंसां श्रेय प्रसिद्धये ॥३॥
तानातिष्ठाति यः सम्यगुपायान पूर्वदर्शितान ।
अवरः श्रद्धायोपेत उपेयान विन्दतेऽत्र्जसा ॥४॥
ताननादृत्य योऽविदानर्थानरभते स्वयम ।
तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुन पुनः ॥५॥
पुरा सृष्टा ह्योषधयो ब्रह्माणा या विशाम्पते ।
भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः ॥६॥
अपालितानादृता च भवद्भिर्लोकपालकैः ।
चोरीभुतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥७॥
नुनं ता वीरुधः क्षीणा मयि कालेन भुयसा ।
तत्र योगेन दृष्टेन भवानादातुमर्हति ॥८॥
वत्सं कल्पयं मे वीर येनाहं वत्सला तव ।
धोक्ष्ये क्षीरमयान कामाननुरुपं च दोहनम ॥९॥
दोग्धारं च महाबाहो भुतानां भुतभावना ।
अन्नमीप्सितमुर्जस्वद्भग्वान वात्र्छते यति ॥१०॥
समां च कुरु मां राजन्द्रेववृष्टं यथा पयः ।
अपर्तावापि भ्रद्रं ते उपावर्तेत मे विभो ॥११॥
इति प्रियं हितं वाक्यं भुव आदाय भुपति ।
वत्सं कृत्वां मनुं पाणावदुहत्सकलौषधीः ॥१२॥
तथा परे च सर्वत्र सारमाददते बुधाः ।
ततोऽन्ये च यथाकार्मं दुदुहः पृथुभविताम ॥१३॥
ऋषयो दुदुहुर्देवीमिन्दियेष्वथ सत्तम ।
वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥१४॥
कृत्वा वत्सं सुरगणा इंन्द्र सोममदूदुहन ।
हिरण्यमयेन पात्रेण वीर्यमोजो बलं पयः ॥१५॥
दैतेया दानवा वत्सं प्रह्यादमसुरर्षभम ।
विधायादुदुहन क्षीरमयः पात्रे सुरासवम ॥१६॥
गन्धर्वाप्सरसोऽधुक्षण पात्रे पद्ममये पयः ।
वत्सं विश्वावसुं कृत्वां गान्धर्व मधु सौभगम ॥१७॥
वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षण ।
आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥१८॥
प्रकल्प वत्सं कपिलं सिद्धां संकल्पनामयीम ।
सिद्धिं नभासि विद्यां च ये च विद्याधरादयः ॥१९॥
अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम ।
मयं प्रकल्पत वत्सं ते दुदुहुर्धारणामयीम ॥२०॥
यक्षरक्षांसि भुतानि पिशाचाः पिशिताशनाः ।
भुतेशवत्सा दुदुहुः कपाले क्षतजासवम ॥२१॥
तथाहयो दन्दशुकाः सर्पा नागाश्च तक्षकम ।
विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः ॥२२॥
पशवो यवसं क्षीरं वत्सं कुत्वा च गोवृषम ।
अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च द्रष्ट्रीणः ॥२३॥
क्रव्याद्राः प्राणिन क्रव्यं दुदुहःस्वे कलेवरे ।
सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥२४॥
वतवत्सा वनस्पतयः पृथग्रसमयं पयः ।
गिरयो हिमवद्वत्सा नानाधातुन स्वसानुषु ॥२५॥
सर्वे स्वमुख्यवत्सेनस स्वे स्वे पात्रे पृथक पयः ।
सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम ॥२६॥
एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः ।
दोहवत्सादिभेदेन क्षीरभेद करुद्वह ॥२७॥
ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः ।
दुहितत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥२८॥
चुर्णयन स्वधनुष्कोष्टा गिरिकुटानि राजराट ।
भुमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः ॥२९॥
अथास्मिन भगवान वैन्यः प्रजांनां वृत्तिदः पिता ।
निवासान कल्पया त्र्चक्रे तत्र तत्र यथार्हतः ॥३०॥
ग्रामान पुरः पत्तनानि दुर्गाणि विविधानि च ।
घोषान व्रजान सशिबिरानाकरान खेटखर्वटान ॥३१॥
प्राक्पृथोरिह नैवैषा पुरग्रामदिकल्पाना ।
यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥३२॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे पृथुविजयेऽष्टादशोऽध्यायः ॥१८॥