मैत्रेय उवाच
त एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम ।
सहस्त्रशीर्षपि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः ॥१॥
स वै धिया योगविपाकतीव्रया हृत्प्रद्यकोशे स्फुरितं तडित्प्रभम ।
तरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श ॥२॥
तद्दर्शनेनागतसाध्वसः क्षिताववन्दतांग विनमय्य दण्डवत ।
दृव्भ्यां प्रपश्यन प्रपिबन्निवार्भक श्चुब्मन्निवास्येन भुजैरिवाश्लिषन ॥३॥
स तं विवक्षन्तमतद्विदं हरिर्ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः ।
कृतात्र्जालिं ब्रह्मामयेन कम्बुना पस्पर्श बालं कॄपया कपोले ॥४॥
स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः ।
तं भक्तिभावोऽभ्यगृणादसत्वरम परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥५॥
ध्रुव उवाच
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरः स्वधाम्रा ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन प्राणान्नमो भगवते पुरुषाय तुभ्यम ॥६॥
एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद्विभासि ॥७॥
त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्य शरणं तव पादमुलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥८॥
नुनं विमुष्टमतयस्तव मायया ते येत्वां भवात्पयविमोक्षणमन्यहेतोः ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजं निरयेऽपिनृणाम ॥९॥
या निर्वृतिस्तनुभृतां तव पादपद्मध्यानाद्भवज्जनकाथाश्रवणेन वा स्यात ।
सा ब्रह्माणि स्वमहिमन्यपि नाथ मा भुत किं त्वन्तकासिलुलितात्पततां विमानात ॥१०॥
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसंगो भुयादनन्त महताममलाशयानाम ।
येनात्र्जलोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवदगुणकथामृतपानमत्तः ॥११॥
ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृदगृहवित्तदाराः ।
ये त्वज्बनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसंगः ॥१२॥
तिर्यंनगाद्विजसरीसृपदेवदैत्य मर्त्यादिभिः परिचितं सदसद्विशेषम ।
रुपं स्थविष्ठमज ते महदाद्यनेकं नातः परं परम वोद्मि न यत्र वादः ॥१३॥
कल्पान्त एतदखिलं जठरेण गृह्णन शेते पुमान स्वदुगनन्तसखस्तदके ।
यन्नभिसिन्धुरुहकात्र्चनलोकपद्म गर्भे द्युमान भगवते प्रणतोऽस्मि तस्मै ॥१४॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कुटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।
यदबुद्धय्तवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥१५॥
यस्मिन विरुद्धगतयो ह्यनिशों पतन्ति विद्याअयो विविधशक्तया आनुपूर्व्यात ।
तदब्रह्मा विश्वभवमेकमनन्तमाद्य मानन्दमात्रमविकारमहं प्रपद्ये ॥१६॥
सत्याऽऽशिषो ही भगवंस्तव पादपद्ममाशीस्तथानुभजतः पुरुषार्थमुर्तेः ।
अप्येवमर्य भगवान परिपाति दीनान वाश्रेव वत्सकमनुग्रहकातरोऽस्मान ॥१७॥
मैत्रेय उवाच
अथाभिष्टुत एवं वै सत्संकल्पेन धीमता ।
भृत्यानुरक्तो भगवान प्रतिनन्द्येदमब्रवीत ॥१८॥
श्रीभगवानुवाच
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥१९॥
नान्यैरधिष्ठितं भद्र यदभ्राजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम ॥२०॥
मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम ।
धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।
चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥२१॥
प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।
षटत्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥२२॥
त्वदभ्रातर्युत्तमे नष्टे मृगयायं तु तन्मनाः ।
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥२३॥
इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।
भुक्त्वा चेहशिषः सत्या अन्ते मां संस्मरिष्यसि ॥२४॥
ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम ।
उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥२५॥
मैत्रेय उवाच
इत्यर्चितः स भगवानतिदिश्यात्मनः पदम ।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥२६॥
सोऽपि संकल्पजं विष्णोः पादसेवोपसादितम ।
प्राप्य संकल्पनिर्वाणं नातिप्रीतोऽभ्यागात्पुरम ॥२७॥
विदुर उवाच
सुदुर्लभं यत्परमं पदं हरे र्मायाविनस्तच्चरणार्चनार्जितम ।
लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित ॥२८॥
मैत्रेय उवाच
मातुः सपत्न्या वाग्बाणैर्हिदि विद्धस्तु तान स्मरन ।
नैच्छन्मुक्तिपतेर्मुक्तिं तस्मत्तापमुपेयिवान ॥२९॥
ध्रुव उवाच
समाधिना नैकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः ।
मासैरहं षडभिरमुष्य पादयो श्छायामुपेत्यापगतः पृथमतिः ॥३०॥
अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।
भवच्छुदः पादमुलं नत्वाऽयाचे यदन्तवत ॥३१॥
मतिर्विदुषिता देवैः पतद्भिरसहिष्णुभिः ।
यो नरदवचस्तथ्यं नाग्रहिषमसत्तमः ॥३२॥
दैवीं मायामुपाश्रित्य प्रसुत्प इव भिन्नदृक ।
तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥३३॥
मयैत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।
प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम ।
भवच्छिदमयाचेंऽहं भवं भाग्यविवर्जितः ।३४॥
स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत ।
ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥३५॥
मैत्रेय उवाच
न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः ।
वात्र्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनः समृद्धयः ॥३६॥
आकर्ण्यात्मजमायन्तं सम्प्ररेत्य यथाऽऽगतम ।
राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥३७॥
श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः ।
वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम ॥३८॥
सदश्वं रथमारुह्या कार्तस्वरपरिष्कृ तम ।
ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥३९॥
शंखदुन्दुभिनादेन ब्रह्माघोषेण वेणुभिः ।
निश्चक्राम पुरात्तुर्णमात्मजाभीक्षणोत्सुकः ॥४०॥
सुनीतिः सुरुचिश्चास्य महिष्यौ स्वक्मभुषिते ।
आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मुतुः ॥४१॥
तं दृष्टोपवनाभ्याश आयान्तं तरसा रथात ।
अवरुह्या नृपस्तुर्णमासाद्य प्रेमविह्ललः ॥४२॥
परिरेभेऽगंज दोर्भ्या दीर्घोत्कण्ठमनाः श्वसन ।
विष्वक्सेनांड्घ्रिसंस्पर्शहतशेषाघबन्धनम ॥४३॥
अथाजिघ्रन्मुहुर्मुध्रि शीतैर्नयनवारिभिः ।
स्नापयामास तनयं जातोद्दाममनोरथः ॥४४॥
अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमान्त्रितः ।
ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥४५॥
सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम ।
परिष्वज्याह जीवोति बाष्पगद्गदया गिरा ॥४६॥
यस्य प्रसन्नो भगवान गुणैमैत्र्यादिभिर्हरिः ।
तस्मै नमन्ति भुतानि निम्रमाप इव स्वयम ॥४७॥
उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्ललौ ।
अंगसंगादुप्तुलकावस्रौघं मुहुरुहतुः ॥४८॥
सुनीतिरस्य जननी प्राण्येभ्योऽपि प्रिय सुतम ।
उपगृह्वा जहावाधिं तदंगस्पर्शनिवृता ॥४९॥
पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलै शिवैः ।
तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥५०॥
तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।
प्रतिलब्धाश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥५१॥
अभर्चितस्त्वया नुनं भगवान प्रणतार्तिहा ।
यदनुध्यायिनो धीरा मृत्युं जिग्युः सदुर्जयम ॥५२॥
लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।
आरोप्य करिणीं हृष्टः स्तुयमानोऽविशप्तुरम ॥५३॥
तत्र तत्रोपसंक्लऋत्पैर्लसन्मकरतोरणैः ।
सवृन्दैः कदलीस्तम्भैः पुगपोतैश्च तद्विधैः ॥५४॥
चुतपल्लववासः स्रंगमुक्तादाम्विलम्भिभिः ।
उपस्कृतं प्रतिद्वरमपां कुम्भेः सदीपकैः ॥५५॥
प्राकरैर्गोपुरागारैः शातकुम्भपरिच्छदैः ।
सर्वतोऽलंकृतं श्रीमद्विमानशिखरद्युभिः ॥५६॥
मृष्टच त्वरारथ्याट्टमार्गं चन्दनचर्चितम ।
लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम ॥५७॥
ध्रुवाय पथि दॄष्टाय तत्र तत्र पुरस्त्रिया ।
सिद्धार्थाक्षतदध्यम्भुद्र्वापुष्पफलानि च ॥५८॥
उपजह्रुः प्रयुत्र्जाना वात्सल्यादाशिषः सती ।
श्रृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः ॥५९॥
महामणि व्रातमये स तस्मिन भवनोत्तमे ।
लालितो नितरां पित्रा न्यवसद्दिवि देववत ॥६०॥
पयः फेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।
आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥६१॥
यत्र स्फटिककुड्येषु महामारकतेषु च ।
मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥६२॥
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।
कुजद्विहंगमिथुनैर्गायन्मत्तमधुव्रतैः ॥६३॥
वाप्यो वैदुर्यसोपानाः पद्मोप्तलकुमद्वतीः ।
हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः ॥६४॥
उत्तानपादो राजर्षिः प्रभावं तनयस्य तम ।
श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम ॥६५॥
वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम ।
अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम ॥६६॥
आत्मानं च प्रवयसमाकलय्य विशाम्पतिः ।
वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम ॥६७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थास्कन्धे ध्रुवराज्यभिषेकवर्णनं नाम नवमोऽध्यायः ॥९॥