प्राचीनबर्हिरुवाच
भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते ।
कवयस्तद्विजनान्ति न वयं कर्ममोहिताः ॥९॥
नारद उवाच
पुरुषं पुरत्र्जनं विद्याद्यद व्यनक्त्यात्मनः पुरम ।
एकद्वित्रिचतुप्ष्पादं बहुपादपपादकम ॥२॥
योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः ।
यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ॥३॥
यदा जिघृक्षण पुरुष कात्स्न्यैन प्रकृतेर्गुणान ।
नवद्वारं द्विहस्तांर्घ्रिं तत्रामनुत साध्विति ॥४॥
बुद्धीं तु प्रमदां विद्यान्ममाहमिति यत्कृतम ।
यामधिष्ठाम देहेऽस्मिन पुमान भुडक्तेऽक्षभिर्गुणान ॥५॥
सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम ।
सख्यस्तदवृत्तयः प्राणः पंचवृत्तिर्यथोरगः ॥६॥
बृहद्वलं मनो विद्यादुभयेन्द्रियनायकम ।
पंचाला पंच विषया यन्मध्ये नवखं पुरम ॥७॥
अक्षिणी नासिके कर्णों मुखं शिश्रगुदाविति ।
द्वे द्वे द्वारौ बहिर्याति यस्तादिन्द्रियसंयुतः ॥८॥
अक्षिणी नासिके आस्यमिति पंच पुर कृताः ।
द्क्षिणा दक्षिनः कर्ण उत्तरा चोत्तर स्मृतः ॥९॥
पंश्चिमे इत्यधोद्वारौ गुदं शिस्रमिहोच्यते ।
खद्योताऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।
रुपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥१०॥
नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।
घ्राणोऽवधुय्तो मुख्यास्यं विपयो वाग्रसविद्रसः ॥११॥
आपणो व्यवहारोऽत्र चित्रमन्धो बहुदनम ।
पितृहुर्दक्षिनः कर्ण उत्तरो देवहुः स्मृतः ॥१२॥
प्रवृत्तं च निवृत्तं च शास्त्रं पंचालसंज्ञितम ।
पितृयानं देवयानं श्रोत्राच्छुतधरादव्रजेत ॥१३॥
आसुरी मेढ्रमर्वागद्वार्व्यवायो ग्रामिणां रतिः ।
उपस्थो दुर्मदः प्रोक्तो निरृतिर्गुद उच्यते ॥१४॥
वैशसं नरकं पायुर्लब्धकोऽन्धो तु मे श्रुणु ।
हस्तपादौ पुमांस्ताभ्या युक्तो याति करोति च ॥१५॥
अन्तः पुरं च हृदयं विषचिर्मन उच्यते ।
तत्र मोहं प्रसादं वा हर्ष प्राप्तोति तदगुणैः ॥१६॥
यथा यथा विक्रियते गुणक्तो विकरोति वा ।
तथा तथोपद्रष्टाऽऽत्मा तदवृत्तीरनुकार्यते ॥१७॥
देहो रथस्त्विन्द्रियाश्वः संवत्सरयोऽगतिः ।
द्विकर्मचक्रस्त्रिगुनध्वजः पंचासुबन्धुरः ॥१८॥
मनोरश्मिर्बुद्धिसुतो हन्नीडो द्वन्द्वकुबरः ।
पंचेन्द्रियार्थप्रक्षेपः सप्तधातुवरुथकः ॥१९॥
आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।
एकादशेन्द्रियचमुः पंचसुनाविनोदकृत ॥२०॥
संवत्सरश्चण्डवेगः कालो येनोपलक्षितः ।
तस्याहानीह गन्धवी गन्धर्वो रात्रयः स्मृताः ।
हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम ॥२१॥
कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति ।
स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥२२॥
आधयो व्याधयस्तस्य सैनिका यवानाश्चराः ।
भुतोपसार्गाशुरय प्रज्वारो द्विविधो ज्वरः ॥२३॥
एवं बहुविधैर्दुः खैर्दैवभुतात्मसम्भवैः ।
क्लिश्यमानः शतं वर्ष देहे देही तमोवृतः ॥२४॥
प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निगुणः ।
शेते कामलवान्ध्यायन्ममाहमिति कर्मकृतः ॥२५॥
यदाऽऽत्मानविज्ञाय भगवन्तं परं गुरुम ।
पुरुषस्तु विषज्जेतु गुणेषु प्रकृतेः स्वदुक् ॥२६॥
गुणाभिमानी स सदा कर्माणि कुरुतेऽवशः ।
शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥२७॥
शुक्लात्प्रकाशभुयष्ठाँल्लोकानाप्रोति कर्हिचित ।
दुःखोदर्कान क्रियायासांस्तमः शोकोत्कटान क्वचित ॥२८॥
क्वचित्पुमान क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः ।
देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः ॥२९॥
क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम ।
चरन विन्दति यद्दिष्ट दण्डमोदनमेव वा ॥३०॥
तथा कामाशयो जीव उच्चावचपथा भ्रमन ।
उपर्यथो वा मध्ये वा यति दिष्टं प्रियाप्रियम ॥३१॥
दुःखेष्वेकतरेणापि दैवभुतात्महेतुषु ।
जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥३२॥
यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन ।
तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियः ॥३३॥
नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम ।
द्वयं ह्याविद्योपसृतं स्वप्रे स्वप्र इवानघ ॥३४॥
अर्थे ह्याविद्यमानेऽपि संसृतिर्न निवर्तते ।
मनसा लिंगरुपेण स्वप्रे विचरतो यथा ॥३५॥
अथात्मनोऽर्थ भुतस्य यतोऽनर्थपरम्परा ।
संसृतिस्तदव्यवच्छेदो भक्त्या परमया गुरौ ॥३६॥
वासुदेवे भगवति भक्तियोगः समाहितः ।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥३७॥
सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः ।
श्रृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥३८॥
यत्र भागवता राजन साधवो विशदाशयाः ।
भगवदगुणानुकथन श्रवणव्यग्रचेतसः ॥३९॥
तस्मिन्मन्मुखरिता मधुभिच्चरित्र पीयुषशेषसरितःपरितः स्रवन्ति ।
ता ये पिबन्त्यवितृषो नृप गाढकर्णैस्तान्न स्पृशन्त्यशनतृडभयशोकमोहाः ॥४०॥
एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।
न करोति हरेर्नुनं कथामृतनिधौ रतिम ॥४१॥
प्रजापतिपतिः साक्षाद्भगवान गिरिशो मनुः ।
दक्षादयः प्रजध्यक्षा नैष्ठिकाः सनकादयः ॥४२॥
मरीचरित्र्यांगिरसो पुलस्त्यः पुलहः क्रतुः ।
भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मावादिनः ॥४३॥
अद्यापि वाचस्पतयस्त्पोविद्यासमाधिभिः ।
पश्यन्तोऽपि न पश्यन्ति पश्यन्त परमेश्वरम ॥४४॥
शब्दब्रह्माणि दुष्पारे चरन्त उरुविस्तरे ।
मन्त्रालिगैर्व्यवच्छिन्नं भजन्तो न विदुः परम ॥४५॥
यदा यमनुगृह्णाति भगवानात्मभावित ।
स जहाति मतिं लोके वेद परिनिष्ठिताम ॥४६॥
तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु ।
मार्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥४७॥
स्वं लोक न विदुस्ते वै यत्र देवो जनार्दनः ।
आहुर्धूम्राधियो वेदं सकर्मकमतद्विदः ॥४८॥
आस्तीर्य दर्भैः प्रागर्ग्रैः कात्स्न्यैन क्षितिमण्डलम ।
स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम ।
तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥४९॥
हरिर्देहभॄतामात्मा स्वयं प्रकृतिरीश्वरः ।
तत्पादमुलं शरणं यतः क्षेमो नृणामिह ॥५०॥
स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।
इति वेद स वै विद्वान यो विद्वान स गुरुर्हरिः ॥५१॥
नारद उवाच
प्रश्न एवं हि संछिन्नो भवतः पुरुषर्षभ ।
अत्र मे वदतो गुह्नां निशामय सुनिश्चितम ॥५२॥
क्षुद्रचरं सुमनसां शरणे मिथित्वा रक्तं षंडघ्रिगणसामसु लुब्धकर्णम ।
अग्रे वृकानसुतृपोऽविगणय्या यान्तं पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम ॥५३॥
( अस्यार्थ :)
सुमनः समधर्मणां स्त्रीणां शरण आश्रमे पुष्प
मधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं
कामसुखलवं जैह्वयौपस्थादि विचिन्वन्तं मिथुनीभ्य
वदतिमनोहरवनितादिजनालापेष्वतित्तरामतिप्रलोभितकर्णमग्रे
व्रुकयुथवदात्मन आयुर्हरतोऽहोरात्रान्तान काललवविशेषानविगणय्य
गृहेषु विहरन्तं पृष्ठत एव परोक्शमनूप्रवृत्तो लुब्धकः कृतान्तोऽन्तः
शरेण यमिह पराविध्यति तमिममात्मानमहो राजन भिन्नहृदयं द्रष्टुमर्हसीति ॥५४॥
स त्वं विचक्ष्य मृगचेशःटितमात्मनोऽन्त श्चित्नं नियच्छ हृदि कर्णधुनीं च चित्ते ।
जह्यांगनाश्रममसत्तमयुथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥५५॥
राजोवाच
श्रुतुमन्वीक्षितं ब्रह्मान भगवान यदभाषत ।
नैतज्जानन्त्युपाध्यायाः किं न ब्रुयुर्विदुर्यदि ॥५६॥
संशयोऽत्र तु मे विप्र संछिन्नस्तत्कृतो महान ।
ऋषयोऽपि हि मुह्यान्ति यत्र नेन्द्रियवृत्तयः ॥५७॥
कर्माण्यारभते येन पुमानिह विहाय तम ।
अमुत्रान्येन देहेन युष्टानि स यदश्रुते ॥५८॥
इति वेदविदां वादः श्रुयते तत्र तत्र ह ।
कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकशते ॥५९॥
नारद उवाच
येनैवारभते कर्म तेनैवामुत्र तत्पुमान ।
भुडक्ते ह्याव्यवधानेन लिंगेन मनसा स्वयम ॥६०॥
शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा ।
कर्मात्मन्याहितं भुडक्ते तादृशेनेतरेण वा ॥६१॥
ममैते मनसा यद्यदसावहमिति ब्रुवन ।
गृह्नीयात्तत्पुमान राद्धं कर्म येन पुनर्भवः ॥६२॥
यथानुमीयते चित्तमुभयैरिन्द्रिये यहितैः ।
एवं प्रगदेहजं कर्म लक्ष्यते चित्त्वृत्तिभिः ॥६३॥
नानुभुतं क्व चानेन देहेनादृष्टमश्रुतम ।
कदाचिदुपलभ्येत यद्रुपं यादृगात्मनि ॥६४॥
तेनास्य तादृशं राजँल्लिगिंनो देहसम्भवम ।
श्रद्धत्स्वाननुभुतोऽर्थो न मनः स्प्रष्टुमर्हति ॥६५॥
मन एव मनुष्यस्य पूर्वरुपाणि शंससि ।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥६६॥
अदृष्यमश्रुतं चात्र क्वचिन्मनसि दृश्यते ।
यथा तथानुमन्तव्यं देशकालक्रियाश्रयम ॥६७॥
सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः ।
आयान्ति वर्गशो यान्ति सर्वे समनसो जनाः ॥६८॥
सत्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।
तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥६९॥
नाहं ममेति भावोऽयं पुरुषो व्यवधीयते ।
यावद बुद्धीमनोऽक्षार्थगुणव्युहो ह्यानदिमान ॥७०॥
सुप्तिमूच्छोपतापेषु प्राणायनविघ्राततः ।
नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥७१॥
गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।
लिंग न दृश्यते युनः कुह्वां चन्द्रमसो यथा ॥७२॥
अर्थे ह्याविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्रेऽनर्थागमो यथा ॥७३॥
एवं पंचविधं लिंग त्रिवृत षोडशविस्तृतम ।
एष चेतनया युक्तो जीव इत्यभिधीयते ॥७४॥
अनेन पुरुषो देहानुपादत्ते विमुत्र्चति ।
हर्ष शोकं भयं दुःखं सुखं चानेन विन्दति ॥७५॥
यथा तृणजलुकेयं नापयात्यपयाति च ।
न त्यजेन्म्रियमानॊपि प्राग्देहाभिमतिं जनः ॥७६॥
यावदन्यं न विन्देत व्यवधानेन कर्मणाम ।
मन एव मनुष्येन्द्र भुतांनां भवभावनम ॥७७॥
यदाक्षैश्चारितान ध्यायन कर्माण्यचिनुतेऽसकृत ।
सति कर्मण्यविद्यायां बन्धः कर्मण्यानत्मनः ॥७८॥
अतस्तदपवादार्थ भज सर्वात्मना हरिम ।
पश्यंस्तदात्मकं विश्वं स्थित्युप्तत्यप्यया यतः ॥७९॥
मैत्रेय उवाच
भागवतमुख्यो भगवान्नरदो हंसक्योर्गतिम ।
प्रदर्श्य ह्यामुमान्त्र्य सिद्धलोकं ततोऽगमत ॥८०॥
प्रचीनबर्हि राजर्षिः प्रजासर्गाभिरक्षणे ।
आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम ॥८१॥
तत्रैकाग्रमना वीरो गोविन्दचरणम्बुजम ।
विमुक्तसंगोऽनुभजन भक्त्या तत्साम्यतामगात ॥८२॥
एतदध्यात्म ,अपारोक्ष्यं गीतं देवर्षिणानघ ।
यः श्रावयेद्यः श्रृणुयात्स लिंगेन विमुच्यते ॥८३॥
एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिः सुतमात्मशौचम ।
यः कीर्तमानमधिगच्छति पारमेष्ठ्यं नास्मिनं भवे भ्रमति मुक्तसमस्तबन्धः ॥८४॥
अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम ।
एवं स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥८५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्राचीनबर्हिर्नादसंवादो नामैकोनत्रिंशोऽध्यायः ॥२९॥