संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|चतुर्थः स्कन्धः|
अथ चतुर्विशोऽध्यायः

चतुर्थः स्कन्धः - अथ चतुर्विशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

विजिताश्वोऽधिराजाऽऽसीत्पृथुपुत्रः पृथुश्रवाः ।

यवीयोभ्योऽददात्कष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥१॥

हर्यक्षायादिशत्प्राचीं धूर्मकेशाय दक्षिणाम ।

प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥२॥

अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः ।

अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम ॥३॥

पावकः पवमानश्च शुचिरित्यग्नयः पुरा \

वसिष्ठशापादुप्तन्नाः पुनर्योगगतिं गताः ॥४॥

अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।

य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान ॥५॥

राज्ञां वृत्तिं करादानदण्डशुक्लदिदारुणाम ।

मन्यमानो दीर्घसत्रव्याजेन विससर्ज ह ॥६॥

तत्रापि हंसं पुरुषं परमात्मानमात्मदृक ।

यजंस्तल्लोकतामाप कुशलेन समाधिना ॥७॥

हविर्धानाद्धविर्धानी विदुरासुत षट सुतान ।

बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम ॥८॥

बर्हिषत सुमहाभागो हाविर्धानिः प्रजापतिः ।

क्रियाकाण्डेषु निष्णातो योगेषु च कुरुद्वह ॥९॥

यस्येदं देवयजनमनु यज्ञं वितन्वतः ।

प्राचीनाग्नैः कुशैरासीदस्तुतं वसुधातलम ॥१०॥

सामुद्रीं देवदेवोक्तामुपयेमे शतद्गुतिम ।

यां वीक्ष्य चारुसर्वांगीं किशोरीं सुष्ठवलंकृताम ।

परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥११॥

विबुधासुरगन्धर्वमुनिसिद्धनरोरगाः ।

विजिताः सुर्यया दिक्षु कणयन्त्यैव नुपुरैः ॥१२॥

प्राचीनबर्हिषः पुत्रा शतद्रुत्यां दशाभवन ।

तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥१३॥

पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन ।

दशवर्णसहस्त्राणि तपसाऽर्चंस्तपस्पतिम ॥१४॥

यदुक्तं पथि दुष्टेन गिरिशेन प्रसीदता ।

तद्धयायन्तो जपन्तश्च पुजयन्तश्च संयताः ॥१५॥

विदुर उवाच

प्रचेतसां गिरित्रेणां यथाऽऽसीत्पथि संगमः ।

यदुताह हरः प्रतीस्तत्रो ब्रह्मान वदार्थवत ॥१६॥

संगमः खलु विप्रर्षे शिवनेह शरीरिणाम ।

दुर्लभो मुनयो दध्युरसंगाद्यमभीप्सितम ॥१७॥

आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।

शक्त्या युक्तो विचरित घोरया भगवान भवः ॥१८॥

मैत्रेय उवाच

प्रचेतसः पितृर्वाक्यं शिरसाऽऽदाय साधवः ।

दिशं प्रतींचीं प्रययुस्तपस्यादृतचेतसः ॥१९॥

समुद्रमुप विस्तीर्णमपश्यन सुमहत्सरः ।

महन्मन इव स्वच्छं प्रसन्नसलिलाशयम ॥२०॥

नीलरक्तोत्पलाम्भोजकह्वारेन्द्रीवराकरम ।

हंससारसचक्राह्वकारण्डवानिकजितम ॥२१॥

मत्तभ्रमरसौस्वर्यहृष्टरोमलतांगघ्रिपम ।

पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम ॥२२॥

तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम ।

विसिस्म्यु राजपुत्रास्ते मृदंगपणवाद्यनु ॥२३॥

तर्होव सरसस्तस्मान्निष्क्रामन्तं सहानुगम ।

उपगीयमानममरप्रवरं विबुधानुगैः ॥२४॥

तत्पहेमनिकायाभं शितिकण्ठं त्रिलोकाचनम ।

प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥२५॥

स तान प्रपन्नर्तिहरो भगवान्धर्मवत्सलः ।

धर्मज्ञानु शीलाम्पन्नान प्रीतः प्रीतानुवाच ह ॥२६॥

श्रीरुद्र उवाच

युयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम ।

अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम ॥२७॥

यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात ।

भगवन्तं वासुदेव प्रपन्नः स प्रियो हि मे ॥२८॥

स्वधर्मनिष्ठः शतजन्मभिः पुमान विरित्र्चतामेति ततः परं हि माम ।

अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥२९॥

अथ भागवत युयं प्रियाः स्थ भगवान यथा ।

न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित ॥३०॥

इदं विविक्तं जप्तव्यं पवित्रं मंगलं परम ।

निःश्रेयसकरं चापि श्रुयतां तद्वदामि वः ॥३१॥

मैत्रेय उवाच

इत्यनुक्रोशहृदयो भगवानाह तान शिवः ।

बद्धात्र्जलीन राजपुत्रान्नरायणपरो वचः ॥३२॥

श्रीरुद उवाच

जितं त आत्मविदधुर्य स्वस्तये स्वस्तिरस्तु मे ।

भवता राधासा राद्धं सर्वस्मा आत्मने नमः ॥३३॥

नमः पंकजनाभय भुतसुक्ष्मेन्द्रियात्मने ।

वासुदेवाय शान्ताय कुटस्थाय स्वरोचिये ॥३४॥

संगकर्षणाय सुक्ष्माय दुरन्तायान्तकाय च ।

नमो परमहंसाय पूर्णाय निभृतात्मने ॥३६॥

स्वर्गापवर्गद्वाराय नित्य शुचिषदे नमः ।

नमः परमहंसाय पुर्णाय निभृतात्मने ॥३६॥

स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।

नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥३७॥

नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।

तृप्तिदाय च जीवांनां नमः सर्वरसात्मने ॥३८॥

सर्वसत्वात्मदेहाय विशेषाय स्थवीयसे ।

नमस्त्रैलोक्यपालाय सहओजोबलय च ॥३९॥

अर्थलिंगाय नभसे नमोऽन्तर्बहिरात्मने ।

नमः पुण्याय लोकाय अमुष्मै भुरिवर्चसे ॥४०॥

प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।

नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥४१॥

नमस्त आशिषामीश मनवे कारणात्मने ।

नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।

पुरुषाय पुराणाय सांख्ययोगेश्वराय च ॥४२॥

शक्तित्रयसमेताय मीढुषेऽहंकृतात्मने ।

चेताअकुतिरुपाय नमो वाचोविभुतये ॥४३॥

दर्शनं नो दिद्रुक्षुणां देहि भागवतार्चितम ।

रुपं प्रियतमं स्वानां सरेन्द्रियगुणात्र्जनम ॥४४॥

स्निग्धप्रावृडघनश्यामं सर्वसौन्दर्यसंग्रहम ।

चार्वायतचतुर्बाहुं सुजातरुचिराननम ।४५॥

पद्मकोशपलाशाक्षं सुन्दरभु सुनासिकम ।

सुद्विजं सुकपोलास्यं समकर्णविभुषणम ॥४६॥

प्रीतिप्रहसितापांगमलकैरुपशोभितम ।

लसप्तंकजकित्र्जकदुकुलं मृष्टकुण्डलम ॥४७॥

स्फ्रत्किरीटवलयहारनुपुरेखलम ।

शंखचक्रगदापद्ममालामण्युत्तमर्द्दिमत ॥४८॥

सिंहस्कन्धत्विषो बिभ्रत्सौ भगग्रीवकौस्तुभम ।

श्रियानपायिन्या क्षिप्तनिकशाश्मोरसोल्लसत ॥४९॥

पुररेचकसंविग्रव्लिवल्गुलोदरम ।

प्रतिसंक्रामयद्विश्चं नाभ्याऽऽवर्तगभीरया ॥५०॥

श्यमश्रोण्याधिरोचिष्णुदुकुलस्वर्णमेखलम ।

समचार्वडघ्रिजंघोरुनिम्रजानुसुदर्शनम ॥५१॥

पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोन्तऽरघं विधुन्वता ।

प्रदर्शन स्वीयमास्तसाध्वस्तं पदं गुरो मार्गगुरुस्तमोजुषाम ॥५२॥

एतद्रुपमनुध्येयमात्मशुद्धिमभीप्सताम ।

यद्भक्तियोगीऽभयदः स्वधर्ममनुतिष्ठताम ॥५३॥

भवान भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम ।

स्वाराज्यस्याप्यभितम एकान्तेनात्मविद्गतिः ॥५४॥

तं दुराराध्यामाराध्य सतामपि दुरापया ।

एकान्तभक्त्या को वात्र्छेत्पादमुलं विना बहिः ॥५५॥

यत्र निर्विष्टमरण कृतान्तो नाभिमन्यते ।

विश्वं विध्वंसयन वीर्यशौर्यविस्फूर्जितभ्रुवा ॥५६॥

क्षणार्धेनापि तुलये न स्वर्ये नापुनर्भवम ।

भगवत्सगिंसंगस्य मर्त्यांनां किमुताशिषः ॥५७॥

अथानघाघ्रेस्तव कीर्तितीर्थयोरन्‍तर्बहि स्नानाविधुपपात्मनाम ।

भुतेष्वनुक्रोशसुसत्त्वशीलनीं स्यत्संगमोऽनुग्रह एष नस्तव ॥५८॥

न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत ।

यद्भक्तियोगानुगृहीतमत्र्जसा मुनिर्विचष्टे ननु तत्र ते गतिम ॥५९॥

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभति यत ।

तत त्वं ब्रह्मा परंज्योतिराकाशमिव विस्तृतम ॥६०॥

यो माययेदं पुरुरुपयासृजद बिभर्ति भुयः क्षपयत्यविक्रियः ।

यद्भेदबुद्धीः सदिवात्मदुःस्थया तमात्मतन्त्रं भगवन प्रतीमहि ॥६१॥

क्रियाकलपैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये ।

भुतेन्द्रियान्तः करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥६२॥

त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजः सत्त्वतमो विभिद्यते ।

महानहं खं मरुदग्निवार्धराः सुरर्षयो भुतगया इदं यतः ॥६३॥

सृष्टं स्वशक्त्येदमनुप्रविष्ट्श्चतुर्विधं पुरमात्मांशकेन ।

अथो विदुस्तं पुरुषं सन्तमन्त र्भुंक्ते हृषीकैंर्मधु सारघं यः ॥६४॥

स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः ।

भुतानि भ्तैरनुमेयतत्वो घनवलीर्ययुरिवविषह्यः ॥६५॥

प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्भलोभं विषयेषु लालसम ।

त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाहुमन्तकः ॥६६॥

कास्त्वप्तदब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः ।

विशंकयास्मदगुरुर्र्चति स्म पद विनोपपत्तिं मनवश्चतुर्दश ॥६७॥

अथ त्वमसि नो ब्रह्मान परमात्मन विपश्चिताम ।

विश्व रुद्रभयध्वस्तमकुतश्चिद्भय गतिः ॥६८॥

इदं जपतं भद्रं वो विशुद्धा नृपनन्दनाः ।

स्वधर्ममनुतिष्ठान्तो भगवत्यर्पिताशयाः ॥६९॥

तमेवात्मानमात्मस्थं सर्वभुतेष्ववस्थितम ।

पुजयध्वं गुणन्तश्च ध्यायन्तश्चासकृद्धरिम \\७०॥

योगादेशमुपासाद्य धारयन्तो मुनिव्रताः \
समाहिताधियः सर्व एतदभ्यसतादृताः ॥७१॥

इदमाह पुरास्माकं भगवान विश्वसृक्पतिः ।

भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम ॥७२॥

ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।

अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥७३॥

अथेदं नित्यदा युक्तो जपन्नवहितः पुमान ।

अचिराच्छ्रेय आप्रोति वासुदेवपरायणः ॥७४॥

श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम ।

सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम ॥७५॥

य इमं श्रद्धया युक्तो मद्गींत भगवत्स्तवम ।

अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥७६॥

विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम ।

मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात ॥७७॥

इंदं यः कल्य उथाय प्रात्र्जलिः श्रद्धायन्वितः ।

श्रृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥७८॥

गीतं मयेदं नरदेवनन्दनाः परस्य पुंस परमात्मनः स्तवम ।

जपन्त एकाग्रधियस्तपि मह च्चरध्वमन्ते तत आप्स्यथेप्सितम ॥७९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्हे रुद्रगीतं नाम चतुर्विशोंऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP