मैत्रेय उवाच
इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।
तुष्टुवुस्तुष्तमनसस्तद्वागमृतसेवया ॥१॥
नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया ।
वेनांगजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ॥२॥
अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः ।
यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥३॥
एष धर्मभुतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन ।
गोप्ता च धर्मसेतुनां शास्ता तत्परिपन्थिनाम ॥४॥
एष वै लोकपालांना बिभत्यैकस्तनौ तनुः ।
काले काले यथाभागं लोकयोरुभयोर्हितम ॥५॥
वसु काल उपादत्ते काले चायं विमुत्र्चति ।
समः सर्वेषु भुतेषु प्रतपन सुर्यवद्विभुः ॥६॥
तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।
भुतांना करुणः शश्वदर्तानां क्षितिवृत्तिमान ॥७॥
देवेऽवर्षत्यसौ देवो नरदेववपुर्हसि ।
कृच्छ्रप्राणाः प्रजा ह्योष रक्षिष्यत्यत्र्जसेन्द्रवत ॥८॥
आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।
सानुरागावलोकेन विशदस्मितचारुणा ॥९॥
अव्यक्तवर्मैष निगुढकार्यो गम्भीरवेधा उपगुप्तवित्तः ।
अनन्तमाहात्म्यगुणौकधामा पृथु प्रचेता इव संवृतात्मा ॥१०॥
दुरासदो दुर्विषद आसन्नोऽपि विदुरवत ।
नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥११॥
अन्तर्बहिश्व भुतांना पश्यन कर्माणि चारणैः ।
उदासीन इवाध्यक्षो वायुरात्मेण देहिनाम ॥१२॥
नादण्डयं दन्डयत्येष सुतमात्मद्विषामपि ।
दण्डयत्यात्मजमपि दण्डयं धर्मपथे स्थितः ॥१३॥
अस्याप्रतिह्तं चक्रं पृथोरामानसाचलात ।
वर्तत्ते भगवानर्को यावत्तपति गोगणैः ॥१४॥
रत्र्जयिष्यति यल्लोकमयमात्मविचेष्टितैः ।
अथामुमाहु राजानं मनोरत्र्जनकैः प्रजाः ॥१५॥
दृढव्रतः सत्यसन्धो ब्रह्माण्यो वृद्धसेवकः ।
शरण्य सर्वभुतांना मानदो दीनवत्सलः ॥१६॥
मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः ।
प्रजासु पितृतस्निग्धःकिंकरो ब्रह्मवादिनाम ॥१७॥
देहिनामात्मवत्प्रेष्ठ सुहृदां नन्दिवर्धनः ।
मुक्तसंगप्रसंगोऽयं दण्डपाणिरसाधुषु ॥१८॥
अयं तु साक्षाद्भगवांस्त्रधीशः कुटस्थ आत्मा कलयावतीर्णः ।
यस्मिन्नविद्यारचितं निरर्थक पश्यन्ति नानात्वमपि प्रतीतम ॥१९॥
अयं भुवो मण्डलमोदयाद्रेर्गोप्तैकवीरओ नरदेवनाथः ।
आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः ॥२०॥
अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः ।
मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः ॥२१॥
अयं महीं गा दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानामः ।
यो लीलायाद्रीन स्वशरासकोट्या भिन्दन समां गामकरोद्यथेन्द्रः ॥२२॥
विस्फूर्ज यन्नाजगवां धनु स्वयं यदाचरत्क्ष्मामविषह्यामाजी
तदा निलिल्युर्दिशि दिश्यसन्तो लांगुलमुद्यम्य यथा मृगेन्दः ॥२३॥
एषोऽश्वमेधान शतमाजहार सरस्वती प्रादुरभावि यत्र ।
अहारषीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने ॥२४॥
एष स्वसद्योपवने समेत्य सनत्कुमारं भगवन्तमेकम ।
आराध्य भक्त्याऽलभुतामलं तजज्ञानं यतो ब्रह्मा परं विदन्ति ॥२५॥
तत्र तत्र गिरस्तास्ता इति विश्रुतिविक्रमः ।
श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥२६॥
दिशो विजित्याप्रतिरुद्धचक्रः स्वतेसोप्ताटितलोकशल्य ।
सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः ॥२७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥१६॥