१६
विरिच्चिर्दीर्घायुर्भवतु भवता तत्परशिर -
श्वतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान्
विचा रः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापा रः स्वयमपि च दीनावनप रः॥१६॥
१७
फलाद्वा पुण्यानां मयि करुणया वा त्वपि विभो
प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् ।
कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां
निलिम्पानां श्रेणिर्निजकनकमाणिक्यमुकु टैः ॥१७॥
१८
त्वमेको लोकानां पतमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमु खाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥१८॥
१९
दुराशामूयिष्ठे दुरधिपगृहद्वारघटके
दुतन्तें संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृता र्थाः खलु वयम् ॥१९॥
२०
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटति झटिति स्वैरमभि तः ।
कपालिन् भिक्षो मे ह्रदयकपिमत्यन्तचपलं
दृढ़ं भक्त्या वद्ध्वा शिव भवदधीनं कुरु विभो ॥२०॥