सामध्वनि स्तुतो यज्ञे अर्घ्यं गृह्र नमोस्तु ते । इत्यर्घ्य दत्त्वा गंधपुष्पधूपदीपनैवेद्यतांबूलदक्षिणाभि
र्यथाशक्त्या संपूज्य प्रार्थयेत् । अथ प्रार्थना । अग्रिमीळे नमस्तुभ्यं नमस्ते जातवेदसे । इषेत्वैव नमस्तुभ्यमग्रे चैव नमोनमः ॥१॥
शन्नोदेवी नमस्तुभ्यं जगज्जन्म नमोनमः । आत्मारुपिन्नम स्तुभ्यं विश्वमूर्ते नमोनमः ॥२॥
त्वं धाता त्वं च वै विष्णुस्त्व्म ब्रह्मा त्वं हुताशनः । मुक्तिकामम भीत्सामि प्रार्थयामि सुरेश्वर ॥३॥
विश्वतश्वक्षुराख्यातो विश्वतश्चरणाननः । विश्वात्मा सर्वतो देव्ह प्रार्थयामि सुरेश्वर ॥४॥
इति भाभ्करं प्रार्थ्य । ॐ संवर्चसा० इति मन्त्रेण तोयेन मुखं विसृज्य । ॐ हर्ठसःशुचिषदित्यृचा सूर्यवलोक्य ।
ॐ संवर्चसाप यसासंतनूभिरगन्महिमनसास र्ठं शिवेन । त्वष्टासुदत्रोविदधातुरायोनुमाष्टुतद्विलिष्ठम् ॥
हर्ठसः शुचिषद्वासुरन्तरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसव्द्योमसदब्जागोजाऽऋत जाऽअद्रि जाऽऋतंबृहत् ॥१॥
ततःउदुत्यं० १ चित्रंदेवाना० २ । इति मंत्रद्वयं देवाग्रतो जपेत् ॥ ततो दूर्वाफलपुष्पाक्षतनानाविधभक्ष्यैः
फलकं कृत्वा तत्र शुभदेशे शय्यां प्रकल्प्य तत्र लवणाच लोपरि रौप्यमय्म खङुहस्तं वस्त्रयुगच्छत्रं पुरुषं संस्थाप्य पूजयेत् ।
तत्र मंत्रः । नमस्ते क्रोधरुपाय खङुहस्तजिघांसवे । जिघांसकं च त्वां दृष्टा दुद्रुवः सर्वदेवताः ॥१॥
त्वया व्याप्तं मेरुपृष्ठं चंडभा स्करसुप्रभम् । अतस्त्वां पूजयिष्यामि अर्व्य गृह्र नमोस्तु ते ॥२॥
अनेन मंत्रेण स्नानमर्घ्यार्चना दिकं च कुर्यात् । ततस्तां रात्रिं गीतवादित्रस्वनैःक्षपयित्वा ।
अभ्युदिते सूर्ये देवं सांगं संपूज्य अग्रिं प्रतिष्ठाप्य । आघारारावाज्यभागौ च हुत्वा ।
प्रधानदेवसूर्याय अर्कसमिद्धिः घृताक्तयव तिलैश्वरुणा घृतेन च प्रतिद्रव्यमष्टोत्तरसंख्याकाहुतिभिः ।
ॐ आकृष्णेन रजसा० इति मंत्रेण व्याह्रतिभित्वा होंम कुर्यात् । ततःसर्वतोभद्रमंडलस्थब्रह्मादिदेवताभ्यो
घृताहुत्या हुत्वा स्विष्टकृदादि होमशेषं समाप्य कपिलाधेनुदान् कुर्यात् । तद्यथा । कपिलां सवत्सा
वस्त्रघंटास्वर्ण श्रृंगताम्रपृष्ठरौप्यखु रकांस्यदोहनादियुतां संपाद्य पूर्वोक्तधेनुदानविधिना
आचार्यपूजनं धेनुपुजनं देवर्षिपितृतर्पणं च कृत्वा प्रार्थयेत् । कपिले सर्वभूतानां पूजयीयासि रोहिणी ।
सर्वतोर्थमयी यस्मादथ शांति प्रयच्छ मे ॥१॥
कपिले पुण्यकर्मसि निष्पाद्ये पुण्यकर्मणि । मां समुद्धर दीनं च ददतो ह्रक्षयं कुरु ॥२॥
ब्रह्मणोत्पा दिता देवि अग्रिकुंडात्सुसुप्रभा । नमस्ते कपिले पुण्ये सर्वदेवनमस्कृते ॥३॥
जय नित्यं महसत्त्वे सर्वर्थादिमंगले । दातारं स्वजनोपेत् ब्रह्मलोकं नयाशु वै ॥४॥
इति प्रार्थ्य पुनः आचार्य संपूज्य तद्धस्ते गोभूहिरण्यवासोव्रीहिलवणतिलान् दत्त्वा प्रदक्षिणा
विधाय सोपस्करं सदक्षिणं स्वर्णमयं भानुं च दद्यात् । तत्र मंत्रः । दिव्यमूर्तिर्जगच्चक्षुर्द्वाशात्मा दिवाकरः ।
कपिलासहितो देवो मम मुक्तिं प्रयच्छतु ॥१॥
भास्करः प्रतिगृह्राति भास्करो वै ददातिच । भास्करस्तारकोभाभ्यं तेन वै भास्करो मम ॥२॥
तस्मात्त्व्म कपिले पुण्या सर्वलोकस्य पाविनी । प्रदत्ता सह सूर्येण मम मुक्तिप्रदा भव ॥३॥
ततो ब्राह्मणान् पायसेन गुडेन च भोजयित्वा तेभ्यो दक्षिणां दत्त्वा आशिषो गृहीत्वा सुह्रद्युक्तो भुंजीत ।
आरोग्यरुपसौभाग्यसर्वदुःखविवर्जितः । अंते गोलोकमासाद्य चिरायुःसुखभाग्भवेतु ॥१॥
इति कपिलाषष्ठीव्रतोद्यापनप्रयोगः ॥ अथ कार्तिके स्कंदषष्ठीव्रतं (भविष्ये ) षष्ठयां फलाशनो राजन्विशेषात्यकार्तिके नृप ।
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात् ॥१॥
षष्ठीतिथिर्महाराज सर्वदा सर्वकामदा । उपोष्या सा प्रयत्नेन सर्वकालं जयार्थिना ॥२॥
कार्तिके यस्य दयिता एषा षष्ठी माहतिथिः । देवसेनाधिपत्य्म हि प्राप्तमस्यां महात्मनः ॥३॥
अस्यां हि श्रीसमायुक्तो यस्मात्स्कंदोऽभवत्पुरा । तस्मात्षष्ठयां न भुंजीत प्राप्तुद्धार्गवी सदा ॥४॥
तत्र प्रयोगः । यस्यांकस्यांचित् षष्ठयां प्रातः स्त्रात्वा नित्यकर्म कृत्वा देशकालौ संकीर्त्य ॥
मम सत्कुलादिजन्म प्राप्तिपूर्वकमैहिकविद्यालक्ष्मीसुखाद्यभिवृद्धिद्वारा श्रीस्कंदप्रीत्यर्थ स्कंदषष्ठीव्रतं करिष्ये ।
इति संकल्प्य । गणेशदिपूजां कुर्यात् । ततः सुवर्णादिना स्कंदमूर्ति कृत्व पीठे संस्थाप्य षोदशोपचारैः संपूज्य ।
ताम्रपात्रे दधिघृतपुष्पाक्षतचंदनयुतजलेन अर्घ्य दद्यात् । तत्र मंत्रः । सप्तर्षिदारज स्कंद सेनाधिप महाबले ।
रुद्रोमाग्निज षड्क्र गंगागर्भ नमोस्तु ते ॥१॥
प्रीयतां देवसेनानीः संपा दयतु हद्धतम् ॥ एवमर्घ्य दत्त्वा विप्राय आमांन्न दक्षिणां च दद्यात् ।
ततो रात्रौ भूमिभाजनं कृत्वा तैलपक्कविवर्जितं भोजनं कुर्यात् । एवं शुल्कायां कृष्णायां च षष्ठ्यां कार्यम् ।
सर्वाभीष्टसिद्धिः । इति स्कंदषष्ठी व्रतम् । भाद्रपदे वा मार्गशीलर्षशुल्के चंपाषष्ठीव्रतम् (स्कंदपुराणे ) ।
षष्ठी भाद्रपदे शुल्का वैधृत्या च समन्विता । विशाखाभौमयोगेन सा चंपा इति विश्रुता ॥१॥
देवासुरमनुष्याणां दुर्लभा षष्ठिहायनैः (तत्रैव ) मार्गे भाद्रपदे शुल्के षष्ठी वैधृतिसंयुता ।
रविवारेण संयुक्ता सा चंपा इति कीर्तिता ॥ पंचम्यां नियमं कुर्यादाचार्यवचनाद्रुति ।
षष्ठ्यां स्नानं प्रकुर्वीत संतर्प्य पितृदेवताः ॥ अभ्येत्य स्वगृहं मौनी सूर्यं मनसि चिंतयेत् ।
स्थाषयेदव्रणं कुंभं मृत्पात्रं च तथोपरि ॥ तस्यो परि न्यसेत्सूर्य पलैकेन विनिर्मितम् ।
सौवर्ण भक्तिसंयुक्तं रथं सारथिना युतम् ॥ तमर्चयेज्जगन्नाथं गृहीत्वाज्ञां गुरो स्वयम् ।
षडक्षरेण मंत्रेण गंधपुष्पाक्षतादिभिः ॥ (ॐ नमः सूर्यायेति मंत्रः ) संपूज्य विधिवद्देवं फलपुष्पादिकं च यत् ।
सूर्यायावेदयेत्सर्व सूर्यो मे प्रीयतामिति ॥ ततः प्रभाते विमले गत्वा गुरुगृह व्रती । सर्वोपकरणैः सूर्यमाचार्याय निवेदयेत ॥
धान्यं पुष्पं फलं वस्त्रं रत्नधेन्वादिकं च यत् । गवां कोटिसहस्त्रं तु कुरुक्षेत्रेर्कपर्वणि ॥ चंपादानस्य राजेंद्र कलां नार्हति षोडशीम् ।
सर्व तीर्थप्रदानानि तथान्यान्यपि षोडश ॥ चंपया तुलितानीय चपैका त्वतिरिच्यते (इयं योगविशेषण पूर्वा
योगाभावे पराग्राह्या (इति गौडपंडितश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे षष्ठीव्रतोद्यापनानि ॥ अथ सप्तमोव्रतोद्यापनानि ॥
तत्र तावद्वैशाखशुल्कसप्तम्यां गंगोत्पत्तिस्तत्पूजा च (पृथिवीचन्द्रोदये ब्राह्ये ) वैशाखशुल्कसप्तम्यां जह्रुना जाह्रवी पुरा ।
क्रोधत्पीता पुनस्यक्ता कर्णरंध्रात्तु दक्षिणात् ॥ तां तत्र पूजयेद्देवीं गंगाम गगनमेखलाम् । (अन्यत्रोक्तम ) देयं कुंभसहस्त्रं तु
गंगाया व्रतके शुभे । तारणं पारणं चैव तद्वुतं सार्वकामिकम् ॥ वैशाखशुक्लपक्षे तु सत्पम्यां पूजयेद्धरिम् ।
गंगायां विधिवत्स्त्रात्वा भोजये द्राह्यणान् दश । पूजयेत्सूक्ष्मवस्त्रैश्व पुष्पस्त्रकचंदनैः शुभैः । पूजकः सर्वपापेभ्यो मुच्यते नात्र संशयः ॥
( इतं च शिष्टाचारान्मध्याह्रव्यापिनी ग्राह्या ) इति गंगासप्तमीव्रतम् ॥ अथ शुल्कदिश्रावणकृष्णसप्तम्यां मध्याह्रव्यापिन्यां शीतलाव्रतम् ॥
प्रातःस्तात्वा देशकालौ संकीर्त्य । मम इह जन्मनि जन्मांतरे च अवैधव्यप्राप्तये
अखंडितसौभाग्यभर्तृसंयोगपुत्रसौख्यधनधान्यप्राप्तये च शीतलाव्रतं करिष्ये ।
तदंगत्वेन यथामिलितोपचारैः शीतलपूजनं करिष्ये । इति संकल्प्य ।
अष्टदलयुते पीठे अव्रणं कलशं यथाविधिना संस्थाप्य तदुपरि सौवर्णी शीतलप्रतिमां स्थापयेत् ।
अथ ध्यानम् । वंदेहं शीतलां देवीं रासभस्थां दिगंबराम् । मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥
इति ध्यात्वा । ॐ शीतलायै नमः । इत्यावाहनादिषोडशोपचारैः संपूज्य ।
शीतले पंचपक्कान्नं दध्योदनयुतं शुभम् । नैवेद्यं गृह्यतां देवि घृतमिश्रं च सुंदरि ॥१॥
इति शीतलपंचपक्कान्नं निवेद्य । शीतले दह मे पापं पुत्रपौत्रसुखप्रदे । धनधान्यप्रदे देवि पूजां गृह्र नमोस्तु ते ॥१॥
इति पूजां निवेद्य अर्घ्य दद्यात् । तत्र मंत्रः । शीतले शीतलकारे अवैधव्यसुतप्रदे ॥ श्रावणस्याऽसिते पक्षे अर्घ्यं गृह्र नमोस्तु ते ॥१॥