अथ सत्यनारायणव्रतोद्यापनं लिख्यते ॥ तच्च शुक्रास्तादिरहिते यस्मिन्कस्मिन् शुद्धमासे पूर्णिमायां कार्यम् । अन्न पूर्णिमा प्रदोषव्यापिनी ग्राह्या । यजेच्चैव निशामुखे इति वाक्यात् । अथ प्रयोगः । पूर्णिमायां प्रातरुत्थाय दंतधावनपूर्वकं नद्यादौ यथाविधि स्नात्वा संध्यादिनित्यक्रियां संपाद्य गोमयोपलिप्ते शुद्धदेशे कदलीस्तंभादिभिः सुशोभितं चतुर्द्वारं पंचभिः कलशैर्जुष्टं ध्वजतोरणान्वितं मंडपं कृत्वा तन्मध्ये वेदिकायां सर्वतोभद्रमण्डलं विलिखेत् । ततः प्रदोषे पुनः स्नात्वा धौतशुल्क वाससी परिधाय कृतचंदनादितिलकः सपवित्रकरः सायंसंध्यां कृत्वा वेद्याः पश्चिमतः स्वासने यजमानः सपत्नीकः प्राङ्मुख उपविशय आचम्य प्राणानायम्य । ताम्रपात्रे जलतिलाक्षतपुष्पक लढूर्वाद्रव्याणि गृहीत्वा देशकालौ संकीर्त्य मम आत्मनः इह जन्मनि जन्मांतरे च कृतसमस्तपाप क्षयांर्थ धर्मार्घकाममोक्षचतुर्वर्गप्राप्तिद्वारा (कलिकल्मषनाशपूर्वकं ) श्रीसत्यनारायणप्रीतये अमुक कामनया वा आचरितसत्यनारायणव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजनं पुण्याहवाचनम् आचार्यादिवरणं च पूर्ववत्कृत्वा आचार्याय वस्त्रद्वयं मुद्रिकाकमंडलुप्रभृतीनि च दद्यात् । ततः आचार्यः सर्वतोभद्रे ब्रह्मदिदेवताः संपूज्य तत्र मध्यकमले यथाविधि ताम्रकलशं संस्थाप्य तदुपरि तंडुलपूरितं ताम्रपूर्णपात्रं निधाय पट्टवस्त्रं प्रसार्य्य कुंकुमादिनाऽष्टदलं विलिख्य तन्मध्ये स्वर्णदिसिंहासने शालग्रामं कर्षपरिमितसुवर्णरचितां सत्यनारायणप्रतिमां च ॐ इदम्विष्णुर्वि चक्रमे त्रेधानिदधेपदम् । समूढमस्यपा सुरेस्वाहा ॥ इति मंत्रेण प्रतिष्ठायेत । अथ पूजनप्रकारः । तत्रादौ ध्यानम् (तुलसीमंजरी धृत्वा ध्यायेत्सत्यस्थितं हरिम् ) नारायणं सांद्रघनावदातं चतुर्भुजं पीतमहार्हवाससम् ॥ प्रसन्नवक्रं नवकंजलोचनं सनंदनाद्यैरुपसेवितं भजे ॥१॥
इति ध्यात्वा । करोमि ते व्रतं देव सायंकाले त्वदर्चनम् । श्रुत्वा गाथां त्वदीयां हि प्रसादं ते भजाम्यहम् ॥१॥
इति मनसा प्रार्थ्य पुरुषसूक्तेन ॐ नमो भगवते नित्यं सत्यदेवाय्त धीमहि । चतुःपदार्थदात्रे च नमस्तुभ्यं नमोनमः ॥१॥
इति मंत्रेण च पंचामृतादिससहितैः षोडसोपचारैः संपूजयेत् । नैवेद्यं तु प्रस्थादिमानेन सपादं गोधूमचूर्ण गोघृतक्षीरशर्करादियुतं नानाभक्ष्यभोज्ययथादेशकालोद्धवरंमाफलादिसहितम् अभावे शालिचूर्ण गुडं शर्करां वा समर्पयेत् । एवं संपूज्य प्रार्थनां कुर्यात् । नवांभोजनेत्रं रमाकोलिपात्रं चतुर्बाहुचामीकरं चारुगात्रम् । जगत्राणहेतुं रिपौ धूमकेतुं सदा सत्यनारायणं स्तौमि नित्यम् ॥१॥
इति प्रार्थ्य । पूजांते प्रसादभक्षणं कृत्वा नृत्यगीतवाद्यपुराणकथाश्रवणादिना रात्रौ जागरणं कुर्यात् । ततः प्रभाते स्नात्वा पुनः पूर्ववत्संपूज्य स्थंडिले अग्निं प्रतिष्ठाप्य कुशकंडिकां कृत्वा आज्यभा गांते तिलव्रीहियवशर्कराघृतपायसद्रव्यैरष्टोत्तरशतं जुहुयात् । तत्र मंत्रः । ॐ नमो भगवते नित्यं सत्यदेवाय धीमहि । चतुःपदार्थदात्रे च नमस्तुभ्यं नमोनमः स्वाहा ॥१॥
इदं सत्यनारायणाय १०८ इत्यनेन हुत्वा पुरुषसूक्तेन प्रत्यृचमाज्यं जुहुयात् । ततः सर्वतोभद्रदेवताभ्यश्वैकैकया ज्याहुत्या हुत्वा होमशेषं समाप्य आचार्य वस्त्रादिभिः संपूज्य सोपस्करां प्रतिमां व्रतपूर्त्तये सवत्सां गां च दद्यात् । शक्तौ सत्यां सोपस्कारां शय्यां पंचदशजलपूरितघटान्वस्त्रदक्षिणासहितान्दत्त्वा पंचदश ब्रह्मणान् यथाक्ति वा गोधूमचूर्णकृतभोज्यादिभिः पायसेन च भोजयेत् । ततो दक्षिणाभिस्तान् पतोष्य आशिषो गुहीत्वा स्वज्ञातिभ्यः कथाश्रोतुभ्यश्च भगवत्प्र सादं दत्त्वा बंधुमिः सह वाग्यतो भुंजीत (उक्तं च भविष्यपुराणे ) तर्पणं मार्जनं कृत्वा कथां श्रुत्वा हरोरिमाम् । षडध्यायीं सत्यमुख्यां तत्पश्चात्तत्प्रसादकम् ॥१॥
सम्यग्विभज्य तत्सर्व दापयेच्छ्रोतृकान्नरान् । आचार्यायादिभागं च द्वितीयं स्वकुलाय सः ॥२॥
श्रोतुभ्यश्च तृतीयं च चतुर्थ चात्महेतवे । विप्रेभ्यो भोजनं दत्वा स्वयं भुंजीत वाग्यतः ॥३॥
देवर्षेऽनेन विधिना सत्य नारायणार्चनम् । कारयेद्यदि भक्त्या च श्रद्धया च समन्वितः ॥ व्रति कामानवान्पोति वांछितानीह जन्मनि ॥४॥
इति भविष्योक्तं सत्यनारायणव्रतोद्यापनं समाप्तम् ॥ अथ भीष्मपंचकव्रतोद्या पुनम् ॥ एतद्धंत च कार्तिकशुल्केकादशिमारभ्य पूर्णिमांतं पंचदिनात्मकं कार्यम् । (व्रतविधानं तु व्रतराजादिषु लिखितमेव तत्र द्रष्टव्यम् ) अथोद्यापनप्रयोगः । पूर्णिमायां प्रातर्नद्यादौ स्त्रात्वा नित्यकर्म कृत्वा गोमयोपलिप्ते सुद्धदेशे चतुर्द्धारोपशोभितं मण्डपं कृत्वा तत्र वेदिकायां सर्वतो भद्रं विलिखेत् । ततः सायंकाले पुनः स्नात्वा सायंसंध्यामुपास्य वेद्याः पश्चिमे स्वासने सपत्नीकः प्राङमुख उपविश्य आचम्य प्राणानायम्य देशकालौ स्मृत्वा ममात्मनः अखिलपापक्षयपूर्वक धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचरितभीष्मपंचकव्रतोद्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांत्म कर्म कुर्यात् । ततः सर्वतोभद्रे देवताः संपूज्य मध्ये ताम्रकलशोपरि कर्षसुवर्णरचिताम विष्णुप्रतिमाम् । ॐ इदम्विष्णुर्विचक्रमेत्रेधानिदधेपदम् । समूढमस्य पा सुरे ॥ इति मंत्रेण प्रतिष्ठाप्य । पुरुषसूक्तेन ॥ ॐ नमो भवते वासुदेवाय इति द्वादशा अक्षरेण च षोडशोपचारैः संपूजयेत् । पुष्पजांते कमलैर्विष्णोः पादौ पूजयेत् १ बिल्वपत्रैर्जानुदेशं०२ श्रृंगार केण नाभिं०३ बालबिल्वांकुरैः स्कंधौ०४ मालतीपुष्पैः शिरस्व्ह संपूजयेत् ५।पुष्पाभावे तुलसी सर्वत्रार्पणीया । ततः कथाश्रवनादिना रात्रौ जागरणं कृत्वा प्रातः पुनः संपूज्य अग्निं प्रतिष्ठाप्य आज्यभागांते पुरुषसूक्तेन प्रत्यृचम् आज्यहोमं कृत्वा । ॐ इदम्विष्णुर्विचक्रमेत्रेधानिदधेपदम् । समूढस्यपा सुरेस्वाहा । इदं विष्णवे इति मंत्रेणाष्टोत्तरशतमश्वत्थसमित्तिलपायसाज्यैर्जुहुयात् । अथवा ॐ नमो भगवते वासुदेवाय स्वाहा इति मंत्रेण जुहुयात् । ततस्तैरेव द्रव्यैः ॐ मत्स्याय स्वाहा इदं मत्स्याय १ कूर्माय स्वाहा इदं ०२ वराहाय०३ नारसिंहाय० इदं०४ त्रिविक्रमाय० इदं०५ रामाय० इदं० ६ श्रीरामाय० इदं०७ कृष्णाय० इदं० ८ बुद्धाय० इदं० ९ कल्किने स्वाहा इदं ०१० इति दशावतोरभ्याः प्रत्येकं हुत्वा सर्वतोभद्रदेवताभ्यश्वैकैकाज्याहुति जुहुयात् । ततो होम शेषं समाप्य आचार्य वस्त्राभूषणैः संपूज्य सोपस्करां प्रतिमां व्रतपूर्त्तये सवत्साम गां च दद्यात् । ततो यथाशक्ति पंच वा सपत्नीकान् ब्राह्मणान् षड्रसैर्भोजयित्वा तेभ्यो दक्षिणां दत्त्वा आशिषो गृहीत्वा बंधुमिः सह भुंजीत । एवं कृत्वा व्रतमिदं पवित्रं पापनाशनम । पूर्वजन्मार्जितैः पापैरिहजन्मा र्जितैरपि । आगामिजैश्व पापैस्तु मुच्यते नात्र संशयः ॥१॥
इति पद्मपुराणोक्तं भीष्मपंचकव्रतोद्याप नम् ॥ इति पण्डितगौडश्रचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे पूर्णिमाव्रतोद्यापनानि समाप्तानि ॥