ततो गुडमिश्रिततिलानां वायनं दद्यात् । तिलगुडीमिश्रितपक्कान्ननैवेद्यम् । प्रदोषकाले पूजा । स्वयं तिलगुडभीक्षण्म हविष्याशनं वा कुर्यात् । रात्रौ जागरणं कार्यम् । पातरग्निं प्रतिष्ठाप्य आज्यभागांते । ॐ गौरीर्मिमाय० इति मंत्रेण । ॐ कोकिलायै स्वाहा १०८ इति नाममंत्रेण वा तिलचंपकपुष्पतंडुलपायसाज्यद्रव्यैः प्रत्येकमष्टोत्तरशतं हुत्वा व्याह्रतिमंत्रेण बिल्वपत्रैरष्टोत्तरशतं जुहुयात् । ततो मंडलदेवताभ्यश्वैकैकाज्याहुतीर्दत्वा होमशेषं समाप्य पंच मिथुनानि द्वयं वा पूजयेत् । तेभ्यो गुडतिलमिश्रितपक्कान्नपूरितकरयुतं सौभाग्यद्रव्यदक्षिणान्वितं वंशपात्रस्थं कृष्णवस्त्रवेष्टितं वायनं दद्यात् । तत्र मंत्रः । सोपस्करं द्विजश्रेष्ठ वायनं व्रतपूर्तये । ददामि ते गृहाणेदं कोकिला प्रीयतामिति ॥१॥
ततो विसर्जनम् । देवि चैत्ररथोत्पन्ने विंध्यपर्वत वासिनि । अर्चिता पूजिताऽसि त्वं कोकिले हरवल्लभे ॥१॥
कोकिले कलकंठासि माधवे मधुरस्वरे । वसंते वससे देवि गच्छ त्वं नंदनं वनम् ॥२॥
ततः पीठं व्रतपूर्त्तये गां च आचार्याय दत्त्वा ब्राह्मनान्भोजयित्वा वस्त्रादिभिस्तान्प्रतोष्य आशिषो गृहीत्वा स्वयं भुंजीत । इति कोकिलाव्रतोद्यापनम् ॥ अथ उमामहेश्वरव्रतोद्यापनम् ॥ तच्च भाद्रपदशुल्कपूर्णिमायां कार्यम् । (एतद्वतं कर्णाटकदेशे प्रसिद्धम् ) शिवरहस्ये । तत्र पूर्वेद्युः सायं शिवं संपूज्य हविष्याशी शिवध्यान परो देवसन्निधौ निद्रां कुर्यात । ततः प्रातर्नद्यादौ स्नात्वा संध्यादिनित्यकर्म समाप्य भस्मोद्धूलित सर्वागी रुद्राक्षधारणं च कृत्वा । देशकालौ संकीर्त्य ॥ मम इह जन्मनि जन्मांतरे च कृतसम स्तपापक्षयार्थ दुःखदारिद्यनाशपूर्वकशिवपदप्राप्तिकामनया आचरितोमामहेश्वरव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजनाद्याचार्यवरणांतं कर्म पूर्ववत् कृत्वा पंचदश शिवभक्तान् द्विजान्निमंत्रयेत् । ततश्वतुर्द्वारोपशोभिते मण्डपे भद्रपीठे लिंगतोभद्रं रचयित्वा तत्रस्थ देवताः संपूज्य तन्मध्ये यथाविधि ताम्रकलशं संस्थाप्य तत्र पूर्णपात्रे प्रतिसरग्रंथिकुशं गव्याक्तं कुंकुमाक्तं पंचदशग्रंथियुतं दोरकं निधाय तत्र सौवर्ण राजतं वा पलादधिकमुमामहेश्वरयोः प्रति माद्वयं त्र्यंबकमिति मंत्रेण १ गौरीर्मिमाय०१ इति मंत्रेण च प्रतिष्ठाप्य तत्पीठपरितः पीठेषु पंचदश कुंभान्वस्त्रग्मवेष्टितान्संस्थापयेत् ॥ एवं प्रतिष्ठाप्य विध्युक्तप्रकारेण पूजयेत् । तत्रादौ ध्यानम् । पंचाननमुमाकांतमनलेन्दुरविप्रभम् । चंद्रार्द्धशेखरं नित्यं जटामुकुटमण्डितम् ॥१॥
।भस्मी द्धूलितसवर्वागं रुद्राक्षाभरणान्वितम् । ऋतं सत्यं ब्रह्म विष्णुब्रह्मदिवंदितम् ॥ विश्वं विश्वेश्वरं देवं ध्यायामि परमेश्वरम् ॥२॥
एवं शिवं ध्यात्वा उमां ध्यायेत् । ध्यायामि परमां गौरीमादिविद्यां सुरेश्वरीम् । लक्ष्मीसेवितपादाब्जां चंद्रार्द्धकृतशेखराम् ॥१॥
ब्रह्मेद्रोपेन्द्रजननीं महेशार्द्धागगामिनीम् । प्रसन्नवदनां शांतां ध्यायेद्देवीमुमां सतीम् ॥२॥
इति ध्यात्वा महेशं पुरुषसूक्तेन रुद्राध्यायोक्त षोडशोमंत्रैर्वा सद्योजातमित्यादिपंचब्रह्ममंत्रैर्वा पंचामृतादियुकैः षोडशोपचारिरखंडितबिल्वपत्राद्यैश्व संपूज्य । श्रीसूक्तेन गौरीं च पूजयेत् । पुष्पोत्तरमंगपूजा पुष्पैः कार्या । तद्यथा । ॐ कपर्दिने नमः कपर्दपूजयामि १ भाललोचनाय० भालं पू०२ सोमसूर्याग्निलोचनाय० नेत्रत्रयं पू० ३ श्रुतिश्रोत्राय० श्रोत्रे पू०४ घ्रानगंधाय० घ्राणं पू० ५ स्मृतिदंताय० दंतान् पू० ६ श्रु तजिह्राय० जिह्रां पू० ७ सुकपोलाय० कपोलौ ० ८ ज्ञानोष्ठाय० ओष्ठो०९ नीलकंठाय० कंठं० ०१० भूरिवक्षसे० वक्षः पू० ११ हिरण्यबाहवे० बाहू० विश्वोदराय० उदरं०१३ विश्वोरवे० ऊरु०पू०१४ विश्वजंघाय० जंघे ०१५ विश्वपादाय० पादौ० ०१६ विश्वनखाय० नखानूपू ०१७ सर्वात्माकाय० सर्वागं पूजयामि १८ । इति शिवांगपूजा । अथ शक्त्यंगपूजा । शिवायै० शिरः पू० १ पृथुवेण्यै० वेणी० पू० सीमंतराजिताये० सोमंत० ३ कुंकुमाभालायै० भालं०४ सोमसूर्याग्निलीचनायि० नेत्रे० ०५ श्रुतिश्रोत्रायै० श्रोत्रे०६ गंधप्रियायै० घ्राणं०७ सुभगकपोलायै० कपोलौ० ८ कुडूमलदंतायै० दंतान्० ९ विद्याजितह्रायै० जिह्रां ०१० बिंबोष्ठायै० ओष्ठो० ११ वृत्तकंठायै कंठ० १२ पृथुलकुचायै० कुचौ० १३ विश्वगर्भायै० उदरं १४ शुभकटयै० कटीपू० १५ दिव्योरुदेशायै०ऊरु०१६ वृत्तजंघायै०१६ जंये पू० १७ लक्ष्मीसेवितपादुकायै० पादौ पू० १८ महेश्वरप्रियायै० नखान् पू० १९ शोभनविग्रहायै० सर्वागं पू० २० । एवमंगपूजां कृत्वा दोरकं पूजयेत् । प्रथमग्रंथिमारभ्य दोरकग्रंथिषु विल्वपत्रादिभिः ॐ नमः ससोमाय०० इति मंत्रेण पूजां कृत्वा कुंकुमादिना अंकयित्वा पंचदशप्रस्थगोधोमांस्तंडुलांश्व उपायनार्थ निवेद्य गौघृतपाचितपंचदशगोधूमापूपानां वा मंडकानां वायनं दक्षिणासहितं स्थापयेत् । ततः पुराणपठ्नादिना रात्रौ जागरणं कृत्वा प्रातः पुनः पूर्ववत्संपूज्य ऋत्विक्सहितो मुख्याचायः अग्निं प्रतिष्ठाप्य । आज्यभागांते त्र्यंबकमंत्रेण ॐ गौरीर्मिमाय० इति मंत्रण च अथवा ॐ उमामहेश्वराय नमःस्वाहा इति नाममंत्रेण ॐ नमः सोमायेति मंत्रेण वा पञ्चविंशतिसहस्त्रं पंचदशसहत्रं वा पंचदशशतानि वा घृताक्तपायसद्रव्येण हुत्वा लिंगतोभद्रदेवताभ्यश्वैबकैकाज्याहुत्या हुत्वा होमशेषं समाप्य आचार्यादिब्राह्मणान् बिल्वपत्रपुष्पमालाभस्मादिभिर्नानावस्त्रादिभिश्व संपूज्य वायनानि कलशांश्व तेभ्यो दद्यात् । तत्र मंत्रः । उमेशः प्रतिगृह्राति उमेशो वै ददाति च । उमेशस्तरक्नेना भ्यामुमेशाय नमोनमः ॥१॥
ततः आचार्याय सोपस्करं प्रतिमाद्वयं प्रतिमाद्वयं सुवर्णदक्षिणां च यथाक्तिंदत्त्वा व्रतपूर्त्तये पंचदश गास्तन्मूल्यं वा दत्त्वा अन्यान् द्विजान् सुवासिनीश्व संपूज्य देवं प्रार्थयेत् उद्यापनं कृतं संभो मयैतदधुना प्रभो । इदं संपूर्णतां यातु त्वत्प्रसादान्महेश्वर ॥१॥
मंत्र हीनं भक्तिहीनं च यत्कृतम् । सांगं भवतु तत्संर्व तवैव स्मरनात्प्रभो ॥२॥
ततः शैवानूल विप्रान् भोजयित्वा तैराशिषो गृहीत्वा वाग्यत इष्टजनैः सह भुंजीत् । एवं यः कुरुते सम्यगुमा महेश्वरव्रतम् । स सर्वभोगान्भुक्तांते मोक्षमाप्नोति सर्वथा ॥१॥
इति शिवरहस्योक्तमुमामहे श्वरव्रतोद्यापनम् ॥ अथ द्वात्रिंशत्पूर्णिमा (बत्तीशीपूर्णिमा ) व्रतोद्यापनं लिख्यते ॥ भविष्ये । पूर्णिमा मार्गशीर्षस्य माघवैशाखयोस्तथा । व्रतं प्रारंभयेत्तस्यां पौषं भाद्रं तु वर्जयेत् ॥१॥
उमया सहितो देवः पूजनीयो वृषध्वजः । उपचारैः षोडशभिरागमोक्तविधानतः ॥२॥
एकैकं दीपकं कृत्वा मासिमासि च दापयेत् । एवं सार्द्धद्वयं वर्ष द्विमासाधिकमाचरेत् ॥३॥
ज्येष्ठस्य पूर्णिमायां च कुर्यादुद्यापनं बुधः । अथवा शुभमासस्य पूर्णिमायां समाचरेत् ॥४॥
चतुर्दश्या मुपवसेद्रात्रौ पूजनमारभेत् । अथ प्रयोगः । देशकालौ संकीर्त्य मम इह जन्मनि जन्माम्तरे च वैधव्य नाशपुत्रपौत्रसौभाग्यदिप्राप्तिपूर्वकं भर्तुरायुर्वृद्धिद्वारा उमामहेश्वरप्रीत्यर्थमाचरितस्य द्वात्रिंशत्पूर्णिमाव्र तस्य पूर्णतासिद्धये तदुद्यापनाख्यं कर्म करिष्ये । इति संकल्प्य । आचार्यवरणांतं पूर्ववत्कृत्वा लिंगतोभद्रमध्यस्थताम्रकलशे हैमम् उमामहेश्वरप्रतिमाद्वयं तत्पुरतो राजतं वृषभं च संस्थाप्य । पुरुषसूक्तेन वा त्र्यंबकमंत्रेण नाममंत्रेण वा षोदशोपचारैः पचामृतनानाविधनैवेद्यैश्व संपूज्य क्था श्रवणादिना रात्रौ जगरणं कुर्यात् । ततः प्रातः पुनः पूर्ववत्संपूज्य अग्निं प्रतिष्ठाप्य आज्यभागांते ॐ नमः शिवाय स्वाहा इति मंत्रेण ॐ उमायै स्वाहा इति मंत्रेण च यवतिलाज्यद्रव्यैः प्रत्येकमष्टोत्तरशतं हुत्वा लिंगतोभद्रदेवताश्वैकैकाज्याहुतिं जुहुयात् । ततो होमशेष्म समाप्य आचार्यादीन्वस्त्रादिभिः संपूज्य वापनं दद्यात् । तद्यथा । द्वात्रिंशद्वंधनयुतवंशपात्रे व्रीह्युपरिस्थे द्वात्रिंशन्महादीपान् द्वात्रिंशद्दतुकालोद्धवनानाफलावस्त्रदक्षिणायुतांश्व कृत्वा दद्यात् । तत्र मंत्रः । द्वात्रिशद्धिः फलैर्युक्तं सदीपं वस्त्रवेष्टितम् । वाणकं तव तुष्ट्यर्थ ददामि गिरिजापते ॥१॥
( प्रतिग्रहमंत्रः ) महेशः प्रतिगृह्राति महेशो वै ददातिच । महेशस्तरकोभाभ्यां महेशाय नमो नमः ॥१॥
ततो द्वात्रिम्शद्वाह्मणान् सपत्नीकान् षड्रसैः सह भोजयित्वा व्रतपूर्त्तये आचार्याय पुंक्त्सेन युतां धेनुं दत्त्वा बंधुमिः सह स्वयं भुंजीत । इत्येतकथितं सर्व व्रतस्योद्यापनं मया । याः कुर्वति व्रतमिदं विधवा न भवंति ताः ॥१॥
इह भुक्ता तु विपुलान्कामान्सर्वान्मनोगतान् । स्वर्गमंते गमिष्यन्ति कुलकोटिशतैरपि ॥२॥
इति द्वात्रिंशीपूर्णिमाव्रतोद्यापनम् ॥