संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४७

व्रतोद्यापन प्रयोगः - पूजा भाग ४७

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ शिवादिदेवानाम लक्षनमस्करात्मकं व्रतं लिख्यते ॥ (भविष्ये ) वसिष्ठ उवाच । ब्रह्महत्यादिपापानां प्रयश्वित्तं यदीच्छसि । तदा लक्षनमस्कारव्रतं कुरु महीपते ॥१॥

चातुर्मास्ये तु संप्राप्ते केशवे शयनं गते । आषाढस्य सिते पक्षे एकादश्यां समारभेत् ‍ ॥ कार्त्तिकस्य सिते पक्षे पौर्णमास्यां समापयेत् ‍ ॥२॥

इति । अथवा मार्गशीर्ष माघे वा चैत्रे वैशाखे वा पूर्णिमायां समापयेत् ‍ । अथ प्रयोगः । देशकालौ संकीर्त्य ममानेकजन्मोपार्जितनानाविधपात कशमनपूर्वकातुलभोगप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ शिवस्य वा विष्णोरमुकदेवस्येति वा लक्षन मस्कारव्रतं करिष्ये । इति सकल्प्य तुलस्यग्रे अश्वत्थमूले गंगातीरे वा गवाम गोष्ठे वान्यत्र शुभ स्थले यद्देवताप्रीतये व्रतं तद्देवं पीठे पुरुषसूक्तेन संपूज्य । नमोस्त्वनंताय० इत्यादिना स्तुत्वा तद्देवता नाममंत्रेण तद्देवताप्रकाशवैदिकमंत्रेण मूलमंत्रेन वा नमस्कारान् ‍ कृत्वा समाप्तवुद्यापनं कुर्यात् ‍ ॥ अथोद्यापनप्रयोगः । देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकाममोक्षसिद्धिद्वारा श्रीपरमे श्वरप्रीत्यर्थम् ‍ आचारितलक्षनमस्कारव्रतोद्यापनं करिष्ये । इति संकल्प्य । गणेशपूजनाद्यचार्यवरणांतं कुर्यात् ‍ । ततः सर्वतोभद्र ब्रह्मादिवेवताह संपूज्य तन्मध्ये ताम्रकलशोपरि सौवर्नी देवताप्रतिमां तद्देवतामंत्रेण संस्थाप्य पुरुषसूक्तेन षोडशोपचारैः संपूज्य विशेषार्घ्यत्रयं दद्यात् ‍ । तत्र मंत्रः । देवेदेव जगन्नाथ सर्वक्ततुफलप्रद । व्रतेनानेन संतुष्टो गृहाणार्घ्य मयार्पितम् ‍ ॥१॥

ततोऽग्निं प्रतिष्ठाप्य आज्यभागांते प्रधानदेवातायै तन्नाममंत्रेणाष्टोत्तरशतं पुरुषसूक्तेन च सप्तावृत्त्या चरुतिलव्री हिपलशसमित्सर्पिर्द्रव्यैर्होमं कृत्वा ब्रह्मादिदेवताभ्यश्वैकैकाज्याहुतिं जुहुयात् ‍ । ततः आचार्य वस्त्रादिभिः संपूज्य सोपस्करां प्रतिमां सवत्साम गां च दत्त्वा अष्टोत्तरशताधिकद्विजान् ‍ यथाशक्ति वा भोजयेत् ‍ ॥ इति लक्षनमस्कारव्रतोद्यापनम् ‍ ॥ अथ लक्षप्रदक्षिणाव्रतोद्यापनम् ‍ । (स्कांदे ) ब्रह्मह त्यादिपापानां प्रायश्वित्तं यदीच्छति । लक्षप्रदक्षिणा नाम व्रतं कुर्यान्महीपते ॥१॥

श्रावणे माधवे वोर्जे माघे नियमपूर्वकम् ‍ । लिंगप्रदक्षिणाः कुर्याच्छ्रद्धया विधिपूर्विकाः ॥२॥

शिवापते प्रत्यह च पूजा कार्या प्रयत्नतः । लक्षं समाप्य पश्वात्तु कुर्यादुद्यापनं व्रती ॥३॥

विष्णुधर्मोत्तरे ) अषाढशुल्क पूर्णिमायां प्रारंभः कार्तिक्यां समापनम् ‍ । अथवा शुभमासे प्रारंभं समापनं च कुर्यात् ‍ ॥ सुरालयेऽश्व त्थमूले तुलस्या गोव्रजेथवा । कुर्यात्प्रदक्षिणाः सर्वाह पूजयित्वा यथाविधि ॥ तत्र प्रयोगः । देशकालौ संकीर्त्य मम सर्वविधपापनिवृत्तिपूर्वकधर्मार्थकाममोक्षफलप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ शिवस्य विष्णोर्वा अमुकदेवस्य वा लक्षप्रदक्षिणाव्रतं करिष्ये । इति संकल्प्य गणेश्म पूजयेत् ‍ । ततः पूजासा मग्रीं गृहीत्वा देवालये अश्वत्थादिसमीपं वा गत्वा पुरुषक्तेन संपूज्य सहस्त्रनामदि पठन् ‍ करचा लनादिरहितः एकाग्रचित्तः प्रदक्षिणाह एकरुपतया समाप्तिपर्यतं कृत्वा अंते उद्यापनं कुर्यात् ‍ ॥ अथोद्यापनप्रयोगः । देशकालौ स्मृत्वा मम सर्वविधपातकनिवृत्त्तिपूर्वकश्रीपरमेश्वरप्रीत्यर्थम् ‍ अमुक कामनया वा आचारितलक्षप्रदक्षिणाव्रतोद्यापनं करिष्ये । इति संकल्प्य । गणेशपूजनाद्याचार्य वरणांतं कर्म पूर्ववत्कुर्यात् ‍ । ततः सर्वतोभद्रे ताम्रकलशोपरि सुवर्णमयं कृतप्रदक्षिणं देवं तत्तन्मंत्रेण संस्थाप्य पुरुषसूक्तेन नाममंत्रेण वा पंचामृतपुरः सरं षोडशोचारैः संपूज्य साष्टांगं प्रणमेत् ‍ । ततोऽग्निं प्रतिष्ठाप्य प्रधानदेवतायै तद्वैदिकमंत्रेण वा नाममंत्रेण अथवा विष्णुगायत्र्या चरु तिलाज्यद्रव्यैः प्रदक्षिणादशांशेन अथवा अष्टोत्तरसहस्त्रमष्टोत्तरशतं वा हुत्वा सर्वतोभद्रदेवताभ्यो घृता हुतिं जुहुयात् ‍ । ततो होमांते तद्द्शांशेन तर्पणं तद्द्शांशेन मार्जनं च कृत्वा आचार्य संपूज्य सोप स्करां प्रतिमां कपिलां गां च दत्त्वा यथाशक्ति ब्राह्मणन्भोजयेत् ‍ । अन्न यद्देवताकप्रदक्षिणास्तद्देवत प्रकाशको मंत्रः पूजाहोमादौ ग्राह्यः । एवमेव अश्वत्थतुलसीगोब्राह्मनग्निहनुमल्लक्षप्रदक्षिणाव्रतोद्यापनं कुर्यात् ‍ ॥ अथ अश्वत्थप्रदक्षिणासु विशेषविधिः (भविष्ये ) आदावाराधयेद्विषु ध्यानावाहनपूर्व कम् ‍ । तथैव पिप्पलतरुं नारायणस्वरुपिणम् ‍ ॥१॥

अर्चयेत्पुरुषसूक्तेन उपचारैश्व षोडशैः । ततः प्रदक्षिणां कुर्यात्तत्सर्व सफलं भवेत् ‍ ॥२॥

लक्षमेकं द्विलक्षं वा त्रिचतुःपंचलक्षकम् ‍ । कार्यस्य गौरमाज्ज्ञेयं द्वादशांतं समाचरेत् ‍ ॥३॥

ब्रह्मचारी हविष्याशी ह्राधःशायी जितेंद्रियः । मौनी ध्यानपरो भूत्वा पिप्पलस्य स्तुतिं पठेत् ‍ ॥४॥

विष्णोर्नामसहस्त्रं च पौरुषं वैष्णवं तथा । ततो लक्षदशांशेन सघृतं पायसं हुनेत् ‍ ॥५॥

तर्पणं तद्दशांशेन भोजनं तद्द्शांशतः । होमादौ विष्णुगायत्री विष्णोर्नामसहस्त्रकम् ‍ ॥६॥

ततो होमांते द्रोनापरिमिततंडुलपुंजोपरि पलाधिक रौप्यपीठे सुवर्णादधिकहैममश्वत्थतरुं स्कंधशाखायुतं संस्थाप्य एवमेव तुलसीप्रदक्षिणासु रौप्य मयमालवालं सुवर्णमयीं तुलसीं च स्थापयेत् ‍ । श्वेतवस्त्रेण संछाद्य षोअशोपचारैः संपूज्य विप्राय दद्यात् ‍ । तत्र मंत्रः । पिप्पलो वृक्षराजेंद्री ह्राग्निगर्भस्त्वमेव च । प्रभुर्वनस्पतीनां च पूर्वजन्मनि यत्कृतम् ‍ अघौघं नाशय क्षिप्रं तव रुपप्रदानतः ॥१॥

ततो द्विजप्रार्थना । अमुं तरुम गृहाण त्वं विष्णुरुपं द्विजोत्तम । स्वीकृत्य दुष्कृतं घोरं क्षिप्रं शांतिं प्रयच्छ मे ॥१॥

व्रतपूर्त्तये शुल्कां गामाचार्याय दद्यात् ‍ । अन्यत्सर्व पूर्ववत् ‍ । इत्यश्वत्थतुलसीप्रदक्षिणाविधानम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP