अथ अमावास्याव्रतोद्यापनानि ॥ तत्रतावत् वटसावित्री (बडसातैं ) व्रतोद्यापनं लिख्यते । एवद्वतं तु ज्येष्ठकृष्णत्रयोदशीमारभ्य अमावास्यांतं दिनत्रयात्मकं कार्यम् । उद्यापनं च अमावास्यायां कर्तव्यम् । (उक्तं च निर्णयामृते भविष्ये च ) अमायां च तथा ज्येष्ठे वटमूले महासतीम् । त्रिरात्रो पोषिता नारी विधिनानेन पूजयेत् ॥ अशकौ तु त्रयोदश्यां नक्तं कुर्याज्जितेंद्रिया ॥ अयाचितं चतुर्दश्याममायां समुपोषणम् ॥ (दाक्षिणात्यास्तु शुल्कपक्षे पूर्णिमांत कुर्वति तदपि स्कादोक्तं समीचीनम् ) अथोद्यापनप्रयोगः । तत्रादौ पूर्वोक्तं त्रिरात्रोपोषणं कृत्वा अमावास्यायां प्रातः तिला मलककल्केन केशान् संशोध्य सर्षमृज्जलैर्नद्यादौ स्त्रात्वा नित्यकर्म कृत्वा वटसमीपे गत्वा । देशकालौ संकीर्त्य । मम भर्तुः पुत्राणां चायुरारोग्यप्राप्तये जन्मजन्मनि अवैधव्यप्राप्तये च वट सावत्रीव्रतांगत्वेन वटपूजनं करिष्ये । इति संकल्प्य । वटमूले स्थितो वटमध्ये जनार्दनः । वटाग्रे तु शिवो देवः सावित्री वटसंश्रिता ॥ वट सिंचामि ते मूलं सलिलैरमृतोपमैः ॥१॥
इति मंत्रेण बहूदकैः वटं सिंचेत् । ततः सूत्रेण वेष्टयित्वा । ॐ वटाय नमः । सावित्र्यै नमः । इति मंत्रेण गंध पुष्पाक्षतैः संपूज्य ॐ नमो वैवस्वताय इति मंत्रेण प्रदक्षिणा कृत्वा स्वगृहमागच्छेत् । ततो वट मूले गृहे वा मृदा वेदिं विधाय तत्र सर्वताभद्रं विरच्य यथाचारं मण्डपं कृत्वा । आसने प्राङ्मुख उपविश्य आचम्य देशकालौ संकीर्त्य । मम भर्तुः पुत्रादीनां च आयुरारोग्यैश्वर्यादिप्राप्तिपूर्वकमिह जन्मनि जन्मान्तरे च आत्मनः अवैधव्यप्राप्तये आचरितवटसावित्रीव्रतोद्यापनं करिष्ये इति संकल्प्य । आचार्यवरणांतं पूर्वत्कुर्यात् । ततः सर्वतोभद्रे ब्रह्मदिदेवताः संपूज्य तत्र ताम्रकल सद्वयं यथाविधि प्रतिष्ठाप्य तत्रैकस्मिन्कलशे हैमं ब्रह्माणं तद्वामे हैमीं गायत्रीं सावित्रीं च प्रतिष्टोयेत् । तत्र ब्रह्मस्थापने ॐ ब्रह्मजज्ञानंप्रथमंपुरस्तद्विसीमतः सुरुचोवेनऽआवः । सबुन्ध्न्याऽ पमाऽअस्यविष्ठाः सतश्वयोनिमसतश्वव्विवः । इति मंत्रः । गायत्रीसावित्रीस्थापने तु गायत्रीमंत्रो ज्ञेयः ॥ ततस्तदुत्तरे द्वितीयकलशे पलादधिकरजतस्य राजतपर्यंके सुवर्णमय्यः सत्यवत् -१ सावित्री२ यमराज ३ नारद ४ - प्रतिमाश्वतस्त्रो नाममंत्रैः प्रतिष्ठाप्य तत्पुरतः काष्ठभारं सौवर्ण राजतं वा कुठारं निधाय तत्तन्नाममंत्रेणावाह्य षोडशोपचारैः पूजयेत् । नाममंत्राः । ॐ ब्रह्मणे नमः १ गायत्र्यै नमः २ सावित्र्यै नमः ३ सत्यवते नमः ४ सावित्र्यै नमः५ यमाय नमः ६ नारदाय नमः ७ पुष्पपूजांते अंगपूजा कार्या । सावित्र्यै नमं पादौ पूजयामि १ सावित्र्यै नमः जानुनी पू० २ कमलपत्राक्ष्यै० कटी पू० ३ भूतधरिण्यै उदरं पू०४ गायत्र्यै० कंठं पू० ५ ब्रह्मणः प्रियायै० शिरः पूजयामि ६ (ततो ब्रह्मसत्यवतोः ) धात्रे नमः पादौ पूजायामि १ ज्येष्ठाय० ऊरु पू० २ परमेष्ठिने० मेढ्रं पू० ३ अग्निरुपाय० कटी पू० ४ वेधसे० उदरं० पद्मनाभाय० ह्रदयं ६ विधये० कंठं पू० ७ हेमगर्भाय० मुखं पू० ८ ब्रह्मणे० शिरः पूजयामि९ विष्णवे नमः सर्वागं पू० १० एवं संपूज्य रजादिपात्रेण द्वयोरर्घ्य दद्यात् । तत्र मंत्राः । ॐ कारपूर्विके देवि वीणापुस्त कधारिणि । वेदमातर्नमस्तुभ्यवैधव्य्म प्रयच्छं मे ॥१॥
पतिव्रते महाभागे वह्रिजाते शुचिस्मिते । दृढव्रते दृढमते भर्तुश्व प्रियवादिनि ॥२॥
अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते । पुत्रपौत्रांश्व सौख्य़ं च गृहाणार्घ्य नमोनमः ॥३॥
( अथ ब्रह्मसत्यवतोरर्घ्यमंत्रः ) त्वया सृष्टंजगत्सर्व सदेवासुरमानवम् । सत्यव्रतधरो देव ब्रह्मरुप नमोस्तु ते ॥१॥
( यमस्यार्घ्यमंत्रः ) त्वं कर्मसाक्षी लोकानां शुभाशुभविवेककृत् । वैवस्वत गृहाणार्घ्य धर्मराज नमोस्तु ते ॥१॥
धर्मराजः पितृपतिः साक्षीभूतोसि जंतुषु । कालरुप गृहानार्घ्यमवैधव्यं च देहि मे ॥२॥
( नारदस्यार्घ्यमंत्रः ) नारदाय नमस्तुभ्यं सुरेशाद्यभिवंदित । गृहाणार्घ्य मया दत्तमवैधव्यं प्रयच्छ मे ॥१॥
एवमर्घ्य दत्त्वा प्रार्थयेत् ( सावित्रोप्रार्थना ) सावित्री ब्रह्मगायत्री सर्वदा प्रियभाषिणी । तेन सत्येन मां पाहि दुःखसंसारसागरात् ॥१॥
( त्वं गौरी त्वं शची लक्ष्मीस्त्वं प्रभा चंद्रमंडले ॥ त्वमेव च जगन्माता मामुद्धर वरानने ॥२॥
सौभाग्यं कुलवृद्धिं च देहि त्वं मम सुव्रते ॥ यन्मया दुष्कृतं सर्वकृतं जन्मशतैरपि ॥ भस्मीभवतु तत्सर्वमवैधव्यं च देहि मे ॥३॥
( अथ ब्रह्मसत्यवतोः प्रार्थना ) अवियोगो यथा देव सावित्र्या सहितस्व । अवियोगस्तथास्माकं भूयाज्जन्मनिजन्मनि ॥१॥
( यमप्रार्थना ) कर्मसाक्षिञ्जगत्पूज्य सर्ववंद्य प्रसीद मे । संवत्सरं व्रतं सर्व प्रतिपूर्ण तदस्तु मे ॥१॥
( सावित्रीप्रार्थना ) सावित्री त्वं यथा देवि चतुवर्षशतायुषम् । पतिं प्राप्तासि गुणिनं मम देवि तथा कुरु ॥१॥
सावित्री च प्रसावित्री सततं ब्रह्मणः प्रिये । पूजितासि द्विजैः सर्वैः स्त्रीभिर्मुनिगणै स्तथा ॥२॥
त्रिसंध्यं देवि भूतानां वंदनीयासि सुव्रते । मया दत्ता च पूजेयं त्वं गृहान नमोस्तु ते ॥३॥
ततः सुवासिनीः संपूज्य वायनानि दत्त्वा कथाश्रवणादिनां रात्रिं निनयेत् । ततः प्रात रग्निं प्रतिष्ठाप्य आज्यभागांते गायत्रीमंत्रेण पात्यसघृततिलव्रीहिदूर्वाभिः प्रत्येकमष्टोत्तरशतं हुत्वा तिलव्रीहियवाज्यैः प्रत्येकमष्टोत्तरशतं व्याह्रतिहोमं कुर्यात् । तद्यथा । ॐ भूः स्वाहा इदमग्नये १०८ ॐ भुवः स्वाहा इदं वायवे १०८ ॐ स्वः स्वाहा इदं सूर्याय १०८ इति व्याह्रतिमंत्राः । ततो ब्रह्मादिदेवताभ्यश्वैकैकयाऽऽज्ज्याहुत्या हुत्वा होमशेषं समाप्य चतुर्विशतिं द्वादशाष्टौ चत्वारि वा मिथुनानि वस्त्रादिना संपूज्य वायनानि दद्यात् । (वायनम् ) पूरिकामोदकमंडकादिकूष्मांडनारिकेल मातुलुंगदाडिमबीजपूरादिफलहरिद्राकुंकुमकेशरविचूर्णिका कज्जलकंठं सूत्रकंकण मौक्तिकपाद भूषण व स्त्र कंचुक्यादर्श पात्रादिदक्षिणातांबूलादियुतशूर्पविहितं वायनं दद्यात् । तत्र मंत्रः । सोपस्करं द्विजश्रेष्ठ व्रतसंपूर्तिकारकम् । वायनं ते प्रयच्छमि सावित्री प्रीयतामिति ॥१॥
ततः आचांर्य सपत्नीकं वस्त्रालंकारवेष्टनैः संपूज्य सोपस्करं प्रतिमायुतं पीठं सोपस्करां शय्यां सवत्सां धेनुं च दद्यात् । ततः अन्येभ्यो ब्राह्मणभ्यो दक्षिणां दत्त्वा रात्रौ अरुंधत्यै प्रणम्य अर्घ्य दद्यात् । तत्र मंत्रः । अरुंधति नमस्तेऽस्तु वसिष्टस्य प्रिये शुभे । सर्वदेवनमस्कार्ये पतिव्रते नमोस्तु ते ॥१॥
अर्घ्यमेतन्मया दत्तं फलपुष्पसमन्वितम् । पुत्रान्देहि सुखं देहि गृहाणार्घ्य नमोस्तु ते ॥२॥
ततो यथाशक्ति ब्राह्मणान् संभोज्य तेभ्यो दक्षिणां दत्त्वा आशिषो गृहीत्वा इष्टजनैः सह भुंजीत । एवं या कुरुते नारी व्रतमेतदनुत्तमम् । भ्रातरः पितरौः पुत्राः श्वशुरः स्वजनास्तथा ॥१॥
चिरायुषस्तथाऽरोगा भवंति च न संशयः । भर्त्रा च सहिता साध्वी ब्रह्मलोके महीयते ॥२॥
इति स्कंदपुराणोक्त वटसावित्रीव्रतोद्यापनं समाप्तम् ॥ ॥ अथ सोमवत्य मावास्याव्रतोद्यापनं लिख्यते ॥ (अमावास्या तु सोमेन सप्तमी भानुना सह । चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी ॥१॥
चतस्त्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः । स्नानं दानं तथा श्राद्धं सर्व तत्राक्षयं भवेत् ॥२॥
सोमवत्यमावास्यायां प्रातर्नद्यादौ स्नात्वा नित्यक्रियां कृत्वा अश्वत्थमुदक सेचन्पूर्वकं सूत्रेण वेष्टायित्वा तन्मूले लक्ष्मीसहिताविष्णुं पुरुषसूक्तेन स्त्री चेन्नाममंत्रेण षोडशोपचारैः संपूज्य । अमायै नमः १ सोमायै नमः२ इति अमासोमयोःपूजां कुर्यात् । ततोऽश्वत्थं गंधादिना संपूज्य । अश्वत्थ हुतभुग्वासा गोविंदस्य सदा प्रिय । अशेषं हर मे पापं वृक्षराज नमोस्तु ते ॥१॥
यन्मया मनसा वाचा नियमात्पूजनं कृतम् । सर्व संपूर्णताम यातु तद्विष्णोश्व प्रसादतः ॥२॥
इति प्रार्थयेत् । ततो वायनं दत्त्वा । नमो भगवते वासुदेवाय १ इति मंत्रेण प्रतिप्रदक्षिणमेकैकफला द्यर्पणपूर्वकमष्टोत्तरशतं प्रदक्षिणाः कार्याः । इति प्रातःकृत्यम् ॥ ततो देशकालौ संकीर्त्य मम स कलपापक्षयपूर्वकमवैधव्यपुत्रपौत्रातुलसौभाग्यप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचरितसोमवत्यमावास्याव्र तोद्यापनं करिष्ये । इति संकल्प्य । आचार्यवणांतं पूर्ववत्कुर्यात् । ततः सर्वतोभद्रे ब्रह्मदिदेवताः संपूज्य हैमं लक्ष्मीनारायणं प्रतिष्ठापयेत् । तत्र मंत्र्ह । ॐ इदंविणुर्विचक्रमेत्रेधानिदधे पदम् । समूढमस्यपा सुरे ॥ ततः पुरुषसूक्तेन नाममंत्रेण वा षोडशोपचारैः संपूज्य कथाश्रवणादिना रात्रिं निनयेत् । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागंते ॥ ॐ इदंविष्णुर्वि चक्रमे०१ इति मंत्रेण अश्वत्थसमित्पायसतिलाज्यद्रव्यैः प्रत्येकमष्टोत्तरशतसंख्यया हुत्वा सर्व तोभद्रदेवताभ्यश्वैकैकयाज्याहुत्या होमं कुर्यात् । ततो होमशेषं समाप्य आचांर्य वस्त्रादिना संपूज्य सोपस्करं पीठं व्रतपूर्त्तये गां च दद्यात् । ततो द्वादश ब्राह्मणान् घृतान्वितपायसादिनान्नेन तर्पयित्वा आशिषो गृहीत्वा स्वयं भुंजीत । इति भविष्योत्तरपुराणोक्तं सोमवत्यमावास्याव्रतोद्यापनं समाप्तम् ॥ ॥ अथ गौरीतपोव्रतं तदुद्यापनं च ॥ तद्धूतं मार्गशीर्षाऽमावास्यायां कार्यम् । इदं व्रतं षोडशवर्षात्मकम् । अशकौ षोडशमात्मकम् । तत्र प्रथमेशब्दे चतुर्दश्यां नक्तममावास्यायामुपोषणं पूजनं च । प्रतिपदि पारणम् । ततो द्वितीये वर्षे अमावास्यायां नक्तं प्रतिपदि उपोषणं द्वितीयायां पारणम् एवं प्रतिवर्ष तिथिवृद्धिः । पूर्वा त्यक्ता द्वितीयामाचरेत् । एवं षोडशवर्ष कृत्वा अंते उद्यापनं कार्यम् ॥ अथोद्यापनप्रयोगः । मार्गशीर्षपूर्णिमायां प्रातः स्त्रात्वा नित्यकर्म कृत्वा शिवालये स्वगृहे वा सर्वतोभद्रं विरच्य तत्पश्चिमतः प्राङ्मुख उपविश्य देशकालौ संकीर्त्य मम पतिपुत्रादिसुखप्राप्तिपूर्वकातुलसौभाग्यधनसमृद्धिद्वारा श्रीगौरीप्रीत्यंर्थ षोडशवर्षाचरितगौरीतपोव्रतो द्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांतं पूर्ववत्कुर्यात् । ततः सर्वतोभद्रे ब्रह्मदिदेवताः संपूज्य तन्ममध्यस्थे ताम्रकलशे सुवर्णमयीं गौरीप्रतिमामीश्वर्प्रतिमां च । ॐ गौरीर्मिमाय० १ त्र्यंबकंयजामहे० २ इति मंत्राभ्यां प्रतिष्ठापयेत् । ततः पुरुषसूक्तेन नाममंत्रेण वा षोडशोपचारैः संपूजयेत् । तत्र पुष्पपूजांते अंगपूजा कार्या । तद्यथा । पार्वत्ये नमः पादौ पूजयामि १ हैमवत्यै० जानुनी पू०२ अंबिकायै० जंघे० ३ गिरीशवल्लभायै० गुह्यं० ४ गंभीरनाभ्यै० नाभिं० ५ अपर्णायै० उदरं पू० ६ महदेव्यै ह्रदयं० ७ श्रीकंठकामिन्यै० कंठं ८ षण्मुखमात्रे० मुखं० ९ लोकमोहिन्यै० ललाटं पो० १० मेनकाकुक्षित्नायै० शिरः पूजयामि११ (दक्षिणे ) सवाहनं श्रीगणेशं पूजयामि १२ (वामे ) सवाहनं स्कंदं पूजयामि १३ ततः सफलमर्घ्य दत्त्वा ताम्रपात्रे फलपूरिकातिलतंडुलसौभाग्यष्टकयुते घृतदीपमष्टतंतुमयीवर्तियुतं प्रज्वाल्य सूर्योदयपंर्यतं संरक्ष्य कथाश्रवणादिना रात्रिं निनयेत् । ततः प्रातः पुनः संपूज्य । अग्निं प्रतिष्ठाप्य आज्यभा गांते घृततिलद्रव्येण गौर्य्यै ईश्वराय च प्रत्येकं नाममंत्रेणाष्टोत्तरशत हुत्वा ब्रह्मादिदेवताभ्यश्वैकैका ज्याहुतिं हुत्वा होमांते षोडश दंपतीन् वस्त्रदिना संपूज्य । शर्करापूपमोदकपूरितान्धातुमयान् मृन्मयान्वा करकान् सदक्षिणांस्तेभ्यो दद्यात् । तत्र मंत्रः । मोदकाद्यैश्व संपूर्ण व्रतसंपूर्ति कारकम् । करकं ते प्रयच्छामि गौरी मे प्रीयतामिति ॥१॥