अथ तुलसीविवाहप्रयोगः ।
उत्तरायणे वा गुरुशुक्रोदये अथवा कार्तिके भीष्मपंचकदिनेषु तत्रापि नवम्यामेकादश्यां वा पूर्णि मायां वैवाहिकनक्षत्रे च कुंडवेद्यादिसहितं विवाहवत् मण्डपं कृत्वा प्रातर्नद्यादौ स्त्रात्वा देवर्षिपितृन्संतर्प्य नित्यकर्म समाप्य देशकालौ संकीर्त्य मम अखिल विविधपातकशमनपूर्वकाभीष्टसिद्धि द्वारा श्रीमहाविष्णुप्रीत्यर्थ तुलसीविवाहं करिष्ये । इति संकल्प्य गणेशपूजनं स्वस्तिपुण्याहवाचनं मातृकापूजनपुरः सरं नांदीश्राद्धं सूर्यादिग्रहपूजनं कुलदेवतापूजनं च यथाचारं कृत्वा आचार्या दिवरणं च पूर्वत्कुर्यात ॥ (अथवा विवाहदिने तत्पूर्वदिने वा प्रातर्नादीश्राद्धं कुर्यात् ) ततः तुलस्या आलवालं परितः कृतमण्डले विवाहवत तुलसेपुरतः षड्वप्रां श्रीधरीं वेदीं कृत्वा तुलस्या हरिद्रारोपणादि कृत्वा वेद्यां सर्वतोभद्रं विलिख्य तत्र ब्रह्मादिर्देवताः संपूज्य तन्मध्यकमले ताम्रकलशं यथाविधि संस्थाप्य तदुपरि पट्टवस्त्रं प्रसार्य तत्र सिंहासनोपरि सुवर्णमयीं विष्णुप्रतिमां तद्वामे रौप्यमयी तुलसीप्रतिमां च अग्न्युत्तारणपूर्वकं प्रतिष्ठापयेत् । तत्र मंत्रौ । आगच्छ भगवन् देव अर्चयिष्यामि केशव । तुभ्यं दास्यामि तुलसी सर्वकामप्रदो भव ॥१॥
ॐ इदंविष्णुर्विचक्रमे त्रेधानिदधेपदम् । समूढमस्यपा सुरेस्वाहा ॐ भुर्भुवः स्वर्महाविष्णो इहागच्छ इह तिष्ठ ॥१॥
ॐ तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणसदाप्रिये । ॐ भूर्भुवः स्वः तुलसि इहागच्छ इह तिष्ठ ॥ इत्यावाह्य तुलसीसहितं श्रीमहाविष्णुं पुरुषसूक्तेन षोडशोपचारैः संपूज्य ॐ अद्धयःसंभृतःपृथिव्यै० इत्यादिषण्मंत्रैः प्रार्थ्य विष्णोर्मधुर्पर्कपूजां कुर्यात् । तद्यथा । यज मानः पाद्यपात्रमदाय ॐ पाद्यं पाद्यं पाद्यम् इति त्रिः पठित्वा ॐ एतावानस्यमहिमा० १ ॐ महाविष्णवे नमः पाद्यम् । इति मंत्रेण विष्णोः पादौ प्रक्षालयेत । ततो दूर्वाक्षतफलपुष्पचंदनादि युतमर्घपात्रं गृहीत्वा ॐ अर्घोऽर्घोऽर्घः । इत्युक्ता ॐ त्रिपादूर्ध्वऽउदैत्पुरुषः० १ ॐ महाविष्णवे नमः अर्घ्यम इति मंत्रेणार्घ्य निवेदयेत । ततः आचमानीपात्रं गृहीत्वा । ॐ आचमनीय नाचमनीयमाचमनीमिति पठित्वा ॐ ततोविराडजायत् ० महविष्णवे नमः आचमनीयम् ।
इति मंत्रेणाचमनं दयात् । ततः कास्यपात्रस्थवस्त्रगालितदधिमधुघृतानि द्वितीयकांस्यस्यपात्रपि हितानि आदाय । ॐ मधुपर्क्तो मधुपर्क्तो इत्युक्तो । ॐ मधुवाताऽऋतायते० १। विष्णो दधिमधुघृतं कांस्यपात्रपुटीकृतम् । मधुपर्क गृहाण त्वं वासुदेव नमोस्तु ते ॥१॥
श्रीमहाविष्णवे नमः मधुपर्कम् इति मधुपंर्क च दत्त्वा पुनः पूर्ववत् आचमनं दद्यात् । एवं मधुपर्कपूजां कृत्वा तुलसीपूजां कुर्यात् । तत्र तावत् वस्त्रभूषनादिना तुलसीं भूषयित्वा गोधूलीयलग्ने तुलसीसं मुखां श्रीकृष्णप्रतिमां कृत्वा मंगलवाद्यैः सुगंधितैलहरिद्राभ्यां नागवल्लीदलगृहीतास्यामुष्णोदकेना भिषिच्य वस्त्रयज्ञोपवीतचंदनादि दत्त्वा तुलस्यै हरिद्राकुंकुकुमाक्तकंठसूत्राद्यलंकारांश्व दत्त्वा घंटादिवा द्यघोषेण् ॐ यदाबध्रं दाक्षायणा हिरण्यर्ठःशतानीकायसुमनस्यमानाः । तस्मऽआबध्रामिशत शारदाययुष्माञ्जरदष्टिर्यथासम् ॥१॥
इति मंत्रेणाभयोः कंकणं बद्ध्वा तुलसीं ध्यायेत् । ध्यायमि तुलसी देवीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकह्रारवराभयचतुर्भुजाम् ॥१॥
किरीट हारकेयूरकुंडलादिविभूषिताम् । धवलांशुकसंयुक्ताम पद्मासननिषेदुषीम् ॥२॥
इति ध्यानम् । भगवत्यै तुलस्यै नमः आवाहनम् १ विष्णुवल्लभायै नमः आसनम् २ सर्वदेवमयायै० पाद्यम् ३ सर्वतीर्थयायै० अर्घ्यम् ४ दैत्यांतकृत्प्रियायै० आचमनीयम् ५ सर्वलोकहितायै० स्त्रानम् ६ लक्ष्मीसहोदरायै० वस्त्रयुगम् ७ महादेव्यै० गंधम् ८ रमावासायै० पुष्पाणि ९ अभीष्टदायै० धूपम १० पापहारिण्यै० दीपम् ११ भगवत्यै० नैवेद्यम् आचमनीयं च १२ अमृतसंभूतायै० मुखवासताम्बूलम् १३ अमृतरुपिण्ये ० दक्षिणाम् १४ जगद्धात्र्यै० नीराजनम् १५ सुदक्षिणायै० प्रदक्षिणाम् १६ परमेश्वर्य्यै० पुष्पांजलिम् १७ अभीष्टदात्र्यै नमः नमस्कारम् १८ एवं संपूज्य प्रार्थना कुर्यात् । सौभाग्यं संततिं देवि धनं धान्यं च मे सदा । आरोग्यं शोकशमनं कुरु मे माधवप्रिये ॥१॥
अभीष्टफलसिद्धिं च सदा देहि हारिप्रिये । देवैस्त्वं निर्मिता पूर्वमर्च्चितासि मुनी श्वरैः ॥२॥
अतो मां सर्वदा भक्त्या कृपादृष्ट्या विलोकय । पतरायुश्व भाग्यं च सदा देहि हरिप्रिये ॥३॥
पूतनाभयसंत्रासाद्रक्षितश्व यथा हरिः । तथा संसारसंत्रासाद्रक्ष मे वंशमुत्त मम् ॥४॥
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारयणमनः प्रिये ॥५॥
एवं तुलसी संपूज्य तुलसीसंमुखां श्रीकृष्णप्रतिमां कृत्वा मध्येन्तः पटं प्रसार्य्य मंगलाष्टकपद्यानि पठेत् (तुलसीमंगलम् ) श्रीमत्कार्तिकशुल्कगा तिथिवरा चैकादशी द्वादशी तस्यां गोरजलग्नके वधुवरौ साक्षाज्जात्रायकौ । श्रीकृष्णस्तुलसीविवाहकरोत्तस्मिन्विवाहोत्सवे तौ देवौ भवतां सदा शुभकरौ लक्ष्मीकरौ मंगलम् ॥१॥
ततोंतः पटं विसृज्य अक्षतान् विकीर्य दामोदरहस्ते तुलसीदानं कुर्यात् । तद्यथा उदड्मुख उपविश्य आचम्य प्राणनायम्य शंखस्थदूर्वाक्षतफलपुष्पचंदनजला न्यादाय देशकालौ संकीर्त्य ममेह जन्मनि जन्मांते वा कृतकायिकवाचिकमान सिकसांसर्गिकदोषपरि ह्रारार्थ तथा च विष्णुप्रसन्नतार्थम् अमुकगोत्रस्यामुकप्रवरस्य अमुकशर्मणः प्रपौत्रीम् अमुकगोत्रस्य अमुकप्रवस्य अमुकशर्मणः पौत्रीम अमुकगोत्रस्य अमुकप्रवरस्य अमुकशर्मणः पुत्रीम् इत्यनेन क्रमेण त्रिरावर्त्य काश्यपगोत्राय दामोदराय महाविष्णवे वराय कन्यावत्संअर्द्धितामिमां तुलसीं श्रीरुपिणीम् यथाशक्त्यलंकृतां तुभ्यं श्रीधरायाहं संप्रददे इति संकल्प्य देवपुरतः साक्षतजलं क्षिपेत । श्रीमहाविष्णुः प्रीयतामित्युक्त्वा इमां देवीं प्रतिगृह्रातु भवानिति वदेत् । ततो देवहस्तं तुलस्याः स्पर्श कृत्वा पठेत् । अनादिमध्यानिधन त्रैलोक्यपरिरक्षक ॥ इमां गृहाणं तुलसीं विवाहविधिनेश्वर ॥१॥
पार्वतीबीजसंभूतां वृंदाभस्मनि संस्थिताम् । अनादिमध्यनिधनां वल्लभां ते ददाम्य हम् ॥२॥
पयोघटैश्व सेवाभिः कन्यावद्वर्धिता मया । त्वत्प्रियां तुलसीं तुभ्यं दास्यामि त्वं गृहाण भोः ॥३॥
( तुलसीप्रार्थना ) त्व देवी मेग्रतो भूयास्तुलसीदेवी पार्श्वयोः ॥ देवि त्वं पृष्ठतो भूयास्त्वद्दानान्मोक्षमाप्नुयाम् ॥१॥
इति संप्रार्थ्य पुनस्तौ पूज्य कोदात् कस्मा इति पठेत् । ततः कतैतत्तुलसीदानप्रतिष्ठासिद्धयर्थमिमां सुवर्णदक्षिणां तुभ्यं दामोदराय संप्रददेपुरतो हिरण्य दक्षिणामर्पयेत् ॥ ततः ॐ कोदात्कत्स्माऽअदात्कामोदात्कामादात् ॥ कामोदाताकामः प्रतिग्रहीताकामैतत्ते ॥१॥
इति मंत्रेण कृत्वा आचार्यो वेदिकायाम् अग्निं प्रतिष्ठाप्य कुश कंडिफां कृत्वा आज्यभागांते ॐ नमो भगवते वासुदेवाय स्वाहाअ इति मंत्रेण । अथवा ॐ नमो नारायणाय स्वाहा इत्यष्टक्षरेण पायसाज्यक्षौद्रतिलैरष्टोत्तशतं जुहुयात् । ततः सर्वतोभद्रदेवताभ्य एकैकाज्याहुतिं हुत्वा शेषेण स्विष्टकृदादिपूर्णाहुत्यंतं होमशेषं समापयेत् । ततः यजमानः सपत्नीकः सहामात्यैः सगोत्रजैश्व चतस्त्रः प्रदक्षिणाः कृत्वा शांतिकाध्यायां । विष्णुस्तोत्राणि च पठित्वा भेरीतूर्यादिनि स्वनैः सह स्त्रियो मंगलगायनं कुर्युः । ततः आचार्य वस्त्रभूषणदिभिः संपूज्य सोपस्करा प्रतिमाम कर्मपूर्त्तये सवासां गां सोपस्करा शय्यां च दत्त्वा ऋत्विग्भ्यो दक्षिणां च दत्वा सदन्नेन यथाशक्ति ब्रह्मणान् भोजयेत् । ततस्तेभ्यो दक्षिणां दत्त्वा ऋत्विग्भो दक्षिणां बंधुभिः सह स्वयं भोजनं कुर्यात् (सनत्कुमारसंहितायाम् ) स्वशाखोक्तविधानेन तुलस्याः करपीडनम् । कन्यादानफलं तस्य जायते नात्र संशयः ॥१॥
( अस्तीति शेष ) सोभाग्यार्थ धनार्थ च विद्यार्थ तु निवृत्तये । संतत्यर्थ प्रकर्त्तव्यं तुलस्याः पाणिपीडनम् ॥२॥
एवमेव धात्र्यश्व त्थयोर्विवाहं कुर्यात् । तदुक्तं च तत्रैव -धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत् । न नश्यते तस्य पुण्य़ं कल्पकोटिशतैरपि ॥३॥
इति तुलसीविवाहप्रयोगः समाप्तः ॥