संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ५३

व्रतोद्यापन प्रयोगः - पूजा भाग ५३

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ धात्री (आमलकी ) व्रतं तदुद्यापनं च लिख्यते ( विष्णुधर्मोत्तरे ) आश्विनपौर्णमासीमारभ्य कार्तिकपौर्णमासीपर्यतं कर्तव्यम् ‍ । अशक्तस्तु अंतिमदिनत्रय्म पूर्णिमायां वा कुर्यात् ‍ ॥ तत्र विधिः । प्रातर्नद्यादौ स्त्रात्वा नित्यकर्म संपाद्य धात्र्या आलवालं कृत्वा तन्मूले पंचरंगोपेताम वेदीं विधाय । तत्समीपए स्वासने प्राङ्‌मुख उपविश्य आचम्य प्राणानायम्य संकल्पं कुर्यात् ‍ । देशकालौ संकीर्त्य । मम अखिलपापक्षयपूर्वकधर्मार्थकाममोक्षसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यथ धात्रीमूले विष्णपूजां धात्रीपूजां च करिष्ये । इति संकल्प्य गणेशं पूजयेत् ‍ । ततो वेदिमध्ये श्रीविष्णुं संस्थाप्य । शांताकारं भुजगशयनं० १ इत्यादि ध्यात्वा ॐ सहस्त्रशीर्षा० इति पुरुषसूक्तेन षोडशोपचारैःसंपूज्य पुष्पाक्षतैरंगपूजां कुर्यात् ‍ । तद्यथा । दामोदराय नमः पादौ पूजयामि १ केशवाय० कटी०२ नारायणाय० उदरं० ३ वामनाय० कण्ठं० ४ श्रीधराय० बाहू० ५ गोविंदाय० मुखं० ६ सहस्त्राक्षाय० नेत्रे० ७ सर्वेश्वराय० ललाटं० ८ विष्णवे० ९ त्रिविक्रमाय० नमः सर्वागं० १० नमस्कारानंतरं विशेषार्घ्य पुष्पश्रीफलसंयुक्तं दद्यात् ‍ । तत्र मंत्रः । नमः सहस्त्रशीर्षाय सहस्त्राक्षाय ते नमः । नमस्ते सहस्त्रपदे पुरुषाय नमोस्तु ते ॥१॥

सहस्त्रनाम्ने देवेश प्रसीद त्व ममाच्युत । अर्घ्य गृहाण भगवन्सर्वाकामप्रदो भव ॥२॥

ततः प्रार्थयेत् ‍ । भगवन्देवदेवेश लोकनाथ जगत्पते । अक्षया संततिर्मेऽस्तु दामोदर नमोस्तु ते ॥१॥

ततो धात्र्यै नम इति नाम मंत्रेण षोडशोपचारैः धात्रीं संपूज्य अथवा षोडशनामभिः षोडशोपचारान् ‍ कल्पयेत् ‍ । शांत्यै नमः १ कान्त्यै० २ मेधायै० ३ प्रकृत्यै० ४ विष्णुपत्न्यै० ५ महालक्ष्म्यै० ६ रमायै० ७ कमलायै० ८ इंदिरायै० ९ कल्याण्यै० १० कमनीयायै० ११ सावित्र्यै० १२ जगद्वात्रै ०१३ गायत्र्यै० १४ धृत्यै० १५ अव्यक्तायै० १६ (गंधोत्तरमंगपूजा ) विश्वरुपायै नमः पादौ पू० १ सुरुपायै० कटी पू० २ अब्धिसंभवायै० ह्रदयं० ३ लोकमात्रे० मुखं० ४ धात्र्यै० शिरः पू० ५ एवं संपूज्य ततोऽष्टदिक्षु दीपान्बलिं धात्र्यै नमः इति दत्त्वा तथैवाष्टकृत्वः सूत्रेण विष्टयित्वाष्टकृत्वः प्रदक्षिणाः नमस्कारांश्व कृत्वा प्रार्थयेत् ‍ । धात्रि देवि नमस्तुभ्यं सर्वपापक्षयंकरि । वर्चस्वं कुरु मां देवि धनवंत तथा कुरु ॥१॥

पुत्रान्पौत्रान्बलं प्रज्ञां देहि मे जगदीश्वरि । संवत्सर कृतं पापं दूरिकुरु ममाक्षये ॥२॥

ततो धात्रीमूले सव्यनैव तर्पयेत् ‍ । पिता पितामहाश्वान्ये अपुत्रा ये च गोत्रिणः । वृक्षयोनिगता ये च ये च कीटत्वमागताः ॥१॥

तिर्यग्योनिगता ये च ये च ब्रह्मांडम ध्यगाः । पिशाचत्वं गता ये च ये च प्रेतत्वमागाताः ॥२॥

ते पिबंतु मया दत्तं धात्रीमूलेऽक्षयं पयः । ते सर्वे तृप्तिमायांतु धात्रीमूले निषेचनात् ‍ ॥३॥

एवं प्रत्यहं मासपर्यतं कृत्वांते उद्यापनविधिना मंडले सौवर्णी धात्रीं मूले हैमं विष्णुं पूर्ववत्संपूज्य घृताक्ततिलैरष्टोत्तरशंत पृथक्पृथक् ‍ तत्त्न्मंत्राभ्यां हुत्वाऽऽचार्याय पीठं व्रतपूर्तये गां च दत्त्वा सर्वसंपूर्णतासिद्धये सुवर्णयुक्तघृतपूरितकांस्य पात्रं दद्यात् ‍ । तत्र मंत्रः । कांस्यं ब्रह्ममयं प्रोक्तमाज्यं भोज्यं दिवौकसाम् ‍ । सुवर्णग्निदैवत्यमतः शान्तिं प्रयच्छ मे ॥१॥

ततो द्विजान् ‍ संभोज्य आशिषो गृहीत्वा स्वयं भुंजीत ॥ इति विष्णुधर्मोक्तं धात्रीव्रतोद्यापनम् ‍ ॥ अथ धात्र्यश्वात्थयोर्विवाहविधानम् ‍ (अस्मद्देशीयास्तु धात्र्यभावात् ‍ शम्यां सह विवाहं कुर्वति ) तत्र प्रयोगः । पूर्वोक्ततुलसीविवाहमासादिषु प्रातर्नद्यादौ स्नात्वा कृतनित्यक्रियो गोधूलीयलन्गे देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकभीष्टसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थम श्वत्थविवाहं करिष्ये । इति संकल्प्य गणेशपूजनादि आचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ ॥ ततः सर्वतोभद्र ब्रह्मदिदेवताः संपूज्य तन्मध्ये ताम्रकलशोपरि सुवर्णमयीं विष्णुप्रतिमां संस्थाप्य पुरुषसूक्तेन षोडशोपचारैः संपूज्य अग्निं प्रतिष्ठापयेत् ‍ । ततो धात्र्यश्वत्थयोरन्वारम्धं कृत्वा मंगलवाद्यैः सुगंधितैलहरिद्राभामुष्णोदकेनाभिषिच्य वस्त्रदिनावेष्टच यज्ञोपवीतचंदनादि दत्त्वा धात्र्यै हरिं द्राकुंकुमाक्तसूत्रं वस्त्रकंचुक्यलंकारांश्व दत्त्वा घंटादिवाद्यघोषेण अश्वथपूजां कुर्यात् ‍ । तद्यथा । आचम्य प्राणानायम्य देशकालौ स्मृत्वा । मम समस्तपापक्षयपूर्वकाभीष्टसिद्धिद्वारा श्रीपरमेश्वर प्रीर्यर्थम् ‍ अश्वत्थपूजां देशकालौ स्मृत्वा । मम समस्तपापक्षपूर्वकाभीष्टसिद्धिद्वारा श्रीपरमेश्वर प्रीत्यर्थम् ‍ अश्वत्थपूजां करिष्ये । संकल्प्य । अश्वत्थाय वरेण्याय सर्वैश्वर्यप्रदायिने । अंततः शिवरुपाय वृक्षराजाय ते नमः ॥ ॐ अश्वत्थाय नमः आवाहनम् ‍ ॥१॥

इत्यावाहयेत् ‍ । मूलतो ब्रह्मरुपाय मध्यतो विष्णुरुपिणे । नमो दुःस्वप्ननाशय सुस्वफलदायिने ॥ ॐ अश्वत्थाय नमः आसनम् ‍ ॥२॥

अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः । हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोस्तु ते ॥ ॐ अश्वत्थाय नमः पाद्यम् ‍ ॥३॥

( एवं सर्वत्र ) आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च ॥ ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते । इत्यर्घ्यम् ‍ ॥४॥

त्वं क्षीरफलकश्वैव शीतलक्ष वनस्पते । त्वामाराध्य नरो विंद्यादैहिकामुष्मिकं फलम् ‍ ॥ इत्याचमनीयम् ‍ ॥५॥

चलद्द लाय वृक्षाय सर्वदाश्रिताविष्णवे । बोधितत्त्वाय देवाय ह्यश्य्वत्थाय नमोनमः । इति स्नानम् ‍ ॥६॥

एकादशात्मरुद्रोसि वसूनां च शिरोमणिः । नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ इति वस्त्रम् ‍ ॥७॥

क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते । सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ‍ ॥ इति यज्ञोपवीतम् ‍ ॥८॥

श्रीखंडं चंदनं दिव्यं गंधाढ्यं सुमनोहरम् ‍ । विलेपनं सुरश्रेष्ठ गृहाण देव पिप्पल ॥ इति गंधम् ‍ ॥९॥

यं दृष्ट्रा मुच्यते रोगैः स्पृष्ट्रा पापैः प्रमुच्यते । यदा श्रयाच्चिरंजीवी तमश्वत्थं नमाम्यहम् ‍ ॥ इति पुष्पाणि ॥१०॥

वनस्पतिसोद्धूतः सर्वौषधिविजृंभितः ॥ आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् ‍ ॥ इति धूपम् ‍ ॥११॥

साज्यं च वर्तिसंयुक्तं वह्रिना योजितं मया । दीपं गृहाण मम ज्ञानप्रदो भव ॥ इति दीपम् ‍ ॥१२॥

नैवेद्यं गृह्यतां देव मे भक्ति ह्यचलां कुरु ॥ ईप्सितं च वरं देहि परत्रेह परां गतिम् ‍ ॥ इति नैवेद्यम् ‍ ॥१३॥

आचमनीयं च ॥ आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसंपदम् ‍ ॥ देहि देव महावृक्ष त्वामहं शरणं गतः ॥ इति पूगीफलम् ‍ ॥१४॥

ऋग्यजुः साममंत्र्यात्मा सर्वरुपी परात्परः । अश्वत्थो वेदमूलोसावृषिभिः प्रोच्यते सदा ॥ इति दक्षिणा ॥१५॥

ततो नीराजनम् ‍ । अश्वत्थ यस्मात्त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले ॥ अतःश्रुतस्त्वं तरुणां धन्योसि चारिष्ट्विनाशकोसि ॥ इति पुष्पांजलिम् ‍ ॥१६॥

यानिकानि च पापनि जन्मान्तरकृतानि च । तानि सर्वाणि मश्यंति प्रदक्षिणपदेपदे ॥ इति प्रदक्षिणाः ॥१७॥

एवं षोडशोपचारैः संपूज्य तुलसीविवाहवन्मधुपर्कादि दत्त्वा अंतः पटं धृत्वा मंगलाष्टकादिप द्यानि पठेत् ‍ । ततोऽश्वत्थाय धात्रीं दद्यात् ‍ । तद्यथा । देशकलौ संकीर्त्य ममेहजन्मनि जन्मांतत्रे वा कृतस्मस्तपक्षयार्थ परमेश्वरप्रीर्त्यर्थम् ‍ अमुकशर्मणः प्रपौत्रीम् ‍ अमुकशर्मणः पौत्रीम अमुकशर्मणः पुत्रीम् ‍ इत्यनेन क्रमेण त्रिरावर्त्य श्रीमदश्वत्थरुपिणे महाविष्णवे इमां धात्रीं कन्यावत्संवर्द्धितां श्रीरुपिणीं यथाशक्त्यलंकृतां तुभ्यश्वत्थायाहं संप्रददे । इति संकल्प्य त्रीविष्णुः प्रीयतामिति जलमुत्सृजेत् ‍ । अनादिमध्यनिधनस्त्रैलोक्यपरिरक्षक ॥ इमां शमीं गृहाण त्वं विवाहविधिनेश्वर ॥१॥

इति प्रार्थयेत् ‍ । ततो दानप्रतिष्ठासिद्धये हिरण्यदक्षिणां समर्प्य नीराजयित्वा शांतिसूक्तानि पठेत् ‍ । ततोऽऽग्रेः परिस्तरणादि कृत्वा अधारदिद्वादशाहुतीर्हुत्वा द्वादशाक्षरेण वा अष्टाक्षरेण अष्टोत्तरशत भाज्याहुतीर्दत्त्वा पूर्णाहुतिपर्यतकर्म समाप्य आचार्यादिभ्यो दक्षिणां दत्त्वा ब्राह्मणान् ‍ भोजयेत् ‍ ॥ अन्यत्संर्व तुलसीविवाहज्ज्ञेयम् ‍ । अस्य फलमुक्तं सनत्कुमारसंहितायाम् ‍ । धात्र्य्श्वत्थौ य एकत्र पालयित्वा समुद्वहेत् ‍ । न नश्यते तस्य पुण्यं कल्पकोटिशतैरपि ॥ इत्यश्वविवाह्ह ॥ अथालं कारः ॥ देशे विशाले हि मरौ बभूव वीकोजिनामा नृपतिः पुराहि ॥ तस्यैव नाम्रा खलु राजधानी लोके विकानेर इति प्रसिद्ध ॥१॥

तत्रान्तरे देवपुरोपमे पुरे श्रीरदुर्ग्गे नृपदुगमे शुभे ॥ विद्यासदाचारयुतैश्व सदूद्विजैर्वैश्यैर्धनाढ्यैर्बहुभिश्व मण्डिते ॥२॥

आसीद्वसिष्ठान्वयगौडविप्रो माध्यंदिनीयो बुधजीवराजः ॥ विवृद्धमानो विदुषां समाजे सूज्ञैर्नरैः सर्वसमृद्धिभाक् ‍ सः ॥३॥

तस्यात्मजा बाणमितास्तु सदूगुणाः सुवेदविद्याध्ययने च नैपुणाः ॥ आयातयातद्विजशुद्धप्राङणा वीर्येण संताडितवैरिदुर्गमाः ॥४॥

एतेषु मुख्यः किल रामकृष्णो ज्ञानेन स्वल्पीकृतसर्वतृष्णः ॥ स्वबुद्धितः खण्डितवैरिप्रश्नः सुभक्तिसंतर्पितदेवकृष्णः ॥५॥

तस्याभवन्राममिताः ३ सुपुत्राः स्वधर्मरक्ताः सुकलत्रमित्राः ॥ गृहेषु संलखितरम्यचित्राश्वीकान्तपूजानिरताः पवित्राः ॥६॥

इमानि नामानि भवंति तेषां चतुर्भुजाख्यो विबुधोग्रजातः ॥ कस्तूरिचन्द्राभिधसज्जनोऽपरो गुणी ज्येष्ठमुखस्तु रामः ॥७॥

तत्रापि मध्या निजवंशपालकाः कस्तूरिचन्द्राख्यमहत्सु सत्कृताः ॥ तेषां सुपुत्रावनवद्यमन्दितावास्ताम किल द्वौ नितरां धरातले ॥८॥

चातुर्थिलालाख्य गुरुमुखाख्यौ सुज्ञौ गुणाढ्यौ निजधर्मरक्तौ ॥ ज्येष्ठस्तयोर्वै खलु पण्डिताग्र्यः श्रीशंभुपादाब्ज विलग्रचित्तः ॥९॥

षट्‌शास्त्रवेत्ता निजधर्म्मतत्परः परोपकारी च निबंधकर्ता ॥ दाता मनस्वी द्विज देवभक्तो हुताऽवशिष्टान्नसदानुरक्तः ॥१०॥

यत्प्रसूर्हरबाईति पिता कस्तूरिचन्द्रकः ॥ माताहश्व श्रीरामः कृष्णात्रेयकुलोद्धवः ॥११॥

सूत्रं कात्यायनं यस्य शाखा वाजसनेयिका । श्रीवसिष्ठकुलं सोऽयं चतुर्थीलाल पंडितः ॥१२॥

एताद्दशेनाऽत्र महात्मना वै विलुप्तप्राचीननिबंधकर्त्रा ॥ द्विषण्निबंधा १२ रचिता अनेन शिवस्य सांबस्य वरप्रसादात् ‍ ॥१३॥

तत्रायमष्टमो ग्रंथः पूर्णताम गमच्छुमः ॥ अनेन प्रीयतां शंभुर्भवान्या सह सर्वदा ॥१४॥

इति श्रीमन्महाराजाधिराजक्षत्रि यकुलार्कमरुदेशान्तर्गत श्रीवीकानेराधिपतिश्रीगंगसिंहवर्मणां समाज्ञया श्रीरत्नगढनिवासिना गौडवंशोद्धवनानानिबंधकर्त्रा पण्डितश्रीचतुर्थीलालशर्मणा विरचिते श्रीचातुर्थीलालभास्करे महानिबंधे व्रतोद्यापनप्रकाशनामाष्टमोयं ग्रंथ समाप्तः ॥८॥

श्रीशंकरार्पणमस्तु ॥ ॥ ॥

॥ इति व्रतोद्यापनप्रकाशसमाप्तिः ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP