अथ पार्थिवलिंगोद्यापनम् ॥ तत्रादौ लिंगारंभकालादी लिख्यते । (शैवागमे ) कार्तिके मार्गशीर्षे वा माघवैशाखसंज्ञिते । श्रावने बहुले पक्षे व्रतस्याचरणं भवेत् ॥१॥
पुण्यारण्ये नदीतीर्थे पर्वताग्रै शिवालग्रे । श्रीवृक्षाश्वत्थतुलसीधात्रीच्छायायुते वने ॥२॥
गोष्ठे गृहे वा देवाग्निसूर्यगोविप्रसन्निधौ । शिवपूजा प्रकर्त्तव्या पूर्वपूर्व महाफलम् ॥३॥
कार्तिकादिशुभे मासे लिंगानां च समापनम् । चतुर्दशी दर्शयुक्ता चाष्टामी नवमीयुता ॥४॥
समप्तिस्तत्र कर्तव्या रौद्र युक्ते पुनर्वसौ । अन्येष्वपि च कालेषु शुभेषु च समापनम् ॥५॥
सहस्त्रं वाथ लक्षं वा कोटिं वाथ विधानतः । लिंगानां पूजयित्वा तु सर्वान्कामानवाप्नुयात् ॥६॥
शुद्धप्रदेशसंभूतां मृदमा ह्रत्य यत्नतः । शुद्धेन वारिणाभ्युक्ष्य सुसंघट्य तु तत्पुनः ॥७॥
लिंगानां संख्यया कुर्यात्पृ थकू पिंडान्यथाक्रमम् । पलद्वायान्न कर्तव्यं न्यूनं लिंगं सदैव हि ॥८॥
अखंड तु चरं लिंगं द्विखंडं स्थावरं स्मृतम् । लिंगमादौ विधायाथ पिंडिकां रचयेत्ततः ॥९॥
पक्कजंबूफलाकारं लिंगं कुर्यान्मनोहरम् । वर्तुलं चतुरस्त्रं वा समं पीठद्वयं शुभम् । साक्षतं स्थापयेत्तस्मान्निर्माणक्षण एव तत् ॥१०॥
( पूजास्थानं स्कांदे ) पाषानदारुजे देशे दर्भातरितसंस्थले । पुष्पप्रकरणसंकीर्णे माणौ वा वैदिके भुवे ॥११॥
सबिल्वताम्रपात्रे वा स्थापयेत्पार्थिवं शिवम् । मृल्लिप्तहस्त एवाशु संक्षालितकरेऽथवा ॥१२॥
यस्तु पूजयते लिंगं भक्त्या त्रिभुवनेश्वरम् । स स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ॥१३॥
आदौ कृत्वा गणेशं च लिगं कुर्यात्ततः परम् । पश्वाच्छाक्तिं ततः स्कंदं ततो लिंगान्यथाविधि ॥१४॥
हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृकू । शिवः पशुपतिश्वैव महादेव इति क्रमात् ॥१५॥
मृदानयनसंघट्टप्रतिष्ठाह्रानमेव च । स्त्रपनं पूजनं चैव क्षमस्वेति विसर्ज्जनम् ॥१६॥
अथ पार्थिवलिंगोद्यापनप्रयोगः ॥ पूर्वोक्तमासे चतुर्दश्यां वा सोमवारे प्रातर्नद्यादौ स्त्रात्वा देवर्षि पितृन्संतर्प्य धौतवाससी परिधाय भस्मत्रिपुंडं रुद्राक्षधारणं च कृत्वा संध्यादिनित्यकर्म समाप्य नित्यपूजावत् पार्थिव संपूज्य सर्वसंभारान् संपाद्य सपत्नीका मंडपं प्रविश्य स्वासने प्राङ्मुख उपविश्य आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम समस्तपापनाशपूर्वकधर्मार्थकाममोक्ष सिद्धिद्वारा श्रीभवानीशंकरप्रीतये अमुककामनया वा कृतानां पार्थिवलिंगानां संपूर्णफलावाप्तये तदुद्यापनं करिष्ये । इति सकल्प्य गणेशपूजनाद्याचार्यवरणांत कर्म कृत्वा एकादश द्वादश वा ऋत्विजो वृणुयात् । ततो द्वादशलिंगतोभद्रे ब्रह्मादिदेवताः संपूज्य तन्मध्ये ताम्रकलशोपरि रक्तपट्ट वस्त्रं प्रसार्य्य तत्र बिल्वपत्रोपरि लिंगाकारां सौवर्णी महेश्वरप्रतिमां वस्त्रद्वयवेष्टितां त्र्यंबकमंत्रेण प्रतिष्ठाप्य शिवस्य वामे ॐ गौरीर्मिमाय० १ इति मंत्रेण अथवा ॐ नमो भगवत्यै उमादेव्यै शिव प्रियायै नमः इति मंत्रेण च सौवर्णी गौरीम् । तद्दक्षिणे ॐ तत्पुरुषायविद्महेमहासेनायधीमहि । तन्नः षण्मुखः प्रचोदयात् । इति मंत्रेण सौवर्णं स्कंदम् । पुरतो राजतं वृषभं च संस्थाप्य परितः इंद्रादि लोकपालान्संस्थापयेत् ॥ अथ पूजनम् । तत्रादौ स्वशरीरे न्यासं कुर्यात् । ॐ शिवाय नमः ललाटे १ ॐ रुद्राय नमः कंठे २ ॐ ईशानाय० नाभौ ३ शंकराय० जान्वोः ४ ॐ सदा शिवाय नमः पादयोः ५ न्यासं कृत्वा ध्यायेत् । (ध्यानम् ) मंगलायतनं देव्म भवं कांतं मनोरमम् । ध्यायेत्कल्परोर्मूले समासीनं सहोमया ॥१॥
इति ध्यात्वा ॐ नमो भगवते रुद्राय इति पुष्पाक्षतान् लिंगोपरि क्षिप्त्वा पुरुषसूक्तेन पंचामृतपुरःसर्म षोडशोपचारैः संपूज्य रुद्राध्यायेनाऽभिषेकं कृत्वा कर्पूरेण नीराजयित्वा त्रिः परिक्रम्य प्रार्थयेत् । नम ॐ काररुपाय नमोक्षरवपुर्धृते । नमो नादात्मने तुभ्यं नमो बिंदुकलात्मने ॥१॥
अलिंगलिंगरुपाय रुपातीताय ते नमः । त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥२॥
त्वं भ्राता त्वं सुह्रन्मित्रं त्वं पिता त्व पितामहः । नमस्ते भगवन् रुद्र भास्करमित तेजसे ॥३॥
नमो भवाय देवाय उमया सहिताय च । सर्वाय क्षितिरुपाय सदा सुरभिणे नमः ॥४॥
पशूनां पतये चैव कामिनेऽमिततेजसे । भौमाय व्योमरुपाय शब्दरुपाय ते नमः ॥५॥
महादेवाय सोमाय अमृताय नमोनमः । उग्राय यजमानाय नमस्ते कर्मयोगिने ॥६॥
इति प्रार्थ्य क्षमापयेत् । ॐ अंगहीनं क्रियाहीनं विधिहीनं महेश्वर । पूजितातोसि मया देव तत्क्षमस्व जगत्पते ॥१॥
इति क्षमाप्य पुराणपठनादिना रात्रौ जागरणं कुर्यात् । तद्दिने उपोषणम । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते कृतलिंगदशांशेन पायसमधुशर्कराज्यतिलाक्षत बिल्वपत्रादिद्रव्यैः केवलापायसेन वा त्र्यंबकमंत्रेण अथवा नमः शिवाय इति पंचाक्षरेण होमं कृत्वा । गौरीगणेश षन्मुखेभ्यः पूर्वोक्तद्रव्यैः प्रत्येकं दशदशाहुतीः वृषभलोकपालेभ्यो दशदशतिलाहुतीर्मडल देवताभ्यश्वैकैकाज्याहुतिं च जुहुयात् । ततो होमशेषं समाप्य होमदशांशेन तर्पण तद्दशांशेन मार्जनं च कृत्वा विशेषसत्कारेण पीठस्थं देवं सांगं संपूज्य आचार्यपूजनं कृत्वा व्रतपूर्त्तये सवत्सां धेनुं द्द्यात् । ततोऽन्यानपि शिवरुपान् विप्रान् वस्त्रदक्षिणादिभिः संपूज्य सोपस्करं पीठमा चार्याय दद्यात् । तत्र मंत्रः । पीठं गृहाण भूदेव शिवशक्त्यादिसंयुतम् । वाच्छितार्थ प्रयच्छयुर्देहि मे व्रतजं फलम् ॥१॥
शिवशक्त्यात्मकं यस्माज्ज्गदेतच्चराचरम् । तस्मादेन मे सर्व करोतु भगवाञ्छिवः ॥२॥
कैलासवासी गिरिशो भगवान्भक्तवत्सलः । चराचरत्मको लिंगरुपी दिशतु वांछितम् ॥३॥
इति प्रार्थ्य मार्जनदशांशेन यथाशक्ति वा सदन्नेन ब्राह्मणान् संतर्प्य पूर्णतां वाचयित्वा इष्टजनैः सह भुंजीत । सोद्यापनं व्रतमिद यः कुर्यात्प्रयतः स तु । शिवलोकं समासाद्य तत्रैव वसते चिरम् ॥१॥
इति भविष्योत्तरपुराणशैवागमादिप्रोक्तं पार्थिव लिंगव्रतोद्यापनम् ॥