ततः अग्निं वेदिं च चतुर्वारं प्रदक्षिणीकृत्य । ॐ भिंधिविश्वा अप द्विषः परिवाधोजद्दीमृधः । वसुस्यार्गतदाभर ॥ इति मंत्रेण धरण्यां निपात्य ध्रुवसूक्तं पुरुषसूक्तं च जप्त्वा अष्टौ पदानि प्रतिदिशं गच्छेत् (एभिर्मत्रैः ) कृष्णाय वासुदेवाय हरये परमात्मने । शरण्या याप्रमेयाय गोविंदाय नमोनमः ॥१॥
नमः स्थूलाय सूक्ष्माय व्यापकायाव्ययाय च अनंताय जगद्धत्रे ब्रह्मणेऽनंतमूर्तये ॥२॥
अव्यक्तायाखिलेशाय चिद्रूपाय गुणात्मने । नमो मूर्त्ताय सिद्धाय पराय परमात्मने ॥३॥
।देवदेवाय वंद्याप पराय परमेष्ठिने । कर्त्रे विश्वस्य गोप्त्रे च तत्संहर्त्रे च ते नमः ॥४॥
ततो देवाय निवेदितं प्रापणं गृहीत्वा मूर्ध्नि कृत्वा घोषयेत् । के वैष्णवाः । के वैष्णवा । के वैष्णवाः । इत्युच्चैर्वदेत् । ततः समानाः वयं वैष्णवाः । वयं वैष्णवा । वयं वैष्णवाः । इति प्रवदेयुः । ततस्तेभ्यः समानेभ्यो हविर्दत्त्वा स्वयं ॐ भगवते वासुदेवाय । इदममृतमहं प्राश्वामीति प्राश्य आचम्य । आचार्य सिद्धये स्वाहा इत्यग्रौ आज्यं जुहुयात् । ततः ॐ यतऽइंद्रभयामहेततोनोऽअभयंकृधि । मघवञ्छग्धितवतन्नऽऊतिभिर्विद्विषोविमृधोजहि ॥ इति मंत्रेणात्मानमभिमंत्र्य प्रायश्वितहोमशेषं समापयेत् । तत उत्तरपूजां कृत्वा व्रतसमाप्त्यर्थ सवत्साम सोपस्करां सुशीलां सालंकारां दुग्धवती कृष्णां वा श्वेतां गामाचार्याय विधिवद्दद्यात् (तद्विधिस्तु प्रथमप्रकरणे पूर्वमुक्तः ) ततः सोपस्करां सालं कारां लक्ष्मीनारायणप्रतिमायुतां शय्याम च द्त्त्वा चतुर्विशतिब्राह्मणान् पूर्वोक्तकेशवादिनामभिः संपूज्य तेभ्यः पक्कन्नपूरितांबूलज्ञोपवीत फलदक्षिणायुतान् केशवादिनामांकितान् चतुर्विशतिकलशान् दद्यात् । तत्र मंत्रः । पक्कान्नपूरितं कुंभं दक्षिणावस्त्रसंयुतम् । ददामि द्विजवर्याय देवो नः प्रीय तामिति ॥१॥ paan 89
इति प्रत्येकं दद्यात् । (देवपदस्थाने केशवादिनाम्ना ऊहः कार्यः ) (अस्मद्देशे तु षडूविंशतिजलपूरितघटदानं कुर्वति तदपि समीचीनम् ) ततः पीठदानम् । देशकालौ संकीर्त्य । इदं पीठं सोपस्करं लक्ष्मीनारायणप्रतिमायुतं श्रीमहाविष्णुप्रीतये अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे । इति आचार्याय दद्यात् । ततः कलशोदकेन सपत्नीकं यजमानं पूर्वोक्तमंत्रैरभिषिच्य । अग्निं संपूज्य । यांतु देवगनाः सर्वे० १ इति विसृज्य चतुर्विशतिः षड्विंशतिर्वा ब्राह्मणान् पायसा दिना संभोज्य तेभ्यो यथाशक्ति दक्षिणां दत्त्वा तैराशिषो गृहीत्वा व्रतसंपूर्णतां वाचयेत् । जपच्छिद्रं तपच्छिद्रं यश्च्छिद्रं व्रतकर्मणि । सर्व भवतु मेऽच्छिद्रं ब्राह्मणानां प्रसादतः ॥१॥
इति ब्राह्मणान्संप्रार्थ्य अच्छिद्रं भवतु ते व्रतमिति ब्राह्मणाः प्रतिवदेयुः । अनेन कर्मणा श्रीनारायणः प्रीयतामित्युक्त्वा बांधवादिभिः सोत्सवः भुंजीत ॥
इति बोधायनोशुल्ककृष्णैका दशीव्रतोद्यापन प्रयोगः ॥
अथ मार्गशीर्षकृष्णैकादश्यां वैतरणीव्रतम् (भविष्योत्तरे ) प्रातर्नद्यादौ स्नात्वा नित्यकर्म कृत्वा देशकालौ संकीर्त्य । मम यमलोकाऽदर्शनपूर्वकविष्णुकोलप्राप्तिकामनया श्रीपरमेश्वरप्रीत्यर्थ वैतरणीव्रतं करिष्ये । इति संकल्प्य । मध्याह्रे पुनःस्नात्वा नित्यकर्म निर्वर्त्य रात्रौ कृष्णां सुरभिमानीय पूर्वाभिमुखीं संस्थाप्य । अग्रपादादारभ्य पश्वात्पादद्वयावधि गां गंधा दिभिः संपूजयेत् । तद्यथा । गोरग्रपादाभ्यां नमः १ गोरास्याय नमः २ गोः शृंगाभ्यां नमः ३ गोः स्कंधाभ्यां नमः ४ गोः पुच्छाय नमः ५ गोः पश्वात्पादाभ्यां नमः ६ गोः सर्वागेभ्यो नमः ७ इति स्थानेष्वेतेषु गंधादिनि निक्षिप्य धूपदीपनैवेद्यादिभिः संपूज्य गोः पुच्छं गृहीत्वा पूर्ववत्तर्पणं कृत्वा प्रार्थयेत् । असिपत्रादिकं घोरं नदीं वैतरणीं तथा । प्रसादात्ते तरिष्यामि गौर्मातस्ते नमोनमः ॥१॥
सुखेन तीर्यते यस्मान्नदी वैतरणी ध्रुवम् । तस्मादेकादशीं कृत्वा नाम्ना वैतरणी भवेत् ॥२॥
एवं संपूज्य नक्तव्रतं कुर्यात् । तद्यथा । मार्गशीर्षदिके भक्तं यावन्मासचतुष्टयम्स । अन्यन्मासचतुष्कं तु यावकशनमेव च॥१॥
श्रावणादिषु मासेषु चतुर्ष्वद्याच्च पायसम् । तदन्नस्य त्रयो भागागोगुस्वार्थमेव च ॥२॥
मासिमासि प्रकुर्वीत मासद्वादशकं व्रतम् । उद्यापनं ततः कुर्यात्पूर्णे संवत्सरे तदा ॥३॥
शय्या सतूलिका कार्या दंपत्योः परिधानकम् । सवत्सा कृष्णवर्णा तु धेनुः कार्या पयस्विनी ॥४॥
सौवर्णी सुरभिं कृत्वा स्थापयेत्तूलकोपरि । सुरभिं पूजयेन्मन्त्रैः पूर्वोक्तैर्भक्तिसंयुतः ॥५॥
ततस्तां गुरुवे दद्यात्सर्वं तत्र क्षमापयेत् । भारो लोहस्य दातव्यः कार्पासद्रोण संयुतः ॥६॥
वैतरण्यां समाप्त्यर्थ ब्राह्मणाय कुटुंबिने । नारी वा पुरुषो वापि व्रतस्यास्य प्रभावतः ॥७॥
राज्यं बहुदिनं भुक्त्वा स्वर्गलोके महीयते । इति । अन्यत्सर्वं पूर्ववत् । इति वैतरणी व्रतोद्यापनविधानम् ।