पदकांड - द्रव्यसमुद्देशः
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
आत्मा वस्तु स्वभावश् च शरीरं तत्त्वम् इत्य् अपि ।
द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् ॥१॥
सत्यं वस्तु तदाकारैर् असत्यैर् अवधार्यते ।
असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥२॥
अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।
गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥३॥
सुवर्णादि यथा युक्तम् स्वैर् आकारैर् अपायिभिः ।
रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् ॥४॥
आकारैश् च व्यवच्छेदात् सार्वार्थ्यम् अवरुध्यते ।
यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥५॥
तेष्व् आकारेषु यः शब्दस् तथाभूतेषु वर्तते ।
तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते ॥६॥
न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः ।
अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् ॥७॥
विकल्परूपं भजते तत्त्वम् एवाविकल्पितम् ।
न चात्र कालभेदो ऽस्ति कालभेदश् चगृह्यते ॥८॥
यथा विषयधर्माणां ज्ञाने ऽत्यन्तम् असंभवः ।
तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् ॥९॥
तथा विकाररूपाणां तत्त्वे ऽत्यन्तम् असंभवः ।
तदात्मेव च तत् तत्त्वम् अत्यम्न्तम् अतदात्मकम् ॥१०॥
सत्यम् आकृतिसंहारे यद् अन्ते व्यवतिष्ठते ।
तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते ॥११॥
न तद् अस्ति न तन् नास्ति न तद् एकं न तत् पृथक् ।
न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥१२॥
तन् नास्ति विद्यते तच् च तद् एकं तत् पृथक् पृथक् ।
संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा ॥१३॥
तस्य शब्दार्थसंबन्ध- रूपम् एकस्य दृश्यते ।
तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥१४॥
विकारापगमे सत्यं सुवर्णं कुण्डले यथा ।
विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥१५॥
वाच्या सा सर्वशब्दानां शब्दाश् च न पृथक् ततः ।
अपृथक्त्वे च संबन्धस् तयोर् नानात्मनोर् इव ॥१६॥
आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥१७॥
अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।
तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते ॥१८॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP