पदकांड - क्रियासमुद्देशः
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
यावत् सिद्धम् असिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतियते ॥१॥
कार्यकारणभावेन ध्वनतीत्य् आश्रितक्रमः ।
ध्वनिः क्रमनिवृत्तौ तु ध्वनिर् इत्य् एव कथ्यते ॥२॥
श्वेते श्वेतत इत्य् एतच् छ्वेतत्वेन प्रकाशते ।
आश्रितक्रमरूपत्वाद् अभिधानं प्रवर्तते ॥३॥
गुणभूतैर् अवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥४॥
समूहः स तत्बाभूतः प्रतिभेदम् समूहिसु ।
समाप्यते ततो भेदे कालभेदस्य संभवः ॥५॥
क्रमात् सदसतां तेषाम् आत्मानो न समूहिनाम् ।
सद्वस्तुविषयैर् यान्ति संबन्धं चक्षुरादिभिः ॥६॥
यथा गौर् इति सम्घातः सर्वो नेन्द्रियगोचरः ।
भागशस् तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥७॥
इन्द्रियैर् अन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः ।
अलातचक्रवद् रूपं क्रियाणां परिकल्प्यते ॥८॥
यथा च भागाः पचतेर् उदकासेचनादयः ।
उदकासेचनादिनां ज्ञेया भागास् तथापरे ॥९॥
यश् चापकर्षपर्यन्तम् अनुप्राप्तः प्रतीयते ।
तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥१०॥
पूर्वोत्तरैस् तथा भागैः समवस्थापितक्रमः ।
एकः सो ऽप्य् असदध्यासाद् आख्यातैर् अभिधीयते ॥११॥
कालानुपाति यद् रूपं तद् अस्तीत्य् अनुगम्यते ।
परितस् तु परिच्छिन्नं भाव इत्य् एव कथ्यते ॥१२॥
व्यवहारस्य सिद्धत्वान् न चेयं गुणकल्पना ।
उपचारो हि मुख्यस्य संभवाद् अवतिष्ठते ॥१३॥
आहितोत्तरशक्तित्वात् प्रत्येकं वा समूहिनः ।
अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥१४॥
अनन्तरं फलं यस्याः कल्पते ताम् क्रियाम् विदुः ।
प्रधानभूतां तादर्थ्याद् अन्यासां तु तदाख्यता ॥१५॥
क्रियाप्रवृत्तौ यो हेतुस् तदर्थं यद् विचेष्टितम् ।
अनपेक्ष्य प्रयुञ्जीत गच्छतीत्य् अवधारयन् ॥१६॥
सत्सु प्रत्ययरूपो ऽसौ भावो यावन् न जायते ।
तावत् परेषां रूपेण साध्यः सन्न् अभिधीयते ॥१७॥
सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान् निवर्तते ।
न क्रियावाचिनां तस्मात् प्रयोगस् तत्र विद्यते ॥१८॥
स चापूर्वापरिभूत एकत्वाद् अक्रमात्मकः ।
पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥१९॥
असन् निवर्तते तस्माद् यत् सत् तद् उपलभ्यते ।
तयोः सदसतोश् चासाव् आत्मैक इव गृह्यते ॥२०॥
जातिम् अन्ये क्रियाम् आहुर् अनेकव्यक्तिवर्तिनीम् ।
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥२१॥
अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता ।
सा व्यक्तेर् अनुनिष्पादे जायमानेव गम्यते ॥२२॥
स्वव्यापारविशिष्टानाम् सत्ता वा, कर्तृकर्मनाम् ।
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥२३॥
अन्त्ये वात्मनि या सत्ता सा क्रिया कैश् चिद् इष्यते ।
भाव एव हि धात्वर्थ इत्य् अविच्छिन्न आगमः ॥२४॥
बुद्धिं तज्जातिम् अन्ये तु बुद्धिसत्ताम् अथापरे ।
प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥२५॥
आविर्भावतिरोभावौ जन्मनाशौ तथापरैः ।
षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥२६॥
ताभ्यां सर्वप्रवृत्तीनाम् अभेदेनोपसम्ग्रहः ।
जन्मैवाश्रितसारूप्यं स्थितिर् इत्य् अभिधीयते ॥२७॥
जायमानान् न जन्र्नान्यद् विनाशे ऽप्य् अपदार्थता ।
अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥२८॥
पूर्वभागस् तु यज् जातात् तज् जन्मेत्य् अपदिश्यते ।
आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥२९॥
आख्यातशब्दैर् अर्थो ऽसाव् एवंभूतो ऽभिधीयते ।
नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥३०॥
फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् ।
तद् अन्यद् एव पूर्वेषां नाग इत्य् अपदिश्यते ॥३१॥
नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद् विना ।
कल्पते पररूपेण वस्त्व् अन्यद् अनुगम्यते ॥३२॥
भावाभावौ घटादिनाम् अस्पृशन्न् अपि पाणिना ।
कश् चिद् वेदाप्रकाशे ऽपि प्रकाशे तत एव वा ॥३३॥
व्यापि सौक्ष्म्यं क्व चिद् याति क्व चित् संहन्यते पुनः ।
अकुर्वाणो ऽथ वा किं चित् स्वशक्त्यैवं प्रकाशते ॥३४॥
सर्वरूपस्य तत्त्वस्य यत् क्रमेणेव दर्शनम् ।
भागैर् इव प्रकॢप्तिश् च तां क्रियाम् अपरे विदुः ॥३५॥
सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता ।
साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥३६॥
क्रियाम् अन्ये तु मन्यन्ते क्व चिद् अप्य् अनपाश्रिताम् ।
साधनैकार्थकारित्वे प्रवृत्तिम् अनपायिनीम् ॥३७॥
सामान्यभूता सा पूर्वं भागशः प्रविभज्यते ।
ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥३८॥
प्रकृतिः साधनानां सा प्रथमं तच् च कारकम् ।
व्यापाराणां ततो ऽन्यत्वम् अपरैर् उपवर्ण्यते ॥३९॥
बहूनां संभवे ऽर्थानां के चिद् एवोपकारिनः ।
संसर्गे कश् चिद् एसां तु प्राधान्येन प्रतीयते ॥४०॥
साध्यत्वात् तत्र चाख्यातैर् व्यापाराः सिद्धसाधनाः ।
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥४१॥
एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये ।
संख्यास् तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥४२॥
सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता ।
साध्यत्वे वा तिङन्तेन कृतां भेदो न कश् चन ॥४३॥
तत्र कारकयोगाया यद्य् आख्यातं निबन्धनम् ।
षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥४४॥
एकाभिधान एको ऽर्थो युगपच् च द्विधर्मभाक् ।
न संभवति सिद्धत्वे स साध्यः स्यात् कथं पुनः ॥४५॥
एतावत् साधनं साध्यम् एतावद् इति कल्पना ।
शास्त्र एव न वाक्ये ऽस्ति विभागः परमार्थतः ॥४६॥
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ।
प्रकल्पिता यथा शास्त्रे स घञादिस्व् अपि क्रमः ॥४७॥
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
सत्त्वभावस् तु यस् तस्याः स घञादिनिबन्धनः ॥४८॥
बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता ।
समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥४९॥
तत्र यम् प्रति साध्यत्वम् असिद्धा तं प्रति क्रिया ।
सिद्धा तु यस्मिन् साध्यत्वं न तम् एव पुनः प्रति ॥५०॥
राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते ।
पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥५१॥
मृगो धावति पश्येति साध्यसाधनरूपता ।
तथा विषयभेदेन सरणस्योपपद्यते ॥५२॥
लकृत्यक्तखलर्थानां तथाव्ययकृताम् अपि ।
रूढिनिष्ठाघञादिनाम् धातुः साध्यस्य वाचकः ॥५३॥
साध्यस्यापरिनिष्पत्तेः सो ऽयम् इत्य् अनुपग्रहः ।
तिङन्तैर् अन्तरेणेवम् उपमानं ततो न तैः ॥५४॥
साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः ।
तेनाध्यारोप एव स्याद् उपमा तु न विद्यते ॥५५॥
न्यूनेषु च समाप्तार्थम् उपमानं विधीयते ।
क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥५६॥
येनैव हेतुना हंसः पततीत्य् अभिधीयते ।
आतौ तस्य समाप्तत्वाद् उपमार्थो न विद्यते ॥५७॥
क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते ।
सिद्धेश् च प्रक्रमे साध्यम् उपमातुम् न शक्यते ॥५८॥
वनम् वृक्षा इति यथा भेदाभेदव्यपाश्रयात् ।
अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥५९॥
सामान्ये भाव इत्य् अत्र यल् लिङ्गम् उपलभ्यते ।
भेदानां अनुमेयत्वान् न तत् तेषु विवक्ष्यते ॥६०॥
निर्देशे चरितार्थत्वाल् लिङ्गं भावे ऽविवक्सितम् ।
उपमानविधित्वाच् च भावाद् अन्यत् पचादिसु ॥६१॥
भवतौ यत् पचादिनां तावद् अत्रोपदिश्यते ।
न च लिङ्गम् पचादिनां भवतौ समवस्थितम् ॥६२॥
एकश् च सो ऽर्थः सत्ताख्यः कथम् चित् कैश् चिद् उच्यते ।
लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥६३॥
आचार्यो मातुलश् चेति यथैको व्यपदिश्यते ।
सम्बन्धिभेदाद् अर्थात्मा स विधिः पक्तिभावयोः ॥६४॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP