स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः ।
तदुपव्यञ्जना जातिर् गुणावस्था गुणास् तथा॥ वाप ३,१३.१॥
शब्दोपजनितो ऽर्थात्मा शब्दसंस्कार इत्य् अपि ।
लिङ्गानां लिङ्गतत्त्वज्ञैर् विकल्पाः सप्त दर्शिताः॥ वाप ३,१३.२॥
उपादानविकल्पाश् च लिङ्गानां सप्त वर्णिताः ।
विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः॥ वाप ३,१३.३॥
तिस्रो जातय एवैताः केसां चित् समवस्थिताः ।
अविरुद्धा, विरुद्धाभिर् गोमहिष्यादिजातिभिः॥ वाप ३,१३.४॥
हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः ।
अतस् तां जातिम् इच्छन्ति द्रव्यादिसमवायिनीम्॥ वाप ३,१३.५॥
परतन्त्रस्य यल् लिङ्गम् अपोद्धारे विवक्षिते ।
तत्रासौ शब्दसंस्कारः शब्दैर् एव व्यपाश्रितः॥ वाप ३,१३.६॥
बुद्ध्या कल्पितरूपेषु लिङ्गेष्व् अपि च संभवः ।
स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर् व्यपदिश्यते॥ वाप ३,१३.७॥
यथा सलिलनिर्भासा मृगतृष्णासु जायते ।
जलोपलब्ध्यनुगुणाद् बीजाद् बुद्धिर् जले ऽसति॥ वाप ३,१३.८॥
तथैवाव्यपदेश्येभ्यो हेतुभ्यस् तारकादिषु ।
मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः॥ वाप ३,१३.९॥
व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् ।
अव्यक्तव्यञ्जनाव्यक्तेर् जातिर् न परिकल्प्यते॥ वाप ३,१३.१०॥
अस्तित्वं च प्रतिज्ञाय सदादर्शनम् इच्छतः ।
अत्यन्तादर्शने न स्याद् असत्त्वं प्रति निश्चयः॥ वाप ३,१३.११॥
न चालम् अनुमानाय शब्दो ऽदर्शनपूर्वकः ।
सिद्धे हि दर्शने किं स्याद् अनुमानप्रयोजनम्॥ वाप ३,१३.१२॥
आविर्भावस् तिरोभावः स्थितिश् चेत्य् अनपायिनः ।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः॥ वाप ३,१३.१३॥
सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे ।
त्रयः सत्त्वादिधर्मास् ते सर्वत्र समवस्थिताः॥ वाप ३,१३.१४॥
रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् ।
का चित् प्रलीयते का चित् कथं चिद् अभिवर्धते॥ वाप ३,१३.१५॥
क्वथितोदकवच् चैषाम् अनवस्थितवृत्तिता ।
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता॥ वाप ३,१३.१६॥
प्रवृत्तेर् एकरूपत्वं साम्यं वा स्थितिर् उच्यते ।
अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते॥ वाप ३,१३.१७॥
गुणा इत्य् एव बुद्धेर् वा निमित्तत्वं स्थितिर् मता ।
स्थितेश् च सर्वलिङ्गानां सर्वनामत्वम् उच्यते॥ वाप ३,१३.१८॥
स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः ।
कस्य चिच् छब्दसंस्कारे व्यापारः क्व चिद् इष्यते॥ वाप ३,१३.१९॥
संनिधाने निमित्तानां किं चिद् एव प्रवर्तकम् ।
यथा तक्षादिशब्दानां लिन्गेषु नियमस् तथा॥ वाप ३,१३.२०॥
भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः ।
यद् यद् धर्मे ऽङ्गताम् एति लिङ्गं तत् तत् प्रचक्षते॥ वाप ३,१३.२१॥
स्वरभेदाद् यथा शब्दाः साधवो विषयान्तरे ।
लिङ्गभेदात् तथा सिद्धात् साधुत्वम् अनुगम्यते॥ वाप ३,१३.२२॥
प्रयोगो विप्रयोगश् च लोके यत्रोपलभ्यते ।
शास्त्रम् आरभ्यते तत्र न प्रयोगाविपर्यये॥ वाप ३,१३.२३॥
उपाधिभेदाद् अर्थेषु गुणधर्मस्य कस्य चित् ।
निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता॥ वाप ३,१३.२४॥
हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वम् अवस्थितम् ।
ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता॥ वाप ३,१३.२५॥
शब्दान्तरानां भिन्ने ऽर्थ उपायाः प्रतिपत्तये ।
एकताम् इव निश्चित्य लघ्वर्थम् उपदर्शिताः॥ वाप ३,१३.२६॥
उत्पत्तिः प्रसवो ऽन्येषां नाशः संस्त्यानम् इत्य् अपि ।
आत्मरूपं तु भावानां स्थितिर् इत्य् अपदिश्यते॥ वाप ३,१३.२७॥
दृष्टं निमित्तं केसां चिज् जात्यादिवद् अवस्थितम् ।
दृष्टवच् छब्दसंस्कार- मात्रं तु परिकल्पितम्॥ वाप ३,१३.२८॥
यथा प्रसिद्धे ऽप्य् एकत्वे नानात्वाभिनिवेशिनः ।
नानात्वं जनयन्तीव शब्दा लिङ्गे ऽपि स क्रमः॥ वाप ३,१३.२९॥
इदं वेयम् अयं वेति शब्दसंस्कारमात्रकम् ।
निमित्तदर्शनाद् अर्थे कैश् चित् सर्वत्र वर्ण्यते॥ वाप ३,१३.३०॥
नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते ।
इन्द्रियादि यथादृष्टं भेदहेतुस् तद् इष्यते॥ वाप ३,१३.३१॥