पदकांड - दिक्समुद्देशः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


दिक् साधनम् क्रिया काल इति वस्त्वभिधायिनः ।
शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः ॥१॥

व्यतिरेकस्य यो हेतुर् अवधिप्रतिपाद्ययोः ।
ऋज्व् इत्य् एवम् यतो ऽन्येन विना बुद्धिः प्रवर्तते ॥२॥

कर्मनो जातिभेदानाम् अभिव्यक्तिर् यदाश्रया ।
सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते ॥३॥

परापरत्वे मूर्तिनां देशभेदनिबन्धने ।
तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥४॥

आकाशस्य प्रदेशेन भागैश् चान्यैः पृथक् पृथक् ।
सा संयोगविभागानाम् उपाधित्वाय कल्पते ॥५॥

दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते ।
शक्तयः खलु भावानाम् उपकारप्रभाविताः ॥६॥

प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्य् अभिधीयते ।
पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा ॥७॥

स्वाङ्गाद् व्यवस्था या लोके न तस्याम् नियता दिशः ।
प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥८॥

देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते ।
रूढम् अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते ॥९॥

अतो भाषितपुंस्कत्वात् पुंवद्भावो न सिध्यति ।
अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते ॥१०॥

दिक्शक्तेर् अभिधाने तु नियतं दिशि दर्शनम् ।
पूर्वादिनां यथा षष्टेर् जीवितस्यावधारणे ॥११॥

छायाभाभ्यां नगादीनाम् भागभेदः प्रकल्पते ।
अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥१२॥

परमाणोर् अभागस्य दिशा भागो विधीयते ।
भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥१३॥

अदेशाश् चाप्य् अभागाश् च निष्क्रमा निरुपाश्रयाः ।
भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥१४॥

निर्भागात्मकता तुल्या परमाणोर् घटस्य च ।
भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः ॥१५॥

यतः प्रकल्पते भेदो भेदस् तत्रापि दृश्यते ।
अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः ॥१६॥

सर्वत्र तस्य कार्यस्य दर्शनाद् विभुर् इष्यते ।
विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः ॥१७॥

चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना ।
प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति ॥१८॥

संकरो व्यवहाराणां प्रकृतेः स्याद् विपर्यये ।
तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते ॥१९॥

तस्यास् तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः ।
भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥२०॥

अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः ।
पूर्वम् अस्येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये ॥२१॥

पूर्वादिनां विपर्यासो ऽदृष्टश् चावध्यसंकरे ।
ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते ॥२२॥

अन्तःकरणधर्मो वा बहिर् एवं प्रकाशते ।
अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥२३॥

एकत्वम् आसां शक्तीनां नानात्वं वेति कल्पने ।
अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥२४॥

विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः ।
भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते ॥२५॥

नैकत्वम् अस्त्य् अनानात्वं विनैकत्वेन नेतरत् ।
परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते ॥२६॥

न शक्तीनां तथा भेदो यथा शक्तिमताम् स्थितिः ।
न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते ॥२७॥

नैकत्वं व्यवतिष्ठेत नानात्वं चेन् न कल्पयेत् ।
नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् ॥२८॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP