पदकांड - वृत्तिसमुद्देशः २

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


यथौषधिरसाः सर्वे मधुन्य् आहितशक्तयः ।
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः  ॥१०१॥

भेदानां वा परित्यागात् संख्यात्मा स तथाविधः ।
व्यापाराज् जातिभागस्य भेदापोहेन वर्तते  ॥१०२॥

अगृहीतविशेषेण यथा रूपेण रूपवान् ।
प्रख्यायते न शुक्लादि- भेदरूपस् तु गृह्यते  ॥१०३॥

भेदरूपसमावेशे तथा सत्य् अविवक्षिते ।
भागः प्रकाशितः कश् चिच् छास्त्रे ऽङ्गत्वेन गृह्यते  ॥१०४॥

संक्ःयासामान्यरूपेण तदा सो ऽम्शः प्रतीयते ।
अर्थस्यानेकशक्तित्वे शब्दैर् नियतशक्तिभिः  ॥१०५॥

अव्ययानां च यो धर्मो यश् च भेदवतां क्रमः ।
अभिन्नव्यपदेशार्हम् अन्तरालं तद् एतयोः  ॥१०६॥

अलुकश् चैकवद्भावस् तस्मिन् सति न शिष्यते ।
स च गोषुचरादीनां धर्मो ऽस्ति वचनान्तरे  ॥१०७॥

जातौ द्विवचनाभावात् तद् वृत्तिषु न विद्यते ।
प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः  ॥१०८॥

आश्रयाद् भेदवत्तायाः सर्वभेदसमन्वयः ।
द्रव्याभिधानपक्षो ऽपि जात्याख्यायां न विद्यते  ॥१०९॥

सर्वद्रव्यगतिश् चैवम् एकशेषश् च नोच्यते ।
प्रत्याख्याते ऽन्यथा सूत्रे भिन्नद्रव्यगतिर् भवेत्  ॥११०॥

वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते ।
अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति  ॥१११॥

प्राग् वृत्तेर् युक्तवद्भावे षष्ठी भेदाश्रया भवेत् ।
वृत्तौ संख्याविशेषाणां त्यागाद् भेदो निवर्तते  ॥११२॥

विद्यमानासु संख्यासु के चित् संख्यान्तरं विदुः ।
अभेदाख्यम् उपग्राहि वृत्तौ तच् चोपजायते  ॥११३॥

व्यापारं याति भेदाख्यैस् तत् स्वैर् अवयवैः क्व चित् ।
आत्मा भेदानपेक्षो ऽस्य क्व चिद् एति निमित्तताम्  ॥११४॥

दास्याः पतिर् इति व्यक्तो गोदाव् इति च दृश्यते ।
व्यापारभेदः संख्यायास् तस्माद् एव व्यवस्थितः  ॥११५॥

द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते ।
विभक्तिवाच्यः स्वार्थत्वान् निमित्तं त्व् अवतिष्ठते  ॥११६॥

द्वित्वोपसर्जने सङ्घे द्विशब्दस् तत्र वर्तते ।
सो ऽयम् इत्य् अभिसंबन्धाद् उभशब्दे न तत् तथा  ॥११७॥

उभयस् तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।
सूत्रे ऽपि नित्यग्रहणं तदर्थम् अभिधीयते  ॥११८॥

आपि के चापरार्थत्वान् नाभेद उपजायते ।
उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते  ॥११९॥

स्त्रीत्वाभिधानपक्षे ऽपि गुणभावविपर्ययः ।
स्वभावाद् अपरार्थत्वात् तत्र भेदो न हीयते  ॥१२०॥

तस्माद् द्विवचनाट् टापश् चोभयो ऽन्यत्र दृश्यते ।
प्रत्ययं तयपं हित्वा नास्त्य् उत्तरपदे पुनः  ॥१२१॥

प्राप्तिः प्रगृह्यसंज्ञाया न स्यात् प्रत्ययलक्षणात् ।
कुमार्यगारे न ह्य् अस्ति समासो वचनान्तरे  ॥१२२॥

एकद्वयोर् यञादिनां विभाषा लुङ् न कल्पते ।
यौष्माकस् तावकश् चेति भेदाभावान् न सिध्यति  ॥१२३॥

दृष्टो गार्ग्यतरे भेदस् तथा गर्गतरा इति ।
युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ  ॥१२४॥

उपाधिभूता या संख्या प्रकृतौ समवस्थिता ।
आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना  ॥१२५॥

शौर्पिके मासजाते च परिमाणं स्वभावतः ।
उपाधिभूताम् आश्रित्य संख्यां भेदेन वर्तते  ॥१.२६॥

वयस्विनि परिच्छेदः क्रीते चापि न गम्यते ।
इष्टो ऽभेदाद् ऋते तत्र पतिमाणम् अनर्थकम्  ॥१२७॥

भिन्नस्याभेदवचनात् प्रस्थादिभ्यः शसो विधिः ।
तद्धर्मत्वाद् अभेदात् तु घटादिभ्यो न दृश्यते  ॥१२८॥

श्रूयते वचनं यत्र भावस् तत्र विशिष्यते ।
निवर्तते यद् वचनं तस्य भावो न विद्यते  ॥१२९॥

कार्यं सत्ताश्रयं शास्त्राद् अप्रवृत्तिर् अदर्शनम् ।
वाक्ये दृष्टं यद् अत्यन्तम् अभावस् तस्य वृत्तिषु  ॥१३०॥

सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् ।
श्रूयमानं तु वचनं विशिष्टम् उपलभ्यते  ॥१३१॥

अभावो वा लुको यत्र रूपवान् वा विधीयते ।
व्यभिचारान् निमित्तस्य तत्रासाधुः प्रसज्यते  ॥१३२॥

भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः ।
सर्वत्रैव विशेषस् तु नावश्यं तादृशो भवेत्  ॥१३३॥

आतेश् च भेदहेतुत्वान् न लिङ्गेन विशेष्यते ।
प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः  ॥१३४॥

अभेदे लिङ्गसंख्याभ्यां योगाच् छुक्लं पटा इति ।
प्रसक्ते शास्त्रम् आरब्धं सिद्धये लिङ्गसंख्ययोः  ॥१३५॥

परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते ।
गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते  ॥१३६॥

शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः ।
वृत्तेर् अभिन्नरूपत्वात् तेषु वृत्तिर् न विद्यते  ॥१३७॥

रूपाच् च शब्दसंस्कारः सामान्यविषयो यतः ।
तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते  ॥१३८॥

सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना ।
संबध्यते पदं तत्र तयोर् भिन्ना श्रुतिर् भवेत्  ॥१३९॥

भाविनो बहिरङ्गस्य वचनाद् आश्रयस्य ये ।
लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते  ॥१४०॥

विशेषवृत्तेर् अपि च रूपाभेदाद् अलक्षितः ।
यस्माद् विशेषस् तेनात्र भेदकार्यं न कल्पते  ॥१४१॥

विशेष एव सामान्यं विशेसाद् भिद्यते यतः ।
अभेदो हि विशेषाणाम् आश्रितो विनिवर्तकः  ॥१४२॥

यद् यद् आश्रीयते तत् तद् अन्यस्य विनिवर्तकम् ।
भेदाभेदविभागस् तु सामान्ये न निरूप्यते  ॥१४३॥

अपोद्धारश् च सामान्यम् इति तस्योपकारिनः ।
निमित्तावस्थम् एवातस् तत् स्वधर्मेण गृह्यते  ॥१४४॥

अनिर्धारितधर्मत्वाद् भेदा एव विकल्पिताः ।
निमित्तैर् व्यपदिश्यन्ते सामान्याख्याविशेसिताः  ॥१४५॥

यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः ।
प्रयोगेष्व् एव साधुत्वं वाक्ये प्रक्रम्यते तदा  ॥१४६॥

तत्र प्रयोगो ऽनियतो गुणानाम् आश्रयैः सह ।
सामान्यं यत् तद् अत्यन्तं तत्रैव समवस्थितम्  ॥१४७॥

न गोत्वं शाबलेयस्य गौर् इति व्यपदिश्यते ।
शुक्लत्वं बाहुलेयस्य शुक्ल इत्य् अपदिश्यते  ॥१४८॥

व्यतिरेके च सत्य् एवं मतुपः श्रवनं भवेत् ।
लुग् अन्वाख्यायते तस्माद् रसादिभ्यश् च नास्ति सः  ॥१४९॥

यत् सो ऽयम् इति संबन्धाद् रूपाभेदेन वर्तते ।
शुक्लादिवत् ततो लोपस् तद् रसादौ न विद्यते  ॥१५०॥

आवेशो लिङ्गसंख्याभ्यां क्व चिन् मञ्चादिवत् स्थितह् ।
सो ऽयम् इत्य् अभिसंबन्धे स प्रस्थादौ न विद्यते  ॥१५१॥

लिङ्गम् लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् ।
सो ऽयम् इत्य् अभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनि  ॥१५२॥

आश्रये लिङ्गसंख्याभ्याम् आश्रितं व्यपदिश्यते ।
विशेषणानां चाजातेर् इति शास्त्रव्यवस्थया  ॥१५३॥

निमित्तानुविधायित्वाद् ये धर्मा भेदहेतुषु ।
त आश्रये ऽपि विद्यन्त इति बुद्धिर् निवर्त्यते  ॥१५४॥

आख्यायते च शास्त्रेण लोकरूढा स्वभावतः ।
निमित्ततुल्या गोदादौ प्रवृत्तिर् लिङ्गसंख्ययोः  ॥१५५॥

हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु ।
मनुष्यलुब्विशेषाणाम् अभिधेयाश्रयं द्वयम्  ॥१५६॥

जातिप्रयोगे जात्या चेत् संबन्धम् उपगच्छति ।
विशेषणं ततो धर्माञ् जातेस् तत् प्रतिपद्यते  ॥१५७॥

लुबन्ते संनिपतितं जातेर् अन्यद् विशेषणम् ।
लुबन्तस्य प्रधानत्वात् तद्धर्मैर् व्यपदिश्यते  ॥१५८॥

नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये ।
भेदा भाष्यानुसारेण वाच्यास् ते लिङ्गसंख्ययोः  ॥१५९॥

यदि षष्ठीद्वितीयान्तान् निकृष्टात् तमबादयः ।
न्यक्कारिणि स्युर् उत्कृष्टे प्रकृतेः स्याद् विलिङ्गता  ॥१६०॥

काल्यां कालाद् द्वितीयान्तात् काले काल्यास् तरब् भवेत् ।
न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत्  ॥१६१॥

न्यक्कर्तृषु च गर्गेषु गार्ग्यात् स्यात् तच् च नेष्यते ।
कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः  ॥१६२॥

षष्ठ्यन्ताद् अधिके तस्माद् गुणे स्वाश्रयवर्तिनि ।
उत्कृष्टसमवेतायां क्रियायां वा विधीयते  ॥१६३॥

उपात्तं च प्रकृत्यर्थो द्रव्यम् एवाश्रयस् तयोः ।
सो ऽयम् इत्य् अभिसंबन्धाद् अभेदेन प्रतीयते  ॥१६४॥

रूपाभेदाच् च तद् द्रव्यम् आकाङ्क्षावत् प्रतीयते ।
विशेषैर् भिन्नरूपैस् तद् आश्रयैर् इव युज्यते  ॥१६५॥

भिन्नरूपेसु यल् लिङ्गं विशेषेसु व्यवस्थितम् ।
संख्या च ताभ्याम् द्रव्यात्मा सो ऽभिन्नो व्यपदिश्यते  ॥१६६॥

आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः ।
कर्तृस्थभावकः शेतिर् अतो भाष्य उदाहृतः  ॥१६७॥

निमित्तम् आश्रयत्वेन गृह्येत यदि साधनम् ।
कर्मापदिष्टयोः प्राप्तिस् तत्र स्याल् लिङ्गसंख्ययोः  ॥१६८॥

शास्त्रे निमित्तभावेन समुदायाद् अपोद्धृतः ।
स्त्र्यर्थस् तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा  ॥१६९॥

स्त्रीशब्दो गुणशब्दत्वात् तुल्यधर्मा सितादिभिः ।
गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये  ॥१७०॥

स्त्र्यर्थः संस्त्यानवद् द्रव्यं प्रकृत्यर्थश् च यद्य् असौ ।
द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति  ॥१७१॥

संस्त्यानेन क्व चिद् द्रव्यं दृष्टं यद्य् उपलक्षितम् ।
अनङ्गीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत्  ॥१७२॥

भूतादयः षडाख्याश् च संस्त्यानेनोपलक्षिते ।
ब्राह्मण्यादौ यदा वृत्तास् तेभ्यः स्युः प्रत्ययास् तदा  ॥१७३॥

तद्वन्तो हि प्रधानत्वात् प्रत्ययाणाम् प्रयोजकाः ।
सामानाधिकरैण्ये ऽपि तस्माट् टाबादिसंभवः  ॥१७४॥

गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा ।
प्रकृत्यर्थश् च संस्त्यानं स्वार्थिकाः प्रत्ययास् तदा  ॥१७५॥

संस्त्याने केवले वृत्तिः प्रकृतीनाम् न विद्यते ।
तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः  ॥१७६॥

उपकारि च संस्त्यानं येषु शब्देष्व् अपेक्षितम् ।
तेभ्यष् टाबादयस् तच् च भूतादिष्व् अविवक्षितम्  ॥१७७॥

संस्त्यानं प्रत्ययस्यार्थः शुद्धम् आश्रीयते यदा ।
तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति  ॥१७८॥

जातिश् चेत् स्त्रीत्वम् एवासौ भेदो ऽन्यत्राविवक्षितः ।
यस्माद् भिन्नैर् अपि द्रव्यैस् तद् एकं सद् विशिष्यते  ॥१७९॥

मात्राणाम् हि तिरोभावे परिमाणम् न विद्यते ।
कुमार्य इति तेन स्यात् कुमार्यां भेदसंभवात्  ॥१८०॥

जातिसंख्यासमाहारैर् यथैव सहचारिणि ।
द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते  ॥१८१॥

मूर्तिभ्यो मूर्तिधर्माणाम् तथाभेदस्य दर्शनात् ।
सामानाधिकरण्यं च क्रियायोगश् च कल्पते  ॥१८२॥

सामानाधिकरण्ये तु मतुब्लोपाद् अपेक्षिते ।
लुक् तद्धितलुकीति स्याल् लुक् तत्राप्य् उपलक्षणम्  ॥१८३॥

केसां चित् त्यक्तभेदेषु द्रव्येष्व् एव विधीयते ।
संस्त्यानवत्सु टाबादिर् अभेदेन समन्वयात्  ॥१८४॥

सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः ।
क्रियाभिर् युज्यते भेदैर् भागशश् चावतिष्ठते  ॥१८५॥

शुक्लादिष्व् आश्रयद्रव्यं प्राधान्येनाभिधीयते ।
स्त्रीत्वं तु प्रत्ययार्थत्वाद् अभिधाविषयो यतः  ॥१८६॥

सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयं प्रतिपद्यते ।
स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः  ॥१८७॥

साकाङ्क्षत्वाद् गुणत्वेन सामान्यं वोपदिश्यते ।
व्यक्तीनाम् आत्मधर्मो ऽसाव् एकप्रख्यानिबन्धनः  ॥१८८॥

एवम्भूता च सावस्था भागभेदपरिग्रहे ।
कृते बुद्ध्यैव भेदानाम् आश्रयत्वे च कल्पिते  ॥१८९॥

निस्कृष्टेष्व् अपि भेदेषु व्यक्तिरूपाश्रये ततः ।
लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते  ॥१९०॥

अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् ।
अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते  ॥१९१॥

विकल्पवति वा वृत्तिर् निवर्त्ये ऽथ समुच्चिते ।
तेषाम् अज्ञातशक्तीनां द्योतकेन नियम्यते  ॥१९२॥

वृत्तौ विशिष्टरूपत्वाच् चशब्दो विनिवर्तते ।
अर्थभेदे ऽपि सारूप्यात् तच् चार्थेनापदिश्यते  ॥१९३॥

चस्य चासत्त्वभूतो ऽर्थः स एवाश्रियते यदि ।
तद्धर्मत्वं ततो द्वन्द्वे चादिष्व् अर्थकृतं हि तत्  ॥१९४॥

चार्थः शब्दे क्व चिद् भेदात् कथं चित् समवस्थितः ।
द्योतकाश् चादयस् तस्य वक्ता द्वन्द्वस् तु तद्वताम्  ॥१९५॥

विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता ।
द्योतकत्वान् न कल्पेत तस्मात् सद् उपलक्ष्यते  ॥१९६॥

तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते ।
शब्दः कश् चित् तम् एवार्थं कथं चित् प्रतिपद्यते  ॥१९७॥

शब्दाद् अर्थाः प्रतायन्ते स भेदानां विधायकः ।
अनुमानं विवक्षायाः शब्दाद् अन्यन् न विद्यते  ॥१९८॥

समुच्चितः स्याद् द्वन्द्वार्थो गुणभूतसमुच्चयः ।
समुच्चयो वापि भवेद् गुणभूतसमुच्चितः  ॥१९९॥

समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः ।
समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम्  ॥२००॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP