पदकांड - वृत्तिसमुद्देशः ६
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
न हि ब्राह्मण इत्य् अत्र भेदः कश् चिद् अपाश्रितः ।
अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥५०१॥
क्रिया त्व् आश्रीयते यस्मिन् स भेदो ऽध्यवसीयते ।
तथान्यथा सर्वथा चेत्य् अप्रयोगे न विद्यते ॥५०२॥
उपमाने क्रियावृत्तिम् उपमेये क्रियाश्रुतिः ।
प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥५०३॥
व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते ।
क्रियावद्वचनाच् छब्दात् प्रत्ययः प्रतिपाद्यते ॥५०४॥
क्रियावतो ऽपि सादृश्ये वक्तुम् इष्टे क्रियावता ।
अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥५०५॥
अधीते तुल्य इत्य् एवं पुंल्लिङ्गेन विशेषणम् ।
क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥५०६॥
प्रकृत्यर्थे विशिष्टे ऽपि प्रत्ययार्थाविशेषणात् ।
पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥५०७॥
याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः ।
ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर् भवेत् ॥५०८॥
अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्य् अपि ।
क्रियास् तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥५०९॥
क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् ।
प्रधानानुग्रहात् साम्याद् विभक्तेश् चावतिष्ठते ॥५१०॥
प्रकृतेर् अविशिष्टत्वात् क्रियातुल्ये प्रसज्यते ।
पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥५११॥
स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः ।
अनिमित्तं वतेस् तुल्यं यातीत्य् अत्रेष्यते वतिः ॥५१२॥
द्वयं विशेष्यते तेन यद् एकत्र विशेषणं ।
तुल्यशब्दो हि तं धर्मम् उभयस्थम् अपेक्षते ॥५१३॥
एकः समानो धर्मश् चेद् उपमानोपमेययोः ।
तुलया संमितं तुल्यम् इति तत्रोपपद्यते ॥५१४॥
सूत्रे श्रुतश् च द्विष्ठो ऽसाव् अभेदेन प्रतीयते ।
न च सामान्यशब्दत्वाद् अश्रुता गम्यते क्रिया ॥५१५॥
अश्रुताश् च प्रतीयन्ते निदेशस्थायितादयः ।
ये धर्मा नियतास् तेषां पुत्रादिषु न विद्यते ॥५१६॥
अनाश्रितक्रियस् तस्मान् न तुल्यो ऽस्ति क्रियावता ।
क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥५१७॥
द्वयोः प्रतिविधानाच् च ज्यायस्त्वम् अभिधीयते ।
नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे ॥५१८॥
असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः ।
विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥५१९॥
क्रियावतस् तु ग्रहणात् प्रकृत्यर्थविशेषणे ।
क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥५२०॥
यदा क्रियानिमित्तं तु सादृश्यं स्यात् क्रियावतोः ।
क्रियावतो ऽभिधेयत्वात् तदा द्रव्याभिधायिता ॥५२१॥
अव्ययेषु वतेः पाठः कार्यस् तत्र स्वरादिवत् ।
ब्राह्मणेन समो ऽध्येतेत्य् अत्र च प्रत्ययो भवेत् ॥५२२॥
सामानाधिकरण्यं च वत्यर्थेनापदिश्यते ।
तुल्यम् इत्य् अन्यथा कल्प्यो वाक्यशेषो ऽश्रुतो भवेत् ॥५२३॥
क्रियावतोश् च सादृश्ये प्रत्ययार्थविशेषणे ।
अध्येत्रा सदृशो ऽध्येतेत्य् अत्र नास्ति वतेर् विधिः ॥५२४॥
तुल्यार्थैर् इति या तस्यास् तृतीयाया न भिद्यते ।
अर्थो भेदे ऽपि सर्वाभिर् इतराभिर् विभक्तिभिः ॥५२५॥
भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना ।
पश्यति ब्राह्मणम् इव तुल्यं विप्रेण पश्यति ॥५२६॥
ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना ।
दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥५२७॥
ब्राह्मणाद् इव वैश्यात् त्वम् अधीष्वाध्ययनं बहु ।
इत्य् एवमादिभिर् भेदस् तृतीयाया न कश् चन ॥५२८॥
तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् ।
मधुरायाश् च मातुश् च कथं सादृश्यकल्पना ॥५२९॥
मधुराविषयः पाठः स्मरणं मातृकर्मकम् ।
मधुरामातृशब्दाभ्याम् अभेदेनाभिधीयते ॥५३०॥
उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर् यथा ।
वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥५३१॥
यथाध्ययनयोः साम्यम् अध्येत्रोर् अपदिश्यते ।
तथा क्रियागतैर् धर्मैर् उच्यन्ते साधनाश्रयाः ॥५३२॥
इवार्थे यच् च वचनं पूर्वसूत्रे च यो विधिः ।
क्रियाशब्दश्रुतौ भेदो न कश् चिद् विद्यते तयोः ॥५३३॥
यद्य् अप्य् उपाधिर् अन्यत्र नियतो न प्रयुज्यते ।
रूपाभेदात् त्व् अनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥५३४॥
यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः ।
सत्य् अपि प्रत्ययार्थत्वे भेदाभावाद् उदाहृताः ॥५३५॥
एवं च सति पूर्वेण सिद्धो ऽत्रापि वतेर् विधिः ।
नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥५३६॥
इवे द्रव्यादिविषयः प्रत्ययः पुनर् उच्यते ।
क्रियाणाम् एव सदृश्वे पूर्वसूत्रे विधीयते ॥५३७॥
मधुरायाम् इव गृहा ब्राह्मणस्येव पाण्डुराः ।
इत्य् अत्र द्रव्यगुणयोः पूर्वेण न वतिर् भवेत् ॥५३८॥
आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते ।
ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति ॥५३९॥
मधुरावयवे वृत्तिर् व्वाख्याता मधुराश्रुतेः ।
ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥५४०॥
न का चिद् इवयोगे तु बाह्यात् संबन्धिनो ।
षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥५४१॥
आधिक्यं तुल्यशब्देन संबन्ध उपजायते ।
षष्ठीतृतीये तत्र स्तस् तुल्यशब्दो हि वाचकः ॥५४२॥
इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना ।
नाधिक्यम् उपमाने ऽस्ति द्योतकः स प्रयुज्यते ॥५४३॥
इवे यो व्यतिरेको ऽत्र स प्रासादादिहेतुकः ।
तुल्ये तद्विषयापेक्षम् आधिक्यम् उपजायते ॥५४४॥
गवयेन समो ऽनद्वान् इति वृत्तिस् तथा भवेत् ।
न त्व् अस्ति गौर् इवेत्य् अत्र व्यतिरेक इवाश्रयः ॥५४५॥
उपमेयेन संबन्धात् प्राक् प्रासादादिहेतुके ।
व्यतिरेके वतेर् भावो न तुल्यार्थत्वहेतुके ॥५४६॥
इवशब्देन संबन्धे न तृतीया विधीयते ।
प्रकृतां ताम् अतस् त्यक्त्वा विभक्त्यन्तरं आश्रितम् ॥५४७॥
सप्तम्य् अपि न तत्रास्ति ज्ञापकार्था तु सा कृता ।
इष्टा सा शेषविषये नियतासु विभक्तिषु ॥५४८॥
यदि तु व्यतिरेकेण विषये ऽस्मिन् विभक्तयः ।
प्रवर्तेरंस् तृतीयैव व्यभिचारं प्रदर्शयेत् ॥५४९॥
व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद् विना ।
सप्तम्य् एवोच्यते सर्वा न सन्त्य् अन्या विभक्तयः ॥५५०॥
अत्यन्तम् अत्र विषये सप्तम्या ज्ञापकार्थया ।
बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥५५१॥
पूर्वाभ्याम् एव योगाभ्यां विग्रहान्तरकल्पनात् ।
अर्हार्थे ऽपि वतिः सिद्धः स त्व् एकेन निदर्श्यते ॥५५२॥
तेन तुल्यम् इति प्राप्ते क्रियोपाधिः प्रसिध्यति ।
राजवद् वर्तते राजेत्य् अत्र भेदे विवक्षिते ॥५५३॥
राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः ।
युधिष्ठिरान्तास् ते ऽन्येषाम् उपमानं महीक्षिताम् ॥५५४॥
सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः ।
सर्वत्रैव यतो ऽसिद्धं प्रसिद्धेनोपमीयते ॥५५५॥
राजवद् रूपम् अस्येति राजन्य् एव विवक्षिते ।
अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥५५६॥
उपमानाविवक्षायां नियमार्थो ऽयम् उच्यते ।
धर्मो ऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥५५७॥
कृतहस्तवद् इत्य् एतत् प्रसिद्धेष्व् एव दृश्यते ।
राजत्वेन प्रसिद्धे च राज्ञि राजवद् इत्य् अपि ॥५५८॥
अराज्ञि येषां धर्माणां दृष्टो ऽत्यन्तम् असंभवः ।
ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥५५९॥
अर्हतेश् च क्रिया कर्त्री या तस्यां वतिर् इष्यते ।
राजानम् अर्हति च्छत्त्रम् इति न त्व् एवमादिषु ॥५६०॥
प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् ।
छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥५६१॥
तदर्हम् इति नारब्धं सूत्रं व्याकरणान्तरे ।
संभवत्य् उपमात्रापि भेदस्य परिकल्पनात् ॥५६२॥
एकस्य कार्यनिर्ज्ञानात् सिद्धस्य विषयान्तरे ।
तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥५६३॥
सूत्रारम्भान् न चैतस्माद् इवशब्दस्य विद्यते ।
प्रयोगः सो ऽपि चैतस्य विषये विद्यते वतेः ॥५६४॥
दस्युहेन्द्र इवेत्य् एतद् ऐन्द्रमन्त्रे प्रयुज्यते ।
अन्यत्र दृष्टकर्मेन्द्रो यथेत्य् अस्मिन् विवक्षिते ॥५६५॥
पूर्वाम् अवस्थाम् आश्रित्य यावस्था व्यपदिश्यते ।
सदृशस् त्वं तवैवेति तत्रैवम् अभिधीयते ॥५६६॥
प्रसिद्धभेदं यत्रान्यद् उपमानं न विद्यते ।
उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥५६७॥
यो ऽपि स्वाभाविको भेदः सो ऽपि बुद्धिनिबन्धनः ।
तेनास्मिन् विषये भिन्नम् अभिन्नं वा न विद्यते ॥५६८॥
अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः ।
चैत्रम् ईदृशम् इत्य् आह बुद्ध्यवस्थापरिग्रहात् ॥५६९॥
एतैः शब्दैर् यथाभूतः प्रत्ययात्मोपजायते ।
तत्प्रत्ययानुकारेण विषयो ऽप्य् उपपद्यते ॥५७०॥
बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते ।
जन्यन्त इव शब्दानाम् अर्थाः सर्वे विवक्षया ॥५७१॥
तथाविधे ऽपि बाह्ये ऽर्थे भिद्यन्ते यत्र बुद्धयः ।
न तत्र कश् चित् सादृश्यं सद् अपि प्रतिपद्यते ॥५७२॥
अत्यन्तं विषये भिन्ने यावत् प्रख्या न भिद्यते ।
न तावत् प्रत्यभिज्ञानं कस्य चिद् विनिवर्तते ॥५७३॥
अयम् एव तु सूत्रेण भेदो भेदेन दर्शितः ।
प्रसिद्धम् अपि दुर्ज्ञानम् अबुधः प्रतिपद्यते ॥५७४॥
वैयाकरणवद् ब्रूते न वैयाकरणः सदा ।
वैयाकरणवद् ब्रूष्वेत्य् अतः सो ऽप्य् अभिधीयते ॥५७५॥
के चित् पुमांसो भाषन्ते स्त्रीवत् पुंवच् च योषितः ।
व्यभिचारे स्वधर्मो ऽपि पुनस् तेनोपदिश्यते ॥५७६॥
सदृशस् त्वं तवैवेति लोके यद् अभिधीयते ।
उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥५७७॥
युक्तम् औपयिकं राज्ञ इत्य् अर्थस्य निदर्शने ।
उपमानाविवक्षायां तदर्हम् इति पठ्यते ॥५७८॥
प्रसक्तानुप्रसक्तस् तु वतिशेषो ऽभिधीयते ।
उपमानाभिसंबन्धाद् अस्मिन् वतिर् उदाहृतः ॥५७९॥
प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् ।
उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना ॥५८०॥
स्वं रूपम् इति चैतस्मिन्न् अर्थस्यापि परिग्रहः ।
रूपवज् ज्ञापितस् तस्माद् आसन्नो ऽर्थो ग्रहीष्यते ॥५८१॥
धात्वर्थेनोपजनितं साधनत्वेन साधनम् ।
धातुना कृतम् इत्य् एवम् अस्मिन् सूत्रे प्रतीयते ॥५८२॥
यः शब्दश् चरितार्थत्वाद् अत्यन्तं न प्रयुज्यते ।
विषये ऽदर्शनात् तत्र लोपस् तस्याभिधीयते ॥५८३॥
क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः ।
तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥५८४॥
प्रत्ययेन विना प्रादिस् तत्रार्थे न प्रयुज्यते ।
भेदेन तु समाख्याने विभागः परिकल्पितः ॥५८५॥
अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् ।
विभक्तिभिर् नियोगः स्याद् यथैव तसिलादिषु ॥५८६॥
पाठाद् यैर् अविभक्तित्वं वत्यन्तेष्व् अनुगम्यते ।
तेषाम् उद्वत इत्य् अत्र वक्तव्या सविभक्तिता ॥५८७॥
वत्यर्थं नावगाहेते पुंवद् इत्य् अस्य दर्शनात् ।
नञ्स्नञाव् अपवादस्य बाधकं तन् निपातनम् ॥५८८॥
एतम् उत्क्रामतो नूनं वत्यर्थं नञ्स्नञाव् इति ।
तयोः प्रवृत्ताव् उत्सर्गो बाधनान् नोपपद्यते ॥५८९॥
नञ्स्नञौ विहितौ येन स योगो नावगाहते ।
वतिप्रकरणं तद् धि लिङ्गम् एवं समर्थ्यते ॥५९०॥
अभेदेनोपमानस्य भिन्नार्थोपनिपातिता ।
ऊहस् तथोपमानानाम् अङ्गवन् नोपलभ्यते ॥५९१॥
गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः ।
पशू रुद्र इव ह्य् एताव् इत्य् एकवचनश्रुतिः ॥५९२॥
उपमानस्य भेदाच् च बहुषु स्याद् अञो विधिः ।
काश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्व् अपि ॥५९३॥
एवं तु युक्तवद्भावाद् अत्रैकवचनं भवेत् ।
लुम् मनुष्ये तथोक्तं स्याल् लिङ्गस्यैकस्य सिद्धये ॥५९४॥
उपमेयेषु भिन्नेषु किं चिद् एकं प्रवर्तते ।
प्रत्ययस्य विधौ तत्र नित्यं युक्तवद् इष्यते ॥५९५॥
यदा प्रत्युपमेयं तु तद् एकैकम् अवस्थितम् ।
तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥५९६॥
यथा समूहप्रचये द्विगूनां भिन्नसंख्यता ।
पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥५९७॥
प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते ।
अर्थभेदो लुबन्तेषु नैवं कश् चन दृश्यते ॥५९८॥
येषूपमेयवचनः शब्दो ऽन्यो न प्रयुज्यते ।
उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥५९९॥
यथा गुडतिलादीनां प्रयोगाद् एकसंख्यता ।
पाकादेर् अप्रयोगे तु भिन्ना संख्याभिधीयते ॥६००॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP