पदकांड - अपादानाधिकारः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


निर्दिष्टविषयं किं चिद् उपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते ॥१३६॥

संयोगभेदाद् भिन्नात्मा गमिर् एव भ्रमिर् यथा ।
ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे ॥१३७॥

द्रव्यस्वभावो न ध्रौव्यम् इति सूत्रे प्रतीयते ।
अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् ॥१३८॥

सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः ।
आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते ॥१३९॥

उभाव् अप्य् अध्रुवौ मेषौ यद्य् अप्य् उभयकर्मजे ।
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥१४०॥

मेषान्तरक्रियापेक्षम् अवधित्वं पृथक् पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥१४१॥

अभेदेन क्रियैका तु द्विसाध्या चेद् विवक्षिता ।
मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः ॥१४२॥

गतिर् विना त्व् अवधिना नापाय इति गम्यते ।
वृक्षस्य पर्णं पततीत्य् एवं भाष्ये निदर्शितम् ॥१४३॥

भेदाभेदौ पृथग्भावः स्थितिश् चेति विरोधिनः ।
युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥१४४॥

धनुषा विध्यतीत्य् अत्र विनापायविवक्षया ।
करणत्वं यतो नास्ति तस्मात् तद् उभयं सह ॥१४५॥

एकैव वा सती शक्तिर् द्विरूपा व्यवतिष्ठते ।
निमित्तं संज्ञयोस् तत्र परया बाध्यते ऽपरा ॥१४६॥

निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः ।
उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये ॥१४७॥

[इत्यपादानाधिकारः]

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP