पदकांड - कर्त्रधिकारः
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि ।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥१०१॥
अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।
आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥१०२॥
धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि ।
कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥१०३॥
एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते ।
कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥१०४॥
उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः ।
अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥१०॰ ॥
कारणं कार्यभावेन यदा वाव्यवतिष्ठते ।
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥१०६॥
यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता ।
तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥१०७॥
विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते ।
स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥१०८॥
भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा ।
नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥१०९॥
बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु ।
तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥११०॥
आकाशस्य यथा भेदश् छायायाश् चलनं यथा ।
जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥१११॥
यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम् ।
तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥११२॥
यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते ।
अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥११३॥
विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये ।
भिद्यते प्रतिपत्तृणां दर्शनं लि"न्गदर्शनैः ॥११४॥
कॢपि संपद्यमाने या चतुर्थी सा विकारतः ।
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥११५॥
वाक्ये संपद्यतेः कर्ता स"न्घश् च्व्यन्तस्य कथ्यते ।
वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥११६॥
अत्वं संपद्यते यस् त्वं न तस्मिन् युष्मदाश्रया ।
प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥११७॥
पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम् ।
संमूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥११८॥
सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते ।
संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥११९॥
विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।
गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥१२०॥
त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना ।
राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥१२१॥
संभावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।
क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥१२२॥
प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः ।
अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥१२३॥
निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये ।
अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥१२४॥
[इति कर्त्रधिकारः]
[अथ हेत्वधिकारः]
प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन् ।
कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥१२५॥
द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते ।
सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥१२६॥
गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः ।
नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥१२७॥
क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।
कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥१२८॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP